🪷 Mahābhārata · Anuśāsana-Parva · Chapter 53

The Book of the Final Teaching · Parva 13 · 69 unique Sanskrit addresses · pinned Critical Edition-derived witness

The Devanāgarī Yathārtha · 69 Shlokas

MBh 13.53.1
युधिष्ठिर उवाच तस्मिन्नन्तर्हिते विप्रे राजा किमकरोत्तदा भार्या चास्य महाभागा तन्मे ब्रूहि पितामह
MBh 13.53.2
भीष्म उवाच अदृष्ट्वा स महीपालस्तमृषिं सह भार्यया परिश्रान्तो निववृते व्रीडितो नष्टचेतनः
MBh 13.53.3
स प्रविश्य पुरीं दीनो नाभ्यभाषत किंचन तदेव चिन्तयामास च्यवनस्य विचेष्टितम्
MBh 13.53.4
अथ शून्येन मनसा प्रविवेश गृहं नृपः ददर्श शयने तस्मिञ्शयानं भृगुनन्दनम्
MBh 13.53.5
विस्मितौ तौ तु दृष्ट्वा तं तदाश्चर्यं विचिन्त्य च दर्शनात्तस्य च मुनेर्विश्रान्तौ संबभूवतुः
MBh 13.53.6
यथास्थानं तु तौ स्थित्वा भूयस्तं संववाहतुः अथापरेण पार्श्वेन सुष्वाप स महामुनिः
MBh 13.53.7
तेनैव च स कालेन प्रत्यबुध्यत वीर्यवान् न च तौ चक्रतुः किंचिद्विकारं भयशङ्कितौ
MBh 13.53.8
प्रतिबुद्धस्तु स मुनिस्तौ प्रोवाच विशां पते तैलाभ्यङ्गो दीयतां मे स्नास्येऽहमिति भारत
MBh 13.53.9
तथेति तौ प्रतिश्रुत्य क्षुधितौ श्रमकर्शितौ शतपाकेन तैलेन महार्हेणोपतस्थतुः
MBh 13.53.10
ततः सुखासीनमृषिं वाग्यतौ संववाहतुः न च पर्याप्तमित्याह भार्गवः सुमहातपाः
MBh 13.53.11
यदा तौ निर्विकारौ तु लक्षयामास भार्गवः तत उत्थाय सहसा स्नानशालां विवेश ह कॢप्तमेव तु तत्रासीत्स्नानीयं पार्थिवोचितम्
MBh 13.53.12
असत्कृत्य तु तत्सर्वं तत्रैवान्तरधीयत स मुनिः पुनरेवाथ नृपतेः पश्यतस्तदा नासूयां चक्रतुस्तौ च दंपती भरतर्षभ
MBh 13.53.13
अथ स्नातः स भगवान्सिंहासनगतः प्रभुः दर्शयामास कुशिकं सभार्यं भृगुनन्दनः
MBh 13.53.14
संहृष्टवदनो राजा सभार्यः कुशिको मुनिम् सिद्धमन्नमिति प्रह्वो निर्विकारो न्यवेदयत्
MBh 13.53.15
आनीयतामिति मुनिस्तं चोवाच नराधिपम् राजा च समुपाजह्रे तदन्नं सह भार्यया
MBh 13.53.16
मांसप्रकारान्विविधाञ्शाकानि विविधानि च वेसवारविकारांश्च पानकानि लघूनि च
MBh 13.53.17
रसालापूपकांश्चित्रान्मोदकानथ षाडवान् रसान्नानाप्रकारांश्च वन्यं च मुनिभोजनम्
MBh 13.53.18
फलानि च विचित्राणि तथा भोज्यानि भूरिशः बदरेङ्गुदकाश्मर्यभल्लातकवटानि च
MBh 13.53.19
गृहस्थानां च यद्भोज्यं यच्चापि वनवासिनाम् सर्वमाहारयामास राजा शापभयान्मुनेः
MBh 13.53.20
अथ सर्वमुपन्यस्तमग्रतश्च्यवनस्य तत् ततः सर्वं समानीय तच्च शय्यासनं मुनिः
MBh 13.53.21
वस्त्रैः शुभैरवच्छाद्य भोजनोपस्करैः सह सर्वमादीपयामास च्यवनो भृगुनन्दनः
MBh 13.53.22
न च तौ चक्रतुः कोपं दंपती सुमहाव्रतौ तयोः संप्रेक्षतोरेव पुनरन्तर्हितोऽभवत्
MBh 13.53.23
तत्रैव च स राजर्षिस्तस्थौ तां रजनीं तदा सभार्यो वाग्यतः श्रीमान्न च तं कोप आविशत्
MBh 13.53.24
नित्यं संस्कृतमन्नं तु विविधं राजवेश्मनि शयनानि च मुख्यानि परिषेकाश्च पुष्कलाः
MBh 13.53.25
वस्त्रं च विविधाकारमभवत्समुपार्जितम् न शशाक ततो द्रष्टुमन्तरं च्यवनस्तदा
MBh 13.53.26
पुनरेव च विप्रर्षिः प्रोवाच कुशिकं नृपम् सभार्यो मां रथेनाशु वह यत्र ब्रवीम्यहम्
MBh 13.53.27
तथेति च प्राह नृपो निर्विशङ्कस्तपोधनम् क्रीडारथोऽस्तु भगवन्नुत सांग्रामिको रथः
MBh 13.53.28
इत्युक्तः स मुनिस्तेन राज्ञा हृष्टेन तद्वचः च्यवनः प्रत्युवाचेदं हृष्टः परपुरंजयम्
MBh 13.53.29
सज्जीकुरु रथं क्षिप्रं यस्ते सांग्रामिको मतः सायुधः सपताकश्च सशक्तिः कणयष्टिमान्
MBh 13.53.30
किङ्किणीशतनिर्घोषो युक्तस्तोमरकल्पनैः गदाखड्गनिबद्धश्च परमेषुशतान्वितः
MBh 13.53.31
ततः स तं तथेत्युक्त्वा कल्पयित्वा महारथम् भार्यां वामे धुरि तदा चात्मानं दक्षिणे तथा
MBh 13.53.32
त्रिदंष्ट्रं वज्रसूच्यग्रं प्रतोदं तत्र चादधत् सर्वमेतत्ततो दत्त्वा नृपो वाक्यमथाब्रवीत्
MBh 13.53.33
भगवन्क्व रथो यातु ब्रवीतु भृगुनन्दनः यत्र वक्ष्यसि विप्रर्षे तत्र यास्यति ते रथः
MBh 13.53.34
एवमुक्तस्तु भगवान्प्रत्युवाचाथ तं नृपम् इतःप्रभृति यातव्यं पदकं पदकं शनैः
MBh 13.53.35
श्रमो मम यथा न स्यात्तथा मे छन्दचारिणौ सुखं चैवास्मि वोढव्यो जनः सर्वश्च पश्यतु
MBh 13.53.36
नोत्सार्यः पथिकः कश्चित्तेभ्यो दास्याम्यहं वसु ब्राह्मणेभ्यश्च ये कामानर्थयिष्यन्ति मां पथि
MBh 13.53.37
सर्वं दास्याम्यशेषेण धनं रत्नानि चैव हि क्रियतां निखिलेनैतन्मा विचारय पार्थिव
MBh 13.53.38
तस्य तद्वचनं श्रुत्वा राजा भृत्यानथाब्रवीत् यद्यद्ब्रूयान्मुनिस्तत्तत्सर्वं देयमशङ्कितैः
MBh 13.53.39
ततो रत्नान्यनेकानि स्त्रियो युग्यमजाविकम् कृताकृतं च कनकं गजेन्द्राश्चाचलोपमाः
MBh 13.53.40
अन्वगच्छन्त तमृषिं राजामात्याश्च सर्वशः हाहाभूतं च तत्सर्वमासीन्नगरमार्तिमत्
MBh 13.53.41
तौ तीक्ष्णाग्रेण सहसा प्रतोदेन प्रचोदितौ पृष्ठे विद्धौ कटे चैव निर्विकारौ तमूहतुः
MBh 13.53.42
वेपमानौ विराहारौ पञ्चाशद्रात्रकर्शितौ कथंचिदूहतुर्वीरौ दंपती तं रथोत्तमम्
MBh 13.53.43
बहुशो भृशविद्धौ तौ क्षरमाणौ क्षतोद्भवम् ददृशाते महाराज पुष्पिताविव किंशुकौ
MBh 13.53.44
तौ दृष्ट्वा पौरवर्गस्तु भृशं शोकपरायणः अभिशापभयात्त्रस्तो न च किंचिदुवाच ह
MBh 13.53.45
द्वन्द्वशश्चाब्रुवन्सर्वे पश्यध्वं तपसो बलम् क्रुद्धा अपि मुनिश्रेष्ठं वीक्षितुं नैव शक्नुमः
MBh 13.53.46
अहो भगवतो वीर्यं महर्षेर्भावितात्मनः राज्ञश्चापि सभार्यस्य धैर्यं पश्यत यादृशम्
MBh 13.53.47
श्रान्तावपि हि कृच्छ्रेण रथमेतं समूहतुः न चैतयोर्विकारं वै ददर्श भृगुनन्दनः
MBh 13.53.48
भीष्म उवाच ततः स निर्विकारौ तौ दृष्ट्वा भृगुकुलोद्वहः वसु विश्राणयामास यथा वैश्रवणस्तथा
MBh 13.53.49
तत्रापि राजा प्रीतात्मा यथाज्ञप्तमथाकरोत् ततोऽस्य भगवान्प्रीतो बभूव मुनिसत्तमः
MBh 13.53.50
अवतीर्य रथश्रेष्ठाद्दंपती तौ मुमोच ह विमोच्य चैतौ विधिवत्ततो वाक्यमुवाच ह
MBh 13.53.51
स्निग्धगम्भीरया वाचा भार्गवः सुप्रसन्नया ददानि वां वरं श्रेष्ठं तद्ब्रूतामिति भारत
MBh 13.53.52
सुकुमारौ च तौ विद्वान्कराभ्यां मुनिसत्तमः पस्पर्शामृतकल्पाभ्यां स्नेहाद्भरतसत्तम
MBh 13.53.53
अथाब्रवीन्नृपो वाक्यं श्रमो नास्त्यावयोरिह विश्रान्तौ स्वः प्रभावात्ते ध्यानेनैवेति भार्गव
MBh 13.53.54
अथ तौ भगवान्प्राह प्रहृष्टश्च्यवनस्तदा न वृथा व्याहृतं पूर्वं यन्मया तद्भविष्यति
MBh 13.53.55
रमणीयः समुद्देशो गङ्गातीरमिदं शुभम् कंचित्कालं व्रतपरो निवत्स्यामीह पार्थिव
MBh 13.53.56
गम्यतां स्वपुरं पुत्र विश्रान्तः पुनरेष्यसि इहस्थं मां सभार्यस्त्वं द्रष्टासि श्वो नराधिप
MBh 13.53.57
न च मन्युस्त्वया कार्यः श्रेयस्ते समुपस्थितम् यत्काङ्क्षितं हृदिस्थं ते तत्सर्वं संभविष्यति
MBh 13.53.58
इत्येवमुक्तः कुशिकः प्रहृष्टेनान्तरात्मना प्रोवाच मुनिशार्दूलमिदं वचनमर्थवत्
MBh 13.53.59
न मे मन्युर्महाभाग पूतोऽस्मि भगवंस्त्वया संवृत्तौ यौवनस्थौ स्वो वपुष्मन्तौ बलान्वितौ
MBh 13.53.60
प्रतोदेन व्रणा ये मे सभार्यस्य कृतास्त्वया तान्न पश्यामि गात्रेषु स्वस्थोऽस्मि सह भार्यया
MBh 13.53.61
इमां च देवीं पश्यामि मुने दिव्याप्सरोपमाम् श्रिया परमया युक्तां यथादृष्टां मया पुरा
MBh 13.53.62
तव प्रसादात्संवृत्तमिदं सर्वं महामुने नैतच्चित्रं तु भगवंस्त्वयि सत्यपराक्रम
MBh 13.53.63
इत्युक्तः प्रत्युवाचेदं च्यवनः कुशिकं तदा आगच्छेथाः सभार्यश्च त्वमिहेति नराधिप
MBh 13.53.64
इत्युक्तः समनुज्ञातो राजर्षिरभिवाद्य तम् प्रययौ वपुषा युक्तो नगरं देवराजवत्
MBh 13.53.65
तत एनमुपाजग्मुरमात्याः सपुरोहिताः बलस्था गणिकायुक्ताः सर्वाः प्रकृतयस्तथा
MBh 13.53.66
तैर्वृतः कुशिको राजा श्रिया परमया ज्वलन् प्रविवेश पुरं हृष्टः पूज्यमानोऽथ बन्दिभिः
MBh 13.53.67
ततः प्रविश्य नगरं कृत्वा सर्वाह्णिकक्रियाः भुक्त्वा सभार्यो रजनीमुवास स महीपतिः
MBh 13.53.68
ततस्तु तौ नवमभिवीक्ष्य यौवनं; परस्परं विगतजराविवामरौ ननन्दतुः शयनगतौ वपुर्धरौ; श्रिया युतौ द्विजवरदत्तया तया
MBh 13.53.69
स चाप्यृषिर्भृगुकुलकीर्तिवर्धन;स्तपोधनो वनमभिराममृद्धिमत् मनीषया बहुविधरत्नभूषितं; ससर्ज यन्नास्ति शतक्रतोरपि

🪷 The Honest Framing

This chapter belongs to the source-pinned BORI Critical Edition-derived digital witness. Its unique addresses are publicly readable and indexable; this remains a digital-witness claim, not a claim that every Mahābhārata recension agrees word-for-word or that the traditional 100,000-verse extent is represented here.

Navigation

Sources and Connected Readings

Continue from these 69 source-pinned Devanāgarī addresses to Anuśāsana-Parva, the Mahābhārata reading map, and any exact Bhagavad-Gītā correspondence.

MBh 13.53local chapter route · Anuśāsana-ParvaAnuśāsana-Parvaparent Parva chapter index/mahabharata18-parva Sanskrit reading index with edition and address notesBhīṣma-ParvaMahābhārata Parva 6 · the Gītā lives in chapters 23-40MBh 6.23Bhagavad-Gītā chapter 1 in its Itihāsa homeMBh 6.40Bhagavad-Gītā chapter 18 in its Itihāsa homeRāmopākhyānaVana-Parva 258 · Vyāsa narrates the Rāma-kathā inside Krishna's epicNārāyaṇīyamŚānti-Parva 335 · Nārāyaṇa/Krishna/Viṣṇu/Vāsudeva unity witness/bhagavad-gitadeep Gītā corpus with translations, commentaries, and verse-level anchorsBG 1.1Dharma-kṣetra opening cross-anchored to MBh 6.23.1BG 18.66Carama-Śloka surrender seal inside the Bhīṣma-Parva arcVyāsa vibhūtiBG 10.37 · Krishna names Vyāsa among munisBG 10.37Vyāsa and Dhanañjaya as Krishna-vibhūti source routeŚB 1.2.11Brahman · Paramātmā · Bhagavān as one advaya-tattvaŚB 1.3.28kṛṣṇas tu bhagavān svayam · Vyāsa corpus source seal/binduDiamond of Darśanas · Itihāsa as one Bindu aperture/philosophyKrishna = Paramaatma = Parabrahman constitutional foundation

🪷 जय व्यास भगवान् 🪷