🪷 Mahābhārata · Anuśāsana-Parva · Chapter 51

The Book of the Final Teaching · Parva 13 · 48 unique Sanskrit addresses · pinned Critical Edition-derived witness

The Devanāgarī Yathārtha · 48 Shlokas

MBh 13.51.1
भीष्म उवाच नहुषस्तु ततः श्रुत्वा च्यवनं तं तथागतम् त्वरितः प्रययौ तत्र सहामात्यपुरोहितः
MBh 13.51.2
शौचं कृत्वा यथान्यायं प्राञ्जलिः प्रयतो नृपः आत्मानमाचचक्षे च च्यवनाय महात्मने
MBh 13.51.3
अर्चयामास तं चापि तस्य राज्ञः पुरोहितः सत्यव्रतं महाभागं देवकल्पं विशां पते
MBh 13.51.4
नहुष उवाच करवाणि प्रियं किं ते तन्मे व्याख्यातुमर्हसि सर्वं कर्तास्मि भगवन्यद्यपि स्यात्सुदुष्करम्
MBh 13.51.5
च्यवन उवाच श्रमेण महता युक्ताः कैवर्ता मत्स्यजीविनः मम मूल्यं प्रयच्छैभ्यो मत्स्यानां विक्रयैः सह
MBh 13.51.6
नहुष उवाच सहस्रं दीयतां मूल्यं निषादेभ्यः पुरोहित निष्क्रयार्थं भगवतो यथाह भृगुनन्दनः
MBh 13.51.7
च्यवन उवाच सहस्रं नाहमर्हामि किं वा त्वं मन्यसे नृप सदृशं दीयतां मूल्यं स्वबुद्ध्या निश्चयं कुरु
MBh 13.51.8
नहुष उवाच सहस्राणां शतं क्षिप्रं निषादेभ्यः प्रदीयताम् स्यादेतत्तु भवेन्मूल्यं किं वान्यन्मन्यते भवान्
MBh 13.51.9
च्यवन उवाच नाहं शतसहस्रेण निमेयः पार्थिवर्षभ दीयतां सदृशं मूल्यममात्यैः सह चिन्तय
MBh 13.51.10
नहुष उवाच कोटिः प्रदीयतां मूल्यं निषादेभ्यः पुरोहित यदेतदपि नौपम्यमतो भूयः प्रदीयताम्
MBh 13.51.11
च्यवन उवाच राजन्नार्हाम्यहं कोटिं भूयो वापि महाद्युते सदृशं दीयतां मूल्यं ब्राह्मणैः सह चिन्तय
MBh 13.51.12
नहुष उवाच अर्धराज्यं समग्रं वा निषादेभ्यः प्रदीयताम् एतन्मूल्यमहं मन्ये किं वान्यन्मन्यसे द्विज
MBh 13.51.13
च्यवन उवाच अर्धराज्यं समग्रं वा नाहमर्हामि पार्थिव सदृशं दीयतां मूल्यमृषिभिः सह चिन्त्यताम्
MBh 13.51.14
भीष्म उवाच महर्षेर्वचनं श्रुत्वा नहुषो दुःखकर्शितः स चिन्तयामास तदा सहामात्यपुरोहितः
MBh 13.51.15
तत्र त्वन्यो वनचरः कश्चिन्मूलफलाशनः नहुषस्य समीपस्थो गविजातोऽभवन्मुनिः
MBh 13.51.16
स समाभाष्य राजानमब्रवीद्द्विजसत्तमः तोषयिष्याम्यहं विप्रं यथा तुष्टो भविष्यति
MBh 13.51.17
नाहं मिथ्यावचो ब्रूयां स्वैरेष्वपि कुतोऽन्यथा भवतो यदहं ब्रूयां तत्कार्यमविशङ्कया
MBh 13.51.18
नहुष उवाच ब्रवीतु भगवान्मूल्यं महर्षेः सदृशं भृगोः परित्रायस्व मामस्माद्विषयं च कुलं च मे
MBh 13.51.19
हन्याद्धि भगवान्क्रुद्धस्त्रैलोक्यमपि केवलम् किं पुनर्मां तपोहीनं बाहुवीर्यपरायणम्
MBh 13.51.20
अगाधेऽम्भसि मग्नस्य सामात्यस्य सहर्त्विजः प्लवो भव महर्षे त्वं कुरु मूल्यविनिश्चयम्
MBh 13.51.21
भीष्म उवाच नहुषस्य वचः श्रुत्वा गविजातः प्रतापवान् उवाच हर्षयन्सर्वानमात्यान्पार्थिवं च तम्
MBh 13.51.22
अनर्घेया महाराज द्विजा वर्णमहत्तमाः गावश्च पृथिवीपाल गौर्मूल्यं परिकल्प्यताम्
MBh 13.51.23
नहुषस्तु ततः श्रुत्वा महर्षेर्वचनं नृप हर्षेण महता युक्तः सहामात्यपुरोहितः
MBh 13.51.24
अभिगम्य भृगोः पुत्रं च्यवनं संशितव्रतम् इदं प्रोवाच नृपते वाचा संतर्पयन्निव
MBh 13.51.25
उत्तिष्ठोत्तिष्ठ विप्रर्षे गवा क्रीतोऽसि भार्गव एतन्मूल्यमहं मन्ये तव धर्मभृतां वर
MBh 13.51.26
च्यवन उवाच उत्तिष्ठाम्येष राजेन्द्र सम्यक्क्रीतोऽस्मि तेऽनघ गोभिस्तुल्यं न पश्यामि धनं किंचिदिहाच्युत
MBh 13.51.27
कीर्तनं श्रवणं दानं दर्शनं चापि पार्थिव गवां प्रशस्यते वीर सर्वपापहरं शिवम्
MBh 13.51.28
गावो लक्ष्म्याः सदा मूलं गोषु पाप्मा न विद्यते अन्नमेव सदा गावो देवानां परमं हविः
MBh 13.51.29
स्वाहाकारवषट्कारौ गोषु नित्यं प्रतिष्ठितौ गावो यज्ञप्रणेत्र्यो वै तथा यज्ञस्य ता मुखम्
MBh 13.51.30
अमृतं ह्यक्षयं दिव्यं क्षरन्ति च वहन्ति च अमृतायतनं चैताः सर्वलोकनमस्कृताः
MBh 13.51.31
तेजसा वपुषा चैव गावो वह्निसमा भुवि गावो हि सुमहत्तेजः प्राणिनां च सुखप्रदाः
MBh 13.51.32
निविष्टं गोकुलं यत्र श्वासं मुञ्चति निर्भयम् विराजयति तं देशं पाप्मानं चापकर्षति
MBh 13.51.33
गावः स्वर्गस्य सोपानं गावः स्वर्गेऽपि पूजिताः गावः कामदुघा देव्यो नान्यत्किंचित्परं स्मृतम्
MBh 13.51.34
इत्येतद्गोषु मे प्रोक्तं माहात्म्यं पार्थिवर्षभ गुणैकदेशवचनं शक्यं पारायणं न तु
MBh 13.51.35
निषादा ऊचुः दर्शनं कथनं चैव सहास्माभिः कृतं मुने सतां सप्तपदं मित्रं प्रसादं नः कुरु प्रभो
MBh 13.51.36
हवींषि सर्वाणि यथा ह्युपभुङ्क्ते हुताशनः एवं त्वमपि धर्मात्मन्पुरुषाग्निः प्रतापवान्
MBh 13.51.37
प्रसादयामहे विद्वन्भवन्तं प्रणता वयम् अनुग्रहार्थमस्माकमियं गौः प्रतिगृह्यताम्
MBh 13.51.38
च्यवन उवाच कृपणस्य च यच्चक्षुर्मुनेराशीविषस्य च नरं समूलं दहति कक्षमग्निरिव ज्वलन्
MBh 13.51.39
प्रतिगृह्णामि वो धेनुं कैवर्ता मुक्तकिल्बिषाः दिवं गच्छत वै क्षिप्रं मत्स्यैर्जालोद्धृतैः सह
MBh 13.51.40
भीष्म उवाच ततस्तस्य प्रसादात्ते महर्षेर्भावितात्मनः निषादास्तेन वाक्येन सह मत्स्यैर्दिवं ययुः
MBh 13.51.41
ततः स राजा नहुषो विस्मितः प्रेक्ष्य धीवरान् आरोहमाणांस्त्रिदिवं मत्स्यांश्च भरतर्षभ
MBh 13.51.42
ततस्तौ गविजश्चैव च्यवनश्च भृगूद्वहः वराभ्यामनुरूपाभ्यां छन्दयामासतुर्नृपम्
MBh 13.51.43
ततो राजा महावीर्यो नहुषः पृथिवीपतिः परमित्यब्रवीत्प्रीतस्तदा भरतसत्तम
MBh 13.51.44
ततो जग्राह धर्मे स स्थितिमिन्द्रनिभो नृपः तथेति चोदितः प्रीतस्तावृषी प्रत्यपूजयत्
MBh 13.51.45
समाप्तदीक्षश्च्यवनस्ततोऽगच्छत्स्वमाश्रमम् गविजश्च महातेजाः स्वमाश्रमपदं ययौ
MBh 13.51.46
निषादाश्च दिवं जग्मुस्ते च मत्स्या जनाधिप नहुषोऽपि वरं लब्ध्वा प्रविवेश पुरं स्वकम्
MBh 13.51.47
एतत्ते कथितं तात यन्मां त्वं परिपृच्छसि दर्शने यादृशः स्नेहः संवासे च युधिष्ठिर
MBh 13.51.48
महाभाग्यं गवां चैव तथा धर्मविनिश्चयम् किं भूयः कथ्यतां वीर किं ते हृदि विवक्षितम्

🪷 The Honest Framing

This chapter belongs to the source-pinned BORI Critical Edition-derived digital witness. Its unique addresses are publicly readable and indexable; this remains a digital-witness claim, not a claim that every Mahābhārata recension agrees word-for-word or that the traditional 100,000-verse extent is represented here.

Navigation

Sources and Connected Readings

Continue from these 48 source-pinned Devanāgarī addresses to Anuśāsana-Parva, the Mahābhārata reading map, and any exact Bhagavad-Gītā correspondence.

MBh 13.51local chapter route · Anuśāsana-ParvaAnuśāsana-Parvaparent Parva chapter index/mahabharata18-parva Sanskrit reading index with edition and address notesBhīṣma-ParvaMahābhārata Parva 6 · the Gītā lives in chapters 23-40MBh 6.23Bhagavad-Gītā chapter 1 in its Itihāsa homeMBh 6.40Bhagavad-Gītā chapter 18 in its Itihāsa homeRāmopākhyānaVana-Parva 258 · Vyāsa narrates the Rāma-kathā inside Krishna's epicNārāyaṇīyamŚānti-Parva 335 · Nārāyaṇa/Krishna/Viṣṇu/Vāsudeva unity witness/bhagavad-gitadeep Gītā corpus with translations, commentaries, and verse-level anchorsBG 1.1Dharma-kṣetra opening cross-anchored to MBh 6.23.1BG 18.66Carama-Śloka surrender seal inside the Bhīṣma-Parva arcVyāsa vibhūtiBG 10.37 · Krishna names Vyāsa among munisBG 10.37Vyāsa and Dhanañjaya as Krishna-vibhūti source routeŚB 1.2.11Brahman · Paramātmā · Bhagavān as one advaya-tattvaŚB 1.3.28kṛṣṇas tu bhagavān svayam · Vyāsa corpus source seal/binduDiamond of Darśanas · Itihāsa as one Bindu aperture/philosophyKrishna = Paramaatma = Parabrahman constitutional foundation

🪷 जय व्यास भगवान् 🪷