🪷 Mahābhārata · Anuśāsana-Parva · Chapter 62

The Book of the Final Teaching · Parva 13 · 51 unique Sanskrit addresses · pinned Critical Edition-derived witness

The Devanāgarī Yathārtha · 51 Shlokas

MBh 13.62.1
युधिष्ठिर उवाच कानि दानानि लोकेऽस्मिन्दातुकामो महीपतिः गुणाधिकेभ्यो विप्रेभ्यो दद्याद्भरतसत्तम
MBh 13.62.2
केन तुष्यन्ति ते सद्यस्तुष्टाः किं प्रदिशन्त्युत शंस मे तन्महाबाहो फलं पुण्यकृतं महत्
MBh 13.62.3
दत्तं किं फलवद्राजन्निह लोके परत्र च भवतः श्रोतुमिच्छामि तन्मे विस्तरतो वद
MBh 13.62.4
भीष्म उवाच इममर्थं पुरा पृष्टो नारदो देवदर्शनः यदुक्तवानसौ तन्मे गदतः शृणु भारत
MBh 13.62.5
नारद उवाच अन्नमेव प्रशंसन्ति देवाः सर्षिगणाः पुरा लोकतन्त्रं हि यज्ञाश्च सर्वमन्ने प्रतिष्ठितम्
MBh 13.62.6
अन्नेन सदृशं दानं न भूतं न भविष्यति तस्मादन्नं विशेषेण दातुमिच्छन्ति मानवाः
MBh 13.62.7
अन्नमूर्जस्करं लोके प्राणाश्चान्ने प्रतिष्ठिताः अन्नेन धार्यते सर्वं विश्वं जगदिदं प्रभो
MBh 13.62.8
अन्नाद्गृहस्था लोकेऽस्मिन्भिक्षवस्तत एव च अन्नात्प्रभवति प्राणः प्रत्यक्षं नात्र संशयः
MBh 13.62.9
कुटुम्बं पीडयित्वापि ब्राह्मणाय महात्मने दातव्यं भिक्षवे चान्नमात्मनो भूतिमिच्छता
MBh 13.62.10
ब्राह्मणायाभिरूपाय यो दद्यादन्नमर्थिने निदधाति निधिं श्रेष्ठं पारलौकिकमात्मनः
MBh 13.62.11
श्रान्तमध्वनि वर्तन्तं वृद्धमर्हमुपस्थितम् अर्चयेद्भूतिमन्विच्छन्गृहस्थो गृहमागतम्
MBh 13.62.12
क्रोधमुत्पतितं हित्वा सुशीलो वीतमत्सरः अन्नदः प्राप्नुते राजन्दिवि चेह च यत्सुखम्
MBh 13.62.13
नावमन्येदभिगतं न प्रणुद्यात्कथंचन अपि श्वपाके शुनि वा न दानं विप्रणश्यति
MBh 13.62.14
यो दद्यादपरिक्लिष्टमन्नमध्वनि वर्तते श्रान्तायादृष्टपूर्वाय स महद्धर्ममाप्नुयात्
MBh 13.62.15
पितॄन्देवानृषीन्विप्रानतिथींश्च जनाधिप यो नरः प्रीणयत्यन्नैस्तस्य पुण्यफलं महत्
MBh 13.62.16
कृत्वापि पापकं कर्म यो दद्यादन्नमर्थिने ब्राह्मणाय विशेषेण न स पापेन युज्यते
MBh 13.62.17
ब्राह्मणेष्वक्षयं दानमन्नं शूद्रे महाफलम् अन्नदानं च शूद्रे च ब्राह्मणे च विशिष्यते
MBh 13.62.18
न पृच्छेद्गोत्रचरणं स्वाध्यायं देशमेव वा भिक्षितो ब्राह्मणेनेह जन्म वान्नं प्रयाचितः
MBh 13.62.19
अन्नदस्यान्नवृक्षाश्च सर्वकामफलान्विताः भवन्तीहाथ वामुत्र नृपते नात्र संशयः
MBh 13.62.20
आशंसन्ते हि पितरः सुवृष्टिमिव कर्षकाः अस्माकमपि पुत्रो वा पौत्रो वान्नं प्रदास्यति
MBh 13.62.21
ब्राह्मणो हि महद्भूतं स्वयं देहीति याचते अकामो वा सकामो वा दत्त्वा पुण्यमवाप्नुयात्
MBh 13.62.22
ब्राह्मणः सर्वभूतानामतिथिः प्रसृताग्रभुक् विप्रा यमभिगच्छन्ति भिक्षमाणा गृहं सदा
MBh 13.62.23
सत्कृताश्च निवर्तन्ते तदतीव प्रवर्धते महाभोगे कुले जन्म प्रेत्य प्राप्नोति भारत
MBh 13.62.24
दत्त्वा त्वन्नं नरो लोके तथा स्थानमनुत्तमम् मृष्टमृष्टान्नदायी तु स्वर्गे वसति सत्कृतः
MBh 13.62.25
अन्नं प्राणा नराणां हि सर्वमन्ने प्रतिष्ठितम् अन्नदः पशुमान्पुत्री धनवान्भोगवानपि
MBh 13.62.26
प्राणवांश्चापि भवति रूपवांश्च तथा नृप अन्नदः प्राणदो लोके सर्वदः प्रोच्यते तु सः
MBh 13.62.27
अन्नं हि दत्त्वातिथये ब्राह्मणाय यथाविधि प्रदाता सुखमाप्नोति देवैश्चाप्यभिपूज्यते
MBh 13.62.28
ब्राह्मणो हि महद्भूतं क्षेत्रं चरति पादवत् उप्यते तत्र यद्बीजं तद्धि पुण्यफलं महत्
MBh 13.62.29
प्रत्यक्षं प्रीतिजननं भोक्तृदात्रोर्भवत्युत सर्वाण्यन्यानि दानानि परोक्षफलवन्त्युत
MBh 13.62.30
अन्नाद्धि प्रसवं विद्धि रतिमन्नाद्धि भारत धर्मार्थावन्नतो विद्धि रोगनाशं तथान्नतः
MBh 13.62.31
अन्नं ह्यमृतमित्याह पुराकल्पे प्रजापतिः अन्नं भुवं दिवं खं च सर्वमन्ने प्रतिष्ठितम्
MBh 13.62.32
अन्नप्रणाशे भिद्यन्ते शरीरे पञ्च धातवः बलं बलवतोऽपीह प्रणश्यत्यन्नहानितः
MBh 13.62.33
आवाहाश्च विवाहाश्च यज्ञाश्चान्नमृते तथा न वर्तन्ते नरश्रेष्ठ ब्रह्म चात्र प्रलीयते
MBh 13.62.34
अन्नतः सर्वमेतद्धि यत्किंचित्स्थाणु जङ्गमम् त्रिषु लोकेषु धर्मार्थमन्नं देयमतो बुधैः
MBh 13.62.35
अन्नदस्य मनुष्यस्य बलमोजो यशः सुखम् कीर्तिश्च वर्धते शश्वत्त्रिषु लोकेषु पार्थिव
MBh 13.62.36
मेघेष्वम्भः संनिधत्ते प्राणानां पवनः शिवः तच्च मेघगतं वारि शक्रो वर्षति भारत
MBh 13.62.37
आदत्ते च रसं भौममादित्यः स्वगभस्तिभिः वायुरादित्यतस्तांश्च रसान्देवः प्रजापतिः
MBh 13.62.38
तद्यदा मेघतो वारि पतितं भवति क्षितौ तदा वसुमती देवी स्निग्धा भवति भारत
MBh 13.62.39
ततः सस्यानि रोहन्ति येन वर्तयते जगत् मांसमेदोस्थिशुक्राणां प्रादुर्भावस्ततः पुनः
MBh 13.62.40
संभवन्ति ततः शुक्रात्प्राणिनः पृथिवीपते अग्नीषोमौ हि तच्छुक्रं प्रजनः पुष्यतश्च ह
MBh 13.62.41
एवमन्नं च सूर्यश्च पवनः शुक्रमेव च एक एव स्मृतो राशिर्यतो भूतानि जज्ञिरे
MBh 13.62.42
प्राणान्ददाति भूतानां तेजश्च भरतर्षभ गृहमभ्यागतायाशु यो दद्यादन्नमर्थिने
MBh 13.62.43
भीष्म उवाच नारदेनैवमुक्तोऽहमदामन्नं सदा नृप अनसूयुस्त्वमप्यन्नं तस्माद्देहि गतज्वरः
MBh 13.62.44
दत्त्वान्नं विधिवद्राजन्विप्रेभ्यस्त्वमपि प्रभो यथावदनुरूपेभ्यस्ततः स्वर्गमवाप्स्यसि
MBh 13.62.45
अन्नदानां हि ये लोकास्तांस्त्वं शृणु नराधिप भवनानि प्रकाशन्ते दिवि तेषां महात्मनाम् नानासंस्थानरूपाणि नानास्तम्भान्वितानि च
MBh 13.62.46
चन्द्रमण्डलशुभ्राणि किङ्किणीजालवन्ति च तरुणादित्यवर्णानि स्थावराणि चराणि च
MBh 13.62.47
अनेकशतभौमानि सान्तर्जलवनानि च वैडूर्यार्कप्रकाशानि रौप्यरुक्ममयानि च
MBh 13.62.48
सर्वकामफलाश्चापि वृक्षा भवनसंस्थिताः वाप्यो वीथ्यः सभाः कूपा दीर्घिकाश्चैव सर्वशः
MBh 13.62.49
घोषवन्ति च यानानि युक्तान्यथ सहस्रशः भक्ष्यभोज्यमयाः शैला वासांस्याभरणानि च
MBh 13.62.50
क्षीरं स्रवन्त्यः सरितस्तथा चैवान्नपर्वताः प्रासादाः पाण्डुराभ्राभाः शय्याश्च कनकोज्ज्वलाः तानन्नदाः प्रपद्यन्ते तस्मादन्नप्रदो भव
MBh 13.62.51
एते लोकाः पुण्यकृतामन्नदानां महात्मनाम् तस्मादन्नं विशेषेण दातव्यं मानवैर्भुवि

🪷 The Honest Framing

This chapter belongs to the source-pinned BORI Critical Edition-derived digital witness. Its unique addresses are publicly readable and indexable; this remains a digital-witness claim, not a claim that every Mahābhārata recension agrees word-for-word or that the traditional 100,000-verse extent is represented here.

Navigation

Sources and Connected Readings

Continue from these 51 source-pinned Devanāgarī addresses to Anuśāsana-Parva, the Mahābhārata reading map, and any exact Bhagavad-Gītā correspondence.

MBh 13.62local chapter route · Anuśāsana-ParvaAnuśāsana-Parvaparent Parva chapter index/mahabharata18-parva Sanskrit reading index with edition and address notesBhīṣma-ParvaMahābhārata Parva 6 · the Gītā lives in chapters 23-40MBh 6.23Bhagavad-Gītā chapter 1 in its Itihāsa homeMBh 6.40Bhagavad-Gītā chapter 18 in its Itihāsa homeRāmopākhyānaVana-Parva 258 · Vyāsa narrates the Rāma-kathā inside Krishna's epicNārāyaṇīyamŚānti-Parva 335 · Nārāyaṇa/Krishna/Viṣṇu/Vāsudeva unity witness/bhagavad-gitadeep Gītā corpus with translations, commentaries, and verse-level anchorsBG 1.1Dharma-kṣetra opening cross-anchored to MBh 6.23.1BG 18.66Carama-Śloka surrender seal inside the Bhīṣma-Parva arcVyāsa vibhūtiBG 10.37 · Krishna names Vyāsa among munisBG 10.37Vyāsa and Dhanañjaya as Krishna-vibhūti source routeŚB 1.2.11Brahman · Paramātmā · Bhagavān as one advaya-tattvaŚB 1.3.28kṛṣṇas tu bhagavān svayam · Vyāsa corpus source seal/binduDiamond of Darśanas · Itihāsa as one Bindu aperture/philosophyKrishna = Paramaatma = Parabrahman constitutional foundation

🪷 जय व्यास भगवान् 🪷