🪷 Mahābhārata · Anuśāsana-Parva · Chapter 50
The Book of the Final Teaching · Parva 13 · 26 unique Sanskrit addresses · pinned Critical Edition-derived witness
The Devanāgarī Yathārtha · 26 Shlokas
MBh 13.50.1
युधिष्ठिर उवाच
दर्शने कीदृशः स्नेहः संवासे च पितामह
महाभाग्यं गवां चैव तन्मे ब्रूहि पितामह
MBh 13.50.2
भीष्म उवाच
हन्त ते कथयिष्यामि पुरावृत्तं महाद्युते
नहुषस्य च संवादं महर्षेश्च्यवनस्य च
MBh 13.50.3
पुरा महर्षिश्च्यवनो भार्गवो भरतर्षभ
उदवासकृतारम्भो बभूव सुमहाव्रतः
MBh 13.50.4
निहत्य मानं क्रोधं च प्रहर्षं शोकमेव च
वर्षाणि द्वादश मुनिर्जलवासे धृतव्रतः
MBh 13.50.5
आदधत्सर्वभूतेषु विस्रम्भं परमं शुभम्
जलेचरेषु सत्त्वेषु शीतरश्मिरिव प्रभुः
MBh 13.50.6
स्थाणुभूतः शुचिर्भूत्वा दैवतेभ्यः प्रणम्य च
गङ्गायमुनयोर्मध्ये जलं संप्रविवेश ह
MBh 13.50.7
गङ्गायमुनयोर्वेगं सुभीमं भीमनिःस्वनम्
प्रतिजग्राह शिरसा वातवेगसमं जवे
MBh 13.50.8
गङ्गा च यमुना चैव सरितश्चानुगास्तयोः
प्रदक्षिणमृषिं चक्रुर्न चैनं पर्यपीडयन्
MBh 13.50.9
अन्तर्जले स सुष्वाप काष्ठभूतो महामुनिः
ततश्चोर्ध्वस्थितो धीमानभवद्भरतर्षभ
MBh 13.50.10
जलौकसां स सत्त्वानां बभूव प्रियदर्शनः
उपाजिघ्रन्त च तदा मत्स्यास्तं हृष्टमानसाः
तत्र तस्यासतः कालः समतीतोऽभवन्महान्
MBh 13.50.11
ततः कदाचित्समये कस्मिंश्चिन्मत्स्यजीविनः
तं देशं समुपाजग्मुर्जालहस्ता महाद्युते
MBh 13.50.12
निषादा बहवस्तत्र मत्स्योद्धरणनिश्चिताः
व्यायता बलिनः शूराः सलिलेष्वनिवर्तिनः
अभ्याययुश्च तं देशं निश्चिता जालकर्मणि
MBh 13.50.13
जालं च योजयामासुर्विशेषेण जनाधिप
मत्स्योदकं समासाद्य तदा भरतसत्तम
MBh 13.50.14
ततस्ते बहुभिर्योगैः कैवर्ता मत्स्यकाङ्क्षिणः
गङ्गायमुनयोर्वारि जालैरभ्यकिरंस्ततः
MBh 13.50.15
जालं सुविततं तेषां नवसूत्रकृतं तथा
विस्तारायामसंपन्नं यत्तत्र सलिले क्षमम्
MBh 13.50.16
ततस्ते सुमहच्चैव बलवच्च सुवर्तितम्
प्रकीर्य सर्वतः सर्वे जालं चकृषिरे तदा
MBh 13.50.17
अभीतरूपाः संहृष्टास्तेऽन्योन्यवशवर्तिनः
बबन्धुस्तत्र मत्स्यांश्च तथान्याञ्जलचारिणः
MBh 13.50.18
तथा मत्स्यैः परिवृतं च्यवनं भृगुनन्दनम्
आकर्षन्त महाराज जालेनाथ यदृच्छया
MBh 13.50.19
नदीशैवलदिग्धाङ्गं हरिश्मश्रुजटाधरम्
लग्नैः शङ्खगणैर्गात्रैः कोष्ठैश्चित्रैरिवावृतम्
MBh 13.50.20
तं जालेनोद्धृतं दृष्ट्वा ते तदा वेदपारगम्
सर्वे प्राञ्जलयो दाशाः शिरोभिः प्रापतन्भुवि
MBh 13.50.21
परिखेदपरित्रासाज्जालस्याकर्षणेन च
मत्स्या बभूवुर्व्यापन्नाः स्थलसंकर्षणेन च
MBh 13.50.22
स मुनिस्तत्तदा दृष्ट्वा मत्स्यानां कदनं कृतम्
बभूव कृपयाविष्टो निःश्वसंश्च पुनः पुनः
MBh 13.50.23
निषादा ऊचुः
अज्ञानाद्यत्कृतं पापं प्रसादं तत्र नः कुरु
करवाम प्रियं किं ते तन्नो ब्रूहि महामुने
MBh 13.50.24
भीष्म उवाच
इत्युक्तो मत्स्यमध्यस्थश्च्यवनो वाक्यमब्रवीत्
यो मेऽद्य परमः कामस्तं शृणुध्वं समाहिताः
MBh 13.50.25
प्राणोत्सर्गं विक्रयं वा मत्स्यैर्यास्याम्यहं सह
संवासान्नोत्सहे त्यक्तुं सलिलाध्युषितानिमान्
MBh 13.50.26
इत्युक्तास्ते निषादास्तु सुभृशं भयकम्पिताः
सर्वे विषण्णवदना नहुषाय न्यवेदयन्
🪷 The Honest Framing
This chapter belongs to the source-pinned BORI Critical Edition-derived digital witness. Its unique addresses are publicly readable and indexable; this remains a digital-witness claim, not a claim that every Mahābhārata recension agrees word-for-word or that the traditional 100,000-verse extent is represented here.
Navigation
- ← Anuśāsana-Parva chapter-index (154 chapters)
- ← Mahābhārata master-index (all 18 Parvas)
- ← Previous chapter · Anuśāsana-Parva Ch 49
- Next chapter · Anuśāsana-Parva Ch 51 →
Sources and Connected Readings
Continue from these 26 source-pinned Devanāgarī addresses to Anuśāsana-Parva, the Mahābhārata reading map, and any exact Bhagavad-Gītā correspondence.
MBh 13.50local chapter route · Anuśāsana-ParvaAnuśāsana-Parvaparent Parva chapter index/mahabharata18-parva Sanskrit reading index with edition and address notesBhīṣma-ParvaMahābhārata Parva 6 · the Gītā lives in chapters 23-40MBh 6.23Bhagavad-Gītā chapter 1 in its Itihāsa homeMBh 6.40Bhagavad-Gītā chapter 18 in its Itihāsa homeRāmopākhyānaVana-Parva 258 · Vyāsa narrates the Rāma-kathā inside Krishna's epicNārāyaṇīyamŚānti-Parva 335 · Nārāyaṇa/Krishna/Viṣṇu/Vāsudeva unity witness/bhagavad-gitadeep Gītā corpus with translations, commentaries, and verse-level anchorsBG 1.1Dharma-kṣetra opening cross-anchored to MBh 6.23.1BG 18.66Carama-Śloka surrender seal inside the Bhīṣma-Parva arcVyāsa vibhūtiBG 10.37 · Krishna names Vyāsa among munisBG 10.37Vyāsa and Dhanañjaya as Krishna-vibhūti source routeŚB 1.2.11Brahman · Paramātmā · Bhagavān as one advaya-tattvaŚB 1.3.28kṛṣṇas tu bhagavān svayam · Vyāsa corpus source seal/binduDiamond of Darśanas · Itihāsa as one Bindu aperture/philosophyKrishna = Paramaatma = Parabrahman constitutional foundation
🪷 जय व्यास भगवान् 🪷