🪷 Mahābhārata · Anuśāsana-Parva · Chapter 54
The Book of the Final Teaching · Parva 13 · 40 unique Sanskrit addresses · pinned Critical Edition-derived witness
The Devanāgarī Yathārtha · 40 Shlokas
MBh 13.54.1
भीष्म उवाच
ततः स राजा रात्र्यन्ते प्रतिबुद्धो महामनाः
कृतपूर्वाह्णिकः प्रायात्सभार्यस्तद्वनं प्रति
MBh 13.54.2
ततो ददर्श नृपतिः प्रासादं सर्वकाञ्चनम्
मणिस्तम्भसहस्राढ्यं गन्धर्वनगरोपमम्
तत्र दिव्यानभिप्रायान्ददर्श कुशिकस्तदा
MBh 13.54.3
पर्वतान्रम्यसानूंश्च नलिनीश्च सपङ्कजाः
चित्रशालाश्च विविधास्तोरणानि च भारत
शाद्वलोपचितां भूमिं तथा काञ्चनकुट्टिमाम्
MBh 13.54.4
सहकारान्प्रफुल्लांश्च केतकोद्दालकान्धवान्
अशोकान्मुचुकुन्दांश्च फुल्लांश्चैवातिमुक्तकान्
MBh 13.54.5
चम्पकांस्तिलकान्भव्यान्पनसान्वञ्जुलानपि
पुष्पितान्कर्णिकारांश्च तत्र तत्र ददर्श ह
MBh 13.54.6
श्यामां वारणपुष्पीं च तथाष्टापदिकां लताम्
तत्र तत्र परिकॢप्ता ददर्श स महीपतिः
MBh 13.54.7
वृक्षान्पद्मोत्पलधरान्सर्वर्तुकुसुमांस्तथा
विमानच्छन्दकांश्चापि प्रासादान्पद्मसंनिभान्
MBh 13.54.8
शीतलानि च तोयानि क्वचिदुष्णानि भारत
आसनानि विचित्राणि शयनप्रवराणि च
MBh 13.54.9
पर्यङ्कान्सर्वसौवर्णान्परार्ध्यास्तरणास्तृतान्
भक्ष्यभोज्यमनन्तं च तत्र तत्रोपकल्पितम्
MBh 13.54.10
वाणीवादाञ्छुकांश्चापि शारिकाभृङ्गराजकान्
कोकिलाञ्छतपत्रांश्च कोयष्टिमककुक्कुटान्
MBh 13.54.11
मयूरान्कुक्कुटांश्चापि पुत्रकाञ्जीवजीवकान्
चकोरान्वानरान्हंसान्सारसांश्चक्रसाह्वयान्
MBh 13.54.12
समन्ततः प्रणदितान्ददर्श सुमनोहरान्
क्वचिदप्सरसां संघान्गन्धर्वाणां च पार्थिव
MBh 13.54.13
कान्ताभिरपरांस्तत्र परिष्वक्तान्ददर्श ह
न ददर्श च तान्भूयो ददर्श च पुनर्नृपः
MBh 13.54.14
गीतध्वनिं सुमधुरं तथैवाध्ययनध्वनिम्
हंसान्सुमधुरांश्चापि तत्र शुश्राव पार्थिवः
MBh 13.54.15
तं दृष्ट्वात्यद्भुतं राजा मनसाचिन्तयत्तदा
स्वप्नोऽयं चित्तविभ्रंश उताहो सत्यमेव तु
MBh 13.54.16
अहो सह शरीरेण प्राप्तोऽस्मि परमां गतिम्
उत्तरान्वा कुरून्पुण्यानथ वाप्यमरावतीम्
MBh 13.54.17
किं त्विदं महदाश्चर्यं संपश्यामीत्यचिन्तयत्
एवं संचिन्तयन्नेव ददर्श मुनिपुंगवम्
MBh 13.54.18
तस्मिन्विमाने सौवर्णे मणिस्तम्भसमाकुले
महार्हे शयने दिव्ये शयानं भृगुनन्दनम्
MBh 13.54.19
तमभ्ययात्प्रहर्षेण नरेन्द्रः सह भार्यया
अन्तर्हितस्ततो भूयश्च्यवनः शयनं च तत्
MBh 13.54.20
ततोऽन्यस्मिन्वनोद्देशे पुनरेव ददर्श तम्
कौश्यां बृस्यां समासीनं जपमानं महाव्रतम्
एवं योगबलाद्विप्रो मोहयामास पार्थिवम्
MBh 13.54.21
क्षणेन तद्वनं चैव ते चैवाप्सरसां गणाः
गन्धर्वाः पादपाश्चैव सर्वमन्तरधीयत
MBh 13.54.22
निःशब्दमभवच्चापि गङ्गाकूलं पुनर्नृप
कुशवल्मीकभूयिष्ठं बभूव च यथा पुरा
MBh 13.54.23
ततः स राजा कुशिकः सभार्यस्तेन कर्मणा
विस्मयं परमं प्राप्तस्तद्दृष्ट्वा महदद्भुतम्
MBh 13.54.24
ततः प्रोवाच कुशिको भार्यां हर्षसमन्वितः
पश्य भद्रे यथा भावाश्चित्रा दृष्टाः सुदुर्लभाः
MBh 13.54.25
प्रसादाद्भृगुमुख्यस्य किमन्यत्र तपोबलात्
तपसा तदवाप्यं हि यन्न शक्यं मनोरथैः
MBh 13.54.26
त्रैलोक्यराज्यादपि हि तप एव विशिष्यते
तपसा हि सुतप्तेन क्रीडत्येष तपोधनः
MBh 13.54.27
अहो प्रभावो ब्रह्मर्षेश्च्यवनस्य महात्मनः
इच्छन्नेष तपोवीर्यादन्याँल्लोकान्सृजेदपि
MBh 13.54.28
ब्राह्मणा एव जायेरन्पुण्यवाग्बुद्धिकर्मणः
उत्सहेदिह कर्तुं हि कोऽन्यो वै च्यवनादृते
MBh 13.54.29
ब्राह्मण्यं दुर्लभं लोके राज्यं हि सुलभं नरैः
ब्राह्मण्यस्य प्रभावाद्धि रथे युक्तौ स्वधुर्यवत्
MBh 13.54.30
इत्येवं चिन्तयानः स विदितश्च्यवनस्य वै
संप्रेक्ष्योवाच स नृपं क्षिप्रमागम्यतामिति
MBh 13.54.31
इत्युक्तः सहभार्यस्तमभ्यगच्छन्महामुनिम्
शिरसा वन्दनीयं तमवन्दत स पार्थिवः
MBh 13.54.32
तस्याशिषः प्रयुज्याथ स मुनिस्तं नराधिपम्
निषीदेत्यब्रवीद्धीमान्सान्त्वयन्पुरुषर्षभ
MBh 13.54.33
ततः प्रकृतिमापन्नो भार्गवो नृपते नृपम्
उवाच श्लक्ष्णया वाचा तर्पयन्निव भारत
MBh 13.54.34
राजन्सम्यग्जितानीह पञ्च पञ्चसु यत्त्वया
मनःषष्ठानीन्द्रियाणि कृच्छ्रान्मुक्तोऽसि तेन वै
MBh 13.54.35
सम्यगाराधितः पुत्र त्वयाहं वदतां वर
न हि ते वृजिनं किंचित्सुसूक्ष्ममपि विद्यते
MBh 13.54.36
अनुजानीहि मां राजन्गमिष्यामि यथागतम्
प्रीतोऽस्मि तव राजेन्द्र वरश्च प्रतिगृह्यताम्
MBh 13.54.37
कुशिक उवाच
अग्निमध्यगतेनेदं भगवन्संनिधौ मया
वर्तितं भृगुशार्दूल यन्न दग्धोऽस्मि तद्बहु
MBh 13.54.38
एष एव वरो मुख्यः प्राप्तो मे भृगुनन्दन
यत्प्रीतोऽसि समाचारात्कुलं पूतं ममानघ
MBh 13.54.39
एष मेऽनुग्रहो विप्र जीविते च प्रयोजनम्
एतद्राज्यफलं चैव तपश्चैतत्परं मम
MBh 13.54.40
यदि तु प्रीतिमान्विप्र मयि त्वं भृगुनन्दन
अस्ति मे संशयः कश्चित्तन्मे व्याख्यातुमर्हसि
🪷 The Honest Framing
This chapter belongs to the source-pinned BORI Critical Edition-derived digital witness. Its unique addresses are publicly readable and indexable; this remains a digital-witness claim, not a claim that every Mahābhārata recension agrees word-for-word or that the traditional 100,000-verse extent is represented here.
Navigation
- ← Anuśāsana-Parva chapter-index (154 chapters)
- ← Mahābhārata master-index (all 18 Parvas)
- ← Previous chapter · Anuśāsana-Parva Ch 53
- Next chapter · Anuśāsana-Parva Ch 55 →
Sources and Connected Readings
Continue from these 40 source-pinned Devanāgarī addresses to Anuśāsana-Parva, the Mahābhārata reading map, and any exact Bhagavad-Gītā correspondence.
MBh 13.54local chapter route · Anuśāsana-ParvaAnuśāsana-Parvaparent Parva chapter index/mahabharata18-parva Sanskrit reading index with edition and address notesBhīṣma-ParvaMahābhārata Parva 6 · the Gītā lives in chapters 23-40MBh 6.23Bhagavad-Gītā chapter 1 in its Itihāsa homeMBh 6.40Bhagavad-Gītā chapter 18 in its Itihāsa homeRāmopākhyānaVana-Parva 258 · Vyāsa narrates the Rāma-kathā inside Krishna's epicNārāyaṇīyamŚānti-Parva 335 · Nārāyaṇa/Krishna/Viṣṇu/Vāsudeva unity witness/bhagavad-gitadeep Gītā corpus with translations, commentaries, and verse-level anchorsBG 1.1Dharma-kṣetra opening cross-anchored to MBh 6.23.1BG 18.66Carama-Śloka surrender seal inside the Bhīṣma-Parva arcVyāsa vibhūtiBG 10.37 · Krishna names Vyāsa among munisBG 10.37Vyāsa and Dhanañjaya as Krishna-vibhūti source routeŚB 1.2.11Brahman · Paramātmā · Bhagavān as one advaya-tattvaŚB 1.3.28kṛṣṇas tu bhagavān svayam · Vyāsa corpus source seal/binduDiamond of Darśanas · Itihāsa as one Bindu aperture/philosophyKrishna = Paramaatma = Parabrahman constitutional foundation
🪷 जय व्यास भगवान् 🪷