🪷 Mahābhārata · Anuśāsana-Parva · Chapter 64

The Book of the Final Teaching · Parva 13 · 19 unique Sanskrit addresses · pinned Critical Edition-derived witness

The Devanāgarī Yathārtha · 19 Shlokas

MBh 13.64.1
भीष्म उवाच सर्वान्कामान्प्रयच्छन्ति ये प्रयच्छन्ति काञ्चनम् इत्येवं भगवानत्रिः पितामहसुतोऽब्रवीत्
MBh 13.64.2
पवित्रं शुच्यथायुष्यं पितॄणामक्षयं च तत् सुवर्णं मनुजेन्द्रेण हरिश्चन्द्रेण कीर्तितम्
MBh 13.64.3
पानीयदानं परमं दानानां मनुरब्रवीत् तस्माद्वापीश्च कूपांश्च तडागानि च खानयेत्
MBh 13.64.4
अर्धं पापस्य हरति पुरुषस्येह कर्मणः कूपः प्रवृत्तपानीयः सुप्रवृत्तश्च नित्यशः
MBh 13.64.5
सर्वं तारयते वंशं यस्य खाते जलाशये गावः पिबन्ति विप्राश्च साधवश्च नराः सदा
MBh 13.64.6
निदाघकाले पानीयं यस्य तिष्ठत्यवारितम् स दुर्गं विषमं कृच्छ्रं न कदाचिदवाप्नुते
MBh 13.64.7
बृहस्पतेर्भगवतः पूष्णश्चैव भगस्य च अश्विनोश्चैव वह्नेश्च प्रीतिर्भवति सर्पिषा
MBh 13.64.8
परमं भेषजं ह्येतद्यज्ञानामेतदुत्तमम् रसानामुत्तमं चैतत्फलानां चैतदुत्तमम्
MBh 13.64.9
फलकामो यशस्कामः पुष्टिकामश्च नित्यदा घृतं दद्याद्द्विजातिभ्यः पुरुषः शुचिरात्मवान्
MBh 13.64.10
घृतं मासे आश्वयुजि विप्रेभ्यो यः प्रयच्छति तस्मै प्रयच्छतो रूपं प्रीतौ देवाविहाश्विनौ
MBh 13.64.11
पायसं सर्पिषा मिश्रं द्विजेभ्यो यः प्रयच्छति गृहं तस्य न रक्षांसि धर्षयन्ति कदाचन
MBh 13.64.12
पिपासया न म्रियते सोपच्छन्दश्च दृश्यते न प्राप्नुयाच्च व्यसनं करकान्यः प्रयच्छति
MBh 13.64.13
प्रयतो ब्राह्मणाग्रेभ्यः श्रद्धया परया युतः उपस्पर्शनषड्भागं लभते पुरुषः सदा
MBh 13.64.14
यः साधनार्थं काष्ठानि ब्राह्मणेभ्यः प्रयच्छति प्रतापार्थं च राजेन्द्र वृत्तवद्भ्यः सदा नरः
MBh 13.64.15
सिध्यन्त्यर्थाः सदा तस्य कार्याणि विविधानि च उपर्युपरि शत्रूणां वपुषा दीप्यते च सः
MBh 13.64.16
भगवांश्चास्य सुप्रीतो वह्निर्भवति नित्यशः न तं त्यजन्ते पशवः संग्रामे च जयत्यपि
MBh 13.64.17
पुत्राञ्छ्रियं च लभते यश्छत्रं संप्रयच्छति चक्षुर्व्याधिं न लभते यज्ञभागमथाश्नुते
MBh 13.64.18
निदाघकाले वर्षे वा यश्छत्रं संप्रयच्छति नास्य कश्चिन्मनोदाहः कदाचिदपि जायते कृच्छ्रात्स विषमाच्चैव विप्र मोक्षमवाप्नुते
MBh 13.64.19
प्रदानं सर्वदानानां शकटस्य विशिष्यते एवमाह महाभागः शाण्डिल्यो भगवानृषिः

🪷 The Honest Framing

This chapter belongs to the source-pinned BORI Critical Edition-derived digital witness. Its unique addresses are publicly readable and indexable; this remains a digital-witness claim, not a claim that every Mahābhārata recension agrees word-for-word or that the traditional 100,000-verse extent is represented here.

Navigation

Sources and Connected Readings

Continue from these 19 source-pinned Devanāgarī addresses to Anuśāsana-Parva, the Mahābhārata reading map, and any exact Bhagavad-Gītā correspondence.

MBh 13.64local chapter route · Anuśāsana-ParvaAnuśāsana-Parvaparent Parva chapter index/mahabharata18-parva Sanskrit reading index with edition and address notesBhīṣma-ParvaMahābhārata Parva 6 · the Gītā lives in chapters 23-40MBh 6.23Bhagavad-Gītā chapter 1 in its Itihāsa homeMBh 6.40Bhagavad-Gītā chapter 18 in its Itihāsa homeRāmopākhyānaVana-Parva 258 · Vyāsa narrates the Rāma-kathā inside Krishna's epicNārāyaṇīyamŚānti-Parva 335 · Nārāyaṇa/Krishna/Viṣṇu/Vāsudeva unity witness/bhagavad-gitadeep Gītā corpus with translations, commentaries, and verse-level anchorsBG 1.1Dharma-kṣetra opening cross-anchored to MBh 6.23.1BG 18.66Carama-Śloka surrender seal inside the Bhīṣma-Parva arcVyāsa vibhūtiBG 10.37 · Krishna names Vyāsa among munisBG 10.37Vyāsa and Dhanañjaya as Krishna-vibhūti source routeŚB 1.2.11Brahman · Paramātmā · Bhagavān as one advaya-tattvaŚB 1.3.28kṛṣṇas tu bhagavān svayam · Vyāsa corpus source seal/binduDiamond of Darśanas · Itihāsa as one Bindu aperture/philosophyKrishna = Paramaatma = Parabrahman constitutional foundation

🪷 जय व्यास भगवान् 🪷