🪷 Mahābhārata · Anuśāsana-Parva · Chapter 45

The Book of the Final Teaching · Parva 13 · 24 unique Sanskrit addresses · pinned Critical Edition-derived witness

The Devanāgarī Yathārtha · 24 Shlokas

MBh 13.45.1
युधिष्ठिर उवाच कन्यायाः प्राप्तशुल्कायाः पतिश्चेन्नास्ति कश्चन तत्र का प्रतिपत्तिः स्यात्तन्मे ब्रूहि पितामह
MBh 13.45.2
भीष्म उवाच यापुत्रकस्याप्यरिक्थस्य प्रतिपत्सा तदा भवेत्
MBh 13.45.3
अथ चेत्साहरेच्छुल्कं क्रीता शुल्कप्रदस्य सा तस्यार्थेऽपत्यमीहेत येन न्यायेन शक्नुयात्
MBh 13.45.4
न तस्या मन्त्रवत्कार्यं कश्चित्कुर्वीत किंचन
MBh 13.45.5
स्वयं वृतेति सावित्री पित्रा वै प्रत्यपद्यत तत्तस्यान्ये प्रशंसन्ति धर्मज्ञा नेतरे जनाः
MBh 13.45.6
एतत्तु नापरे चक्रुर्न परे जातु साधवः साधूनां पुनराचारो गरीयो धर्मलक्षणम्
MBh 13.45.7
अस्मिन्नेव प्रकरणे सुक्रतुर्वाक्यमब्रवीत् नप्ता विदेहराजस्य जनकस्य महात्मनः
MBh 13.45.8
असदाचरिते मार्गे कथं स्यादनुकीर्तनम् अनुप्रश्नः संशयो वा सतामेतदुपालभेत्
MBh 13.45.9
असदेव हि धर्मस्य प्रमादो धर्म आसुरः नानुशुश्रुम जात्वेतामिमां पूर्वेषु जन्मसु
MBh 13.45.10
भार्यापत्योर्हि संबन्धः स्त्रीपुंसोस्तुल्य एव सः रतिः साधारणो धर्म इति चाह स पार्थिवः
MBh 13.45.11
युधिष्ठिर उवाच अथ केन प्रमाणेन पुंसामादीयते धनम् पुत्रवद्धि पितुस्तस्य कन्या भवितुमर्हति
MBh 13.45.12
भीष्म उवाच यथैवात्मा तथा पुत्रः पुत्रेण दुहिता समा तस्यामात्मनि तिष्ठन्त्यां कथमन्यो धनं हरेत्
MBh 13.45.13
मातुश्च यौतकं यत्स्यात्कुमारीभाग एव सः दौहित्र एव वा रिक्थमपुत्रस्य पितुर्हरेत्
MBh 13.45.14
ददाति हि स पिण्डं वै पितुर्मातामहस्य च पुत्रदौहित्रयोर्नेह विशेषो धर्मतः स्मृतः
MBh 13.45.15
अन्यत्र जातया सा हि प्रजया पुत्र ईहते दुहितान्यत्र जातेन पुत्रेणापि विशिष्यते
MBh 13.45.16
दौहित्रकेण धर्मेण नात्र पश्यामि कारणम् विक्रीतासु च ये पुत्रा भवन्ति पितुरेव ते
MBh 13.45.17
असूयवस्त्वधर्मिष्ठाः परस्वादायिनः शठाः आसुरादधिसंभूता धर्माद्विषमवृत्तयः
MBh 13.45.18
अत्र गाथा यमोद्गीताः कीर्तयन्ति पुराविदः धर्मज्ञा धर्मशास्त्रेषु निबद्धा धर्मसेतुषु
MBh 13.45.19
यो मनुष्यः स्वकं पुत्रं विक्रीय धनमिच्छति कन्यां वा जीवितार्थाय यः शुल्केन प्रयच्छति
MBh 13.45.20
सप्तावरे महाघोरे निरये कालसाह्वये स्वेदं मूत्रं पुरीषं च तस्मिन्प्रेत उपाश्नुते
MBh 13.45.21
आर्षे गोमिथुनं शुल्कं केचिदाहुर्मृषैव तत् अल्पं वा बहु वा राजन्विक्रयस्तावदेव सः
MBh 13.45.22
यद्यप्याचरितः कैश्चिन्नैष धर्मः कथंचन अन्येषामपि दृश्यन्ते लोभतः संप्रवृत्तयः
MBh 13.45.23
वश्यां कुमारीं विहितां ये च तामुपभुञ्जते एते पापस्य कर्तारस्तमस्यन्धेऽथ शेरते
MBh 13.45.24
अन्योऽप्यथ न विक्रेयो मनुष्यः किं पुनः प्रजाः अधर्ममूलैर्हि धनैर्न तैरर्थोऽस्ति कश्चन

🪷 The Honest Framing

This chapter belongs to the source-pinned BORI Critical Edition-derived digital witness. Its unique addresses are publicly readable and indexable; this remains a digital-witness claim, not a claim that every Mahābhārata recension agrees word-for-word or that the traditional 100,000-verse extent is represented here.

Navigation

Sources and Connected Readings

Continue from these 24 source-pinned Devanāgarī addresses to Anuśāsana-Parva, the Mahābhārata reading map, and any exact Bhagavad-Gītā correspondence.

MBh 13.45local chapter route · Anuśāsana-ParvaAnuśāsana-Parvaparent Parva chapter index/mahabharata18-parva Sanskrit reading index with edition and address notesBhīṣma-ParvaMahābhārata Parva 6 · the Gītā lives in chapters 23-40MBh 6.23Bhagavad-Gītā chapter 1 in its Itihāsa homeMBh 6.40Bhagavad-Gītā chapter 18 in its Itihāsa homeRāmopākhyānaVana-Parva 258 · Vyāsa narrates the Rāma-kathā inside Krishna's epicNārāyaṇīyamŚānti-Parva 335 · Nārāyaṇa/Krishna/Viṣṇu/Vāsudeva unity witness/bhagavad-gitadeep Gītā corpus with translations, commentaries, and verse-level anchorsBG 1.1Dharma-kṣetra opening cross-anchored to MBh 6.23.1BG 18.66Carama-Śloka surrender seal inside the Bhīṣma-Parva arcVyāsa vibhūtiBG 10.37 · Krishna names Vyāsa among munisBG 10.37Vyāsa and Dhanañjaya as Krishna-vibhūti source routeŚB 1.2.11Brahman · Paramātmā · Bhagavān as one advaya-tattvaŚB 1.3.28kṛṣṇas tu bhagavān svayam · Vyāsa corpus source seal/binduDiamond of Darśanas · Itihāsa as one Bindu aperture/philosophyKrishna = Paramaatma = Parabrahman constitutional foundation

🪷 जय व्यास भगवान् 🪷