🪷 Mahābhārata · Anuśāsana-Parva · Chapter 65

The Book of the Final Teaching · Parva 13 · 63 unique Sanskrit addresses · pinned Critical Edition-derived witness

The Devanāgarī Yathārtha · 63 Shlokas

MBh 13.65.1
युधिष्ठिर उवाच दह्यमानाय विप्राय यः प्रयच्छत्युपानहौ यत्फलं तस्य भवति तन्मे ब्रूहि पितामह
MBh 13.65.2
भीष्म उवाच उपानहौ प्रयच्छेद्यो ब्राह्मणेभ्यः समाहितः मर्दते कण्टकान्सर्वान्विषमान्निस्तरत्यपि स शत्रूणामुपरि च संतिष्ठति युधिष्ठिर
MBh 13.65.3
यानं चाश्वतरीयुक्तं तस्य शुभ्रं विशां पते उपतिष्ठति कौन्तेय रूप्यकाञ्चनभूषणम् शकटं दम्यसंयुक्तं दत्तं भवति चैव हि
MBh 13.65.4
युधिष्ठिर उवाच यत्फलं तिलदाने च भूमिदाने च कीर्तितम् गोप्रदानेऽन्नदाने च भूयस्तद्ब्रूहि कौरव
MBh 13.65.5
भीष्म उवाच शृणुष्व मम कौन्तेय तिलदानस्य यत्फलम् निशम्य च यथान्यायं प्रयच्छ कुरुसत्तम
MBh 13.65.6
पितॄणां प्रथमं भोज्यं तिलाः सृष्टाः स्वयंभुवा तिलदानेन वै तस्मात्पितृपक्षः प्रमोदते
MBh 13.65.7
माघमासे तिलान्यस्तु ब्राह्मणेभ्यः प्रयच्छति सर्वसत्त्वसमाकीर्णं नरकं स न पश्यति
MBh 13.65.8
सर्वकामैः स यजते यस्तिलैर्यजते पितॄन् न चाकामेन दातव्यं तिलश्राद्धं कथंचन
MBh 13.65.9
महर्षेः कश्यपस्यैते गात्रेभ्यः प्रसृतास्तिलाः ततो दिव्यं गता भावं प्रदानेषु तिलाः प्रभो
MBh 13.65.10
पौष्टिका रूपदाश्चैव तथा पापविनाशनाः तस्मात्सर्वप्रदानेभ्यस्तिलदानं विशिष्यते
MBh 13.65.11
आपस्तम्बश्च मेधावी शङ्खश्च लिखितस्तथा महर्षिर्गौतमश्चापि तिलदानैर्दिवं गताः
MBh 13.65.12
तिलहोमपरा विप्राः सर्वे संयतमैथुनाः समा गव्येन हविषा प्रवृत्तिषु च संस्थिताः
MBh 13.65.13
सर्वेषामेव दानानां तिलदानं परं स्मृतम् अक्षयं सर्वदानानां तिलदानमिहोच्यते
MBh 13.65.14
उत्पन्ने च पुरा हव्ये कुशिकर्षिः परंतप तिलैरग्नित्रयं हुत्वा प्राप्तवान्गतिमुत्तमाम्
MBh 13.65.15
इति प्रोक्तं कुरुश्रेष्ठ तिलदानमनुत्तमम् विधानं येन विधिना तिलानामिह शस्यते
MBh 13.65.16
अत ऊर्ध्वं निबोधेदं देवानां यष्टुमिच्छताम् समागमं महाराज ब्रह्मणा वै स्वयंभुवा
MBh 13.65.17
देवाः समेत्य ब्रह्माणं भूमिभागं यियक्षवः शुभं देशमयाचन्त यजेम इति पार्थिव
MBh 13.65.18
देवा ऊचुः भगवंस्त्वं प्रभुर्भूमेः सर्वस्य त्रिदिवस्य च यजेमहि महाभाग यज्ञं भवदनुज्ञया नाननुज्ञातभूमिर्हि यज्ञस्य फलमश्नुते
MBh 13.65.19
त्वं हि सर्वस्य जगतः स्थावरस्य चरस्य च प्रभुर्भवसि तस्मात्त्वं समनुज्ञातुमर्हसि
MBh 13.65.20
ब्रह्मोवाच ददामि मेदिनीभागं भवद्भ्योऽहं सुरर्षभाः यस्मिन्देशे करिष्यध्वं यज्ञं काश्यपनन्दनाः
MBh 13.65.21
देवा ऊचुः भगवन्कृतकामाः स्मो यक्ष्यामस्त्वाप्तदक्षिणैः इमं तु देशं मुनयः पर्युपासन्त नित्यदा
MBh 13.65.22
भीष्म उवाच ततोऽगस्त्यश्च कण्वश्च भृगुरत्रिर्वृषाकपिः असितो देवलश्चैव देवयज्ञमुपागमन्
MBh 13.65.23
ततो देवा महात्मान ईजिरे यज्ञमच्युत तथा समापयामासुर्यथाकालं सुरर्षभाः
MBh 13.65.24
त इष्टयज्ञास्त्रिदशा हिमवत्यचलोत्तमे षष्ठमंशं क्रतोस्तस्य भूमिदानं प्रचक्रिरे
MBh 13.65.25
प्रादेशमात्रं भूमेस्तु यो दद्यादनुपस्कृतम् न सीदति स कृच्छ्रेषु न च दुर्गाण्यवाप्नुते
MBh 13.65.26
शीतवातातपसहां गृहभूमिं सुसंस्कृताम् प्रदाय सुरलोकस्थः पुण्यान्तेऽपि न चाल्यते
MBh 13.65.27
मुदितो वसते प्राज्ञः शक्रेण सह पार्थिव प्रतिश्रयप्रदाता च सोऽपि स्वर्गे महीयते
MBh 13.65.28
अध्यापककुले जातः श्रोत्रियो नियतेन्द्रियः गृहे यस्य वसेत्तुष्टः प्रधानं लोकमश्नुते
MBh 13.65.29
तथा गवार्थे शरणं शीतवर्षसहं महत् आसप्तमं तारयति कुलं भरतसत्तम
MBh 13.65.30
क्षेत्रभूमिं ददल्लोके पुत्र श्रियमवाप्नुयात् रत्नभूमिं प्रदत्त्वा तु कुलवंशं विवर्धयेत्
MBh 13.65.31
न चोषरां न निर्दग्धां महीं दद्यात्कथंचन न श्मशानपरीतां च न च पापनिषेविताम्
MBh 13.65.32
पारक्ये भूमिदेशे तु पितॄणां निर्वपेत्तु यः तद्भूमिस्वामिपितृभिः श्राद्धकर्म विहन्यते
MBh 13.65.33
तस्मात्क्रीत्वा महीं दद्यात्स्वल्पामपि विचक्षणः पिण्डः पितृभ्यो दत्तो वै तस्यां भवति शाश्वतः
MBh 13.65.34
अटवीपर्वताश्चैव नदीतीर्थानि यानि च सर्वाण्यस्वामिकान्याहुर्न हि तत्र परिग्रहः
MBh 13.65.35
इत्येतद्भूमिदानस्य फलमुक्तं विशां पते अतः परं तु गोदानं कीर्तयिष्यामि तेऽनघ
MBh 13.65.36
गावोऽधिकास्तपस्विभ्यो यस्मात्सर्वेभ्य एव च तस्मान्महेश्वरो देवस्तपस्ताभिः समास्थितः
MBh 13.65.37
ब्रह्मलोके वसन्त्येताः सोमेन सह भारत आसां ब्रह्मर्षयः सिद्धाः प्रार्थयन्ति परां गतिम्
MBh 13.65.38
पयसा हविषा दध्ना शकृताप्यथ चर्मणा अस्थिभिश्चोपकुर्वन्ति शृङ्गैर्वालैश्च भारत
MBh 13.65.39
नासां शीतातपौ स्यातां सदैताः कर्म कुर्वते न वर्षं विषमं वापि दुःखमासां भवत्युत
MBh 13.65.40
ब्राह्मणैः सहिता यान्ति तस्मात्परतरं पदम् एकं गोब्राह्मणं तस्मात्प्रवदन्ति मनीषिणः
MBh 13.65.41
रन्तिदेवस्य यज्ञे ताः पशुत्वेनोपकल्पिताः ततश्चर्मण्वती राजन्गोचर्मभ्यः प्रवर्तिता
MBh 13.65.42
पशुत्वाच्च विनिर्मुक्ताः प्रदानायोपकल्पिताः ता इमा विप्रमुख्येभ्यो यो ददाति महीपते निस्तरेदापदं कृच्छ्रां विषमस्थोऽपि पार्थिव
MBh 13.65.43
गवां सहस्रदः प्रेत्य नरकं न प्रपश्यति सर्वत्र विजयं चापि लभते मनुजाधिप
MBh 13.65.44
अमृतं वै गवां क्षीरमित्याह त्रिदशाधिपः तस्माद्ददाति यो धेनुममृतं स प्रयच्छति
MBh 13.65.45
अग्नीनामव्ययं ह्येतद्धौम्यं वेदविदो विदुः तस्माद्ददाति यो धेनुं स हौम्यं संप्रयच्छति
MBh 13.65.46
स्वर्गो वै मूर्तिमानेष वृषभं यो गवां पतिम् विप्रे गुणयुते दद्यात्स वै स्वर्गे महीयते
MBh 13.65.47
प्राणा वै प्राणिनामेते प्रोच्यन्ते भरतर्षभ तस्माद्ददाति यो धेनुं प्राणान्वै स प्रयच्छति
MBh 13.65.48
गावः शरण्या भूतानामिति वेदविदो विदुः तस्माद्ददाति यो धेनुं शरणं संप्रयच्छति
MBh 13.65.49
न वधार्थं प्रदातव्या न कीनाशे न नास्तिके गोजीविने न दातव्या तथा गौः पुरुषर्षभ
MBh 13.65.50
ददाति तादृशानां वै नरो गाः पापकर्मणाम् अक्षयं नरकं यातीत्येवमाहुर्मनीषिणः
MBh 13.65.51
न कृशां पापवत्सां वा वन्ध्यां रोगान्वितां तथा न व्यङ्गां न परिश्रान्तां दद्याद्गां ब्राह्मणाय वै
MBh 13.65.52
दशगोसहस्रदः सम्यक्शक्रेण सह मोदते अक्षयाँल्लभते लोकान्नरः शतसहस्रदः
MBh 13.65.53
इत्येतद्गोप्रदानं च तिलदानं च कीर्तितम् तथा भूमिप्रदानं च शृणुष्वान्ने च भारत
MBh 13.65.54
अन्नदानं प्रधानं हि कौन्तेय परिचक्षते अन्नस्य हि प्रदानेन रन्तिदेवो दिवं गतः
MBh 13.65.55
श्रान्ताय क्षुधितायान्नं यः प्रयच्छति भूमिप स्वायंभुवं महाभागं स पश्यति नराधिप
MBh 13.65.56
न हिरण्यैर्न वासोभिर्नाश्वदानेन भारत प्राप्नुवन्ति नराः श्रेयो यथेहान्नप्रदाः प्रभो
MBh 13.65.57
अन्नं वै परमं द्रव्यमन्नं श्रीश्च परा मता अन्नात्प्राणः प्रभवति तेजो वीर्यं बलं तथा
MBh 13.65.58
सद्भ्यो ददाति यश्चान्नं सदैकाग्रमना नरः न स दुर्गाण्यवाप्नोतीत्येवमाह पराशरः
MBh 13.65.59
अर्चयित्वा यथान्यायं देवेभ्योऽन्नं निवेदयेत् यदन्नो हि नरो राजंस्तदन्नास्तस्य देवताः
MBh 13.65.60
कौमुद्यां शुक्लपक्षे तु योऽन्नदानं करोत्युत स संतरति दुर्गाणि प्रेत्य चानन्त्यमश्नुते
MBh 13.65.61
अभुक्त्वातिथये चान्नं प्रयच्छेद्यः समाहितः स वै ब्रह्मविदां लोकान्प्राप्नुयाद्भरतर्षभ
MBh 13.65.62
सुकृच्छ्रामापदं प्राप्तश्चान्नदः पुरुषस्तरेत् पापं तरति चैवेह दुष्कृतं चापकर्षति
MBh 13.65.63
इत्येतदन्नदानस्य तिलदानस्य चैव ह भूमिदानस्य च फलं गोदानस्य च कीर्तितम्

🪷 The Honest Framing

This chapter belongs to the source-pinned BORI Critical Edition-derived digital witness. Its unique addresses are publicly readable and indexable; this remains a digital-witness claim, not a claim that every Mahābhārata recension agrees word-for-word or that the traditional 100,000-verse extent is represented here.

Navigation

Sources and Connected Readings

Continue from these 63 source-pinned Devanāgarī addresses to Anuśāsana-Parva, the Mahābhārata reading map, and any exact Bhagavad-Gītā correspondence.

MBh 13.65local chapter route · Anuśāsana-ParvaAnuśāsana-Parvaparent Parva chapter index/mahabharata18-parva Sanskrit reading index with edition and address notesBhīṣma-ParvaMahābhārata Parva 6 · the Gītā lives in chapters 23-40MBh 6.23Bhagavad-Gītā chapter 1 in its Itihāsa homeMBh 6.40Bhagavad-Gītā chapter 18 in its Itihāsa homeRāmopākhyānaVana-Parva 258 · Vyāsa narrates the Rāma-kathā inside Krishna's epicNārāyaṇīyamŚānti-Parva 335 · Nārāyaṇa/Krishna/Viṣṇu/Vāsudeva unity witness/bhagavad-gitadeep Gītā corpus with translations, commentaries, and verse-level anchorsBG 1.1Dharma-kṣetra opening cross-anchored to MBh 6.23.1BG 18.66Carama-Śloka surrender seal inside the Bhīṣma-Parva arcVyāsa vibhūtiBG 10.37 · Krishna names Vyāsa among munisBG 10.37Vyāsa and Dhanañjaya as Krishna-vibhūti source routeŚB 1.2.11Brahman · Paramātmā · Bhagavān as one advaya-tattvaŚB 1.3.28kṛṣṇas tu bhagavān svayam · Vyāsa corpus source seal/binduDiamond of Darśanas · Itihāsa as one Bindu aperture/philosophyKrishna = Paramaatma = Parabrahman constitutional foundation

🪷 जय व्यास भगवान् 🪷