🪷 Mahābhārata · Anuśāsana-Parva · Chapter 63
The Book of the Final Teaching · Parva 13 · 36 unique Sanskrit addresses · pinned Critical Edition-derived witness
The Devanāgarī Yathārtha · 36 Shlokas
MBh 13.63.1
युधिष्ठिर उवाच
श्रुतं मे भवतो वाक्यमन्नदानस्य यो विधिः
नक्षत्रयोगस्येदानीं दानकल्पं ब्रवीहि मे
MBh 13.63.2
भीष्म उवाच
अत्राप्युदाहरन्तीममितिहासं पुरातनम्
देवक्याश्चैव संवादं देवर्षेर्नारदस्य च
MBh 13.63.3
द्वारकामनुसंप्राप्तं नारदं देवदर्शनम्
पप्रच्छैनं ततः प्रश्नं देवकी धर्मदर्शिनी
MBh 13.63.4
तस्याः संपृच्छमानाया देवर्षिर्नारदस्तदा
आचष्ट विधिवत्सर्वं यत्तच्छृणु विशां पते
MBh 13.63.5
नारद उवाच
कृत्तिकासु महाभागे पायसेन ससर्पिषा
संतर्प्य ब्राह्मणान्साधूँल्लोकानाप्नोत्यनुत्तमान्
MBh 13.63.6
रोहिण्यां प्रथितैर्मांसैर्माषैरन्नेन सर्पिषा
पयोऽनुपानं दातव्यमानृण्यार्थं द्विजातये
MBh 13.63.7
दोग्ध्रीं दत्त्वा सवत्सां तु नक्षत्रे सोमदैवते
गच्छन्ति मानुषाल्लोकात्स्वर्गलोकमनुत्तमम्
MBh 13.63.8
आर्द्रायां कृसरं दत्त्वा तैलमिश्रमुपोषितः
नरस्तरति दुर्गाणि क्षुरधारांश्च पर्वतान्
MBh 13.63.9
अपूपान्पुनर्वसौ दत्त्वा तथैवान्नानि शोभने
यशस्वी रूपसंपन्नो बह्वन्ने जायते कुले
MBh 13.63.10
पुष्ये तु कनकं दत्त्वा कृतं चाकृतमेव च
अनालोकेषु लोकेषु सोमवत्स विराजते
MBh 13.63.11
आश्लेषायां तु यो रूप्यमृषभं वा प्रयच्छति
स सर्वभयनिर्मुक्तः शात्रवानधितिष्ठति
MBh 13.63.12
मघासु तिलपूर्णानि वर्धमानानि मानवः
प्रदाय पुत्रपशुमानिह प्रेत्य च मोदते
MBh 13.63.13
फल्गुनीपूर्वसमये ब्राह्मणानामुपोषितः
भक्षान्फाणितसंयुक्तान्दत्त्वा सौभाग्यमृच्छति
MBh 13.63.14
घृतक्षीरसमायुक्तं विधिवत्षष्टिकौदनम्
उत्तराविषये दत्त्वा स्वर्गलोके महीयते
MBh 13.63.15
यद्यत्प्रदीयते दानमुत्तराविषये नरैः
महाफलमनन्तं च भवतीति विनिश्चयः
MBh 13.63.16
हस्ते हस्तिरथं दत्त्वा चतुर्युक्तमुपोषितः
प्राप्नोति परमाँल्लोकान्पुण्यकामसमन्वितान्
MBh 13.63.17
चित्रायामृषभं दत्त्वा पुण्यान्गन्धांश्च भारत
चरत्यप्सरसां लोके रमते नन्दने तथा
MBh 13.63.18
स्वातावथ धनं दत्त्वा यदिष्टतममात्मनः
प्राप्नोति लोकान्स शुभानिह चैव महद्यशः
MBh 13.63.19
विशाखायामनड्वाहं धेनुं दत्त्वा च दुग्धदाम्
सप्रासङ्गं च शकटं सधान्यं वस्त्रसंयुतम्
MBh 13.63.20
पितॄन्देवांश्च प्रीणाति प्रेत्य चानन्त्यमश्नुते
न च दुर्गाण्यवाप्नोति स्वर्गलोकं च गच्छति
MBh 13.63.21
दत्त्वा यथोक्तं विप्रेभ्यो वृत्तिमिष्टां स विन्दति
नरकादींश्च संक्लेशान्नाप्नोतीति विनिश्चयः
MBh 13.63.22
अनुराधासु प्रावारं वस्त्रान्तरमुपोषितः
दत्त्वा युगशतं चापि नरः स्वर्गे महीयते
MBh 13.63.23
कालशाकं तु विप्रेभ्यो दत्त्वा मर्त्यः समूलकम्
ज्येष्ठायामृद्धिमिष्टां वै गतिमिष्टां च विन्दति
MBh 13.63.24
मूले मूलफलं दत्त्वा ब्राह्मणेभ्यः समाहितः
पितॄन्प्रीणयते चापि गतिमिष्टां च गच्छति
MBh 13.63.25
अथ पूर्वास्वषाढासु दधिपात्राण्युपोषितः
कुलवृत्तोपसंपन्ने ब्राह्मणे वेदपारगे
प्रदाय जायते प्रेत्य कुले सुबहुगोकुले
MBh 13.63.26
उदमन्थं ससर्पिष्कं प्रभूतमधुफाणितम्
दत्त्वोत्तरास्वषाढासु सर्वकामानवाप्नुयात्
MBh 13.63.27
दुग्धं त्वभिजिते योगे दत्त्वा मधुघृताप्लुतम्
धर्मनित्यो मनीषिभ्यः स्वर्गलोके महीयते
MBh 13.63.28
श्रवणे कम्बलं दत्त्वा वस्त्रान्तरितमेव च
श्वेतेन याति यानेन सर्वलोकानसंवृतान्
MBh 13.63.29
गोप्रयुक्तं धनिष्ठासु यानं दत्त्वा समाहितः
वस्त्ररश्मिधरं सद्यः प्रेत्य राज्यं प्रपद्यते
MBh 13.63.30
गन्धाञ्शतभिषग्योगे दत्त्वा सागुरुचन्दनान्
प्राप्नोत्यप्सरसां लोकान्प्रेत्य गन्धांश्च शाश्वतान्
MBh 13.63.31
पूर्वभाद्रपदायोगे राजमाषान्प्रदाय तु
सर्वभक्षफलोपेतः स वै प्रेत्य सुखी भवेत्
MBh 13.63.32
औरभ्रमुत्तरायोगे यस्तु मांसं प्रयच्छति
स पितॄन्प्रीणयति वै प्रेत्य चानन्त्यमश्नुते
MBh 13.63.33
कांस्योपदोहनां धेनुं रेवत्यां यः प्रयच्छति
सा प्रेत्य कामानादाय दातारमुपतिष्ठति
MBh 13.63.34
रथमश्वसमायुक्तं दत्त्वाश्विन्यां नरोत्तमः
हस्त्यश्वरथसंपन्ने वर्चस्वी जायते कुले
MBh 13.63.35
भरणीषु द्विजातिभ्यस्तिलधेनुं प्रदाय वै
गाः सुप्रभूताः प्राप्नोति नरः प्रेत्य यशस्तथा
MBh 13.63.36
भीष्म उवाच
इत्येष लक्षणोद्देशः प्रोक्तो नक्षत्रयोगतः
देवक्या नारदेनेह सा स्नुषाभ्योऽब्रवीदिदम्
🪷 The Honest Framing
This chapter belongs to the source-pinned BORI Critical Edition-derived digital witness. Its unique addresses are publicly readable and indexable; this remains a digital-witness claim, not a claim that every Mahābhārata recension agrees word-for-word or that the traditional 100,000-verse extent is represented here.
Navigation
- ← Anuśāsana-Parva chapter-index (154 chapters)
- ← Mahābhārata master-index (all 18 Parvas)
- ← Previous chapter · Anuśāsana-Parva Ch 62
- Next chapter · Anuśāsana-Parva Ch 64 →
Sources and Connected Readings
Continue from these 36 source-pinned Devanāgarī addresses to Anuśāsana-Parva, the Mahābhārata reading map, and any exact Bhagavad-Gītā correspondence.
MBh 13.63local chapter route · Anuśāsana-ParvaAnuśāsana-Parvaparent Parva chapter index/mahabharata18-parva Sanskrit reading index with edition and address notesBhīṣma-ParvaMahābhārata Parva 6 · the Gītā lives in chapters 23-40MBh 6.23Bhagavad-Gītā chapter 1 in its Itihāsa homeMBh 6.40Bhagavad-Gītā chapter 18 in its Itihāsa homeRāmopākhyānaVana-Parva 258 · Vyāsa narrates the Rāma-kathā inside Krishna's epicNārāyaṇīyamŚānti-Parva 335 · Nārāyaṇa/Krishna/Viṣṇu/Vāsudeva unity witness/bhagavad-gitadeep Gītā corpus with translations, commentaries, and verse-level anchorsBG 1.1Dharma-kṣetra opening cross-anchored to MBh 6.23.1BG 18.66Carama-Śloka surrender seal inside the Bhīṣma-Parva arcVyāsa vibhūtiBG 10.37 · Krishna names Vyāsa among munisBG 10.37Vyāsa and Dhanañjaya as Krishna-vibhūti source routeŚB 1.2.11Brahman · Paramātmā · Bhagavān as one advaya-tattvaŚB 1.3.28kṛṣṇas tu bhagavān svayam · Vyāsa corpus source seal/binduDiamond of Darśanas · Itihāsa as one Bindu aperture/philosophyKrishna = Paramaatma = Parabrahman constitutional foundation
🪷 जय व्यास भगवान् 🪷