🪷 Mahābhārata · Anuśāsana-Parva · Chapter 44
The Book of the Final Teaching · Parva 13 · 54 unique Sanskrit addresses · pinned Critical Edition-derived witness
The Devanāgarī Yathārtha · 54 Shlokas
MBh 13.44.1
युधिष्ठिर उवाच
यन्मूलं सर्वधर्माणां प्रजनस्य गृहस्य च
पितृदेवातिथीनां च तन्मे ब्रूहि पितामह
MBh 13.44.2
भीष्म उवाच
अयं हि सर्वधर्माणां धर्मश्चिन्त्यतमो मतः
कीदृशाय प्रदेया स्यात्कन्येति वसुधाधिप
MBh 13.44.3
शीलवृत्ते समाज्ञाय विद्यां योनिं च कर्म च
अद्भिरेव प्रदातव्या कन्या गुणवते वरे
ब्राह्मणानां सतामेष धर्मो नित्यं युधिष्ठिर
MBh 13.44.4
आवाह्यमावहेदेवं यो दद्यादनुकूलतः
शिष्टानां क्षत्रियाणां च धर्म एष सनातनः
MBh 13.44.5
आत्माभिप्रेतमुत्सृज्य कन्याभिप्रेत एव यः
अभिप्रेता च या यस्य तस्मै देया युधिष्ठिर
गान्धर्वमिति तं धर्मं प्राहुर्धर्मविदो जनाः
MBh 13.44.6
धनेन बहुना क्रीत्वा संप्रलोभ्य च बान्धवान्
असुराणां नृपैतं वै धर्ममाहुर्मनीषिणः
MBh 13.44.7
हत्वा छित्त्वा च शीर्षाणि रुदतां रुदतीं गृहात्
प्रसह्य हरणं तात राक्षसं धर्मलक्षणम्
MBh 13.44.8
पञ्चानां तु त्रयो धर्म्या द्वावधर्म्यौ युधिष्ठिर
पैशाच आसुरश्चैव न कर्तव्यौ कथंचन
MBh 13.44.9
ब्राह्मः क्षात्रोऽथ गान्धर्व एते धर्म्या नरर्षभ
पृथग्वा यदि वा मिश्राः कर्तव्या नात्र संशयः
MBh 13.44.10
तिस्रो भार्या ब्राह्मणस्य द्वे भार्ये क्षत्रियस्य तु
वैश्यः स्वजातिं विन्देत तास्वपत्यं समं भवेत्
MBh 13.44.11
ब्राह्मणी तु भवेज्ज्येष्ठा क्षत्रिया क्षत्रियस्य तु
रत्यर्थमपि शूद्रा स्यान्नेत्याहुरपरे जनाः
MBh 13.44.12
अपत्यजन्म शूद्रायां न प्रशंसन्ति साधवः
शूद्रायां जनयन्विप्रः प्रायश्चित्ती विधीयते
MBh 13.44.13
त्रिंशद्वर्षो दशवर्षां भार्यां विन्देत नग्निकाम्
एकविंशतिवर्षो वा सप्तवर्षामवाप्नुयात्
MBh 13.44.14
यस्यास्तु न भवेद्भ्राता पिता वा भरतर्षभ
नोपयच्छेत तां जातु पुत्रिकाधर्मिणी हि सा
MBh 13.44.15
त्रीणि वर्षाण्युदीक्षेत कन्या ऋतुमती सती
चतुर्थे त्वथ संप्राप्ते स्वयं भर्तारमर्जयेत्
MBh 13.44.16
प्रजनो हीयते तस्या रतिश्च भरतर्षभ
अतोऽन्यथा वर्तमाना भवेद्वाच्या प्रजापतेः
MBh 13.44.17
असपिण्डा च या मातुरसगोत्रा च या पितुः
इत्येतामनुगच्छेत तं धर्मं मनुरब्रवीत्
MBh 13.44.18
युधिष्ठिर उवाच
शुल्कमन्येन दत्तं स्याद्ददानीत्याह चापरः
बलादन्यः प्रभाषेत धनमन्यः प्रदर्शयेत्
MBh 13.44.19
पाणिग्रहीता त्वन्यः स्यात्कस्य कन्या पितामह
तत्त्वं जिज्ञासमानानां चक्षुर्भवतु नो भवान्
MBh 13.44.20
भीष्म उवाच
यत्किंचित्कर्म मानुष्यं संस्थानाय प्रकृष्यते
मन्त्रवन्मन्त्रितं तस्य मृषावादस्तु पातकः
MBh 13.44.21
भार्यापत्यृत्विगाचार्याः शिष्योपाध्याय एव च
मृषोक्ते दण्डमर्हन्ति नेत्याहुरपरे जनाः
MBh 13.44.22
न ह्यकामेन संवादं मनुरेवं प्रशंसति
अयशस्यमधर्म्यं च यन्मृषा धर्मकोपनम्
MBh 13.44.23
नैकान्तदोष एकस्मिंस्तद्दानं नोपलभ्यते
धर्मतो यां प्रयच्छन्ति यां च क्रीणन्ति भारत
MBh 13.44.24
बन्धुभिः समनुज्ञातो मन्त्रहोमौ प्रयोजयेत्
तथा सिध्यन्ति ते मन्त्रा नादत्तायाः कथंचन
MBh 13.44.25
यस्त्वत्र मन्त्रसमयो भार्यापत्योर्मिथः कृतः
तमेवाहुर्गरीयांसं यश्चासौ ज्ञातिभिः कृतः
MBh 13.44.26
देवदत्तां पतिर्भार्यां वेत्ति धर्मस्य शासनात्
सा दैवीं मानुषीं वाचमनृतां पर्युदस्यति
MBh 13.44.27
युधिष्ठिर उवाच
कन्यायां प्राप्तशुल्कायां ज्यायांश्चेदाव्रजेद्वरः
धर्मकामार्थसंपन्नो वाच्यमत्रानृतं न वा
MBh 13.44.28
तस्मिन्नुभयतो दोषे कुर्वञ्छ्रेयः समाचरेत्
अयं नः सर्वधर्माणां धर्मश्चिन्त्यतमो मतः
MBh 13.44.29
तत्त्वं जिज्ञासमानानां चक्षुर्भवतु नो भवान्
तदेतत्सर्वमाचक्ष्व न हि तृप्यामि कथ्यताम्
MBh 13.44.30
भीष्म उवाच
न वै निष्ठाकरं शुल्कं ज्ञात्वासीत्तेन नाहृतम्
न हि शुल्कपराः सन्तः कन्यां ददति कर्हिचित्
MBh 13.44.31
अन्यैर्गुणैरुपेतं तु शुल्कं याचन्ति बान्धवाः
अलंकृत्वा वहस्वेति यो दद्यादनुकूलतः
MBh 13.44.32
तच्च तां च ददात्येव न शुल्कं विक्रयो न सः
प्रतिगृह्य भवेद्देयमेष धर्मः सनातनः
MBh 13.44.33
दास्यामि भवते कन्यामिति पूर्वं नभाषितम्
ये चैवाहुर्ये च नाहुर्ये चावश्यं वदन्त्युत
MBh 13.44.34
तस्मादा ग्रहणात्पाणेर्याचयन्ति परस्परम्
कन्यावरः पुरा दत्तो मरुद्भिरिति नः श्रुतम्
MBh 13.44.35
नानिष्टाय प्रदातव्या कन्या इत्यृषिचोदितम्
तन्मूलं काममूलस्य प्रजनस्येति मे मतिः
MBh 13.44.36
समीक्ष्य च बहून्दोषान्संवासाद्विद्विषाणयोः
यथा निष्ठाकरं शुल्कं न जात्वासीत्तथा शृणु
MBh 13.44.37
अहं विचित्रवीर्याय द्वे कन्ये समुदावहम्
जित्वा च मागधान्सर्वान्काशीनथ च कोसलान्
गृहीतपाणिरेकासीत्प्राप्तशुल्कापराभवत्
MBh 13.44.38
पाणौ गृहीता तत्रैव विसृज्या इति मे पिता
अब्रवीदितरां कन्यामावहत्स तु कौरवः
MBh 13.44.39
अप्यन्यामनुपप्रच्छ शङ्कमानः पितुर्वचः
अतीव ह्यस्य धर्मेप्सा पितुर्मेऽभ्यधिकाभवत्
MBh 13.44.40
ततोऽहमब्रुवं राजन्नाचारेप्सुरिदं वचः
आचारं तत्त्वतो वेत्तुमिच्छामीति पुनः पुनः
MBh 13.44.41
ततो मयैवमुक्ते तु वाक्ये धर्मभृतां वरः
पिता मम महाराज बाह्लीको वाक्यमब्रवीत्
MBh 13.44.42
यदि वः शुल्कतो निष्ठा न पाणिग्रहणं तथा
लाजान्तरमुपासीत प्राप्तशुल्का पतिं वृतम्
MBh 13.44.43
न हि धर्मविदः प्राहुः प्रमाणं वाक्यतः स्मृतम्
येषां वै शुल्कतो निष्ठा न पाणिग्रहणात्तथा
MBh 13.44.44
प्रसिद्धं भाषितं दाने तेषां प्रत्यसनं पुनः
ये मन्यन्ते क्रयं शुल्कं न ते धर्मविदो जनाः
MBh 13.44.45
न चैतेभ्यः प्रदातव्या न वोढव्या तथाविधा
न ह्येव भार्या क्रेतव्या न विक्रेया कथंचन
MBh 13.44.46
ये च क्रीणन्ति दासीवद्ये च विक्रीणते जनाः
भवेत्तेषां तथा निष्ठा लुब्धानां पापचेतसाम्
MBh 13.44.47
अस्मिन्धर्मे सत्यवन्तं पर्यपृच्छन्त वै जनाः
कन्यायाः प्राप्तशुल्कायाः शुल्कदः प्रशमं गतः
MBh 13.44.48
पाणिग्रहीता चान्यः स्यादत्र नो धर्मसंशयः
तन्नश्छिन्धि महाप्राज्ञ त्वं हि वै प्राज्ञसंमतः
तत्त्वं जिज्ञासमानानां चक्षुर्भवतु नो भवान्
MBh 13.44.49
तानेवं ब्रुवतः सर्वान्सत्यवान्वाक्यमब्रवीत्
यत्रेष्टं तत्र देया स्यान्नात्र कार्या विचारणा
कुर्वते जीवतोऽप्येवं मृते नैवास्ति संशयः
MBh 13.44.50
देवरं प्रविशेत्कन्या तप्येद्वापि महत्तपः
तमेवानुव्रता भूत्वा पाणिग्राहस्य नाम सा
MBh 13.44.51
लिखन्त्येव तु केषांचिदपरेषां शनैरपि
इति ये संवदन्त्यत्र त एतं निश्चयं विदुः
MBh 13.44.52
तत्पाणिग्रहणात्पूर्वमुत्तरं यत्र वर्तते
सर्वमङ्गलमन्त्रं वै मृषावादस्तु पातकः
MBh 13.44.53
पाणिग्रहणमन्त्राणां निष्ठा स्यात्सप्तमे पदे
पाणिग्राहस्य भार्या स्याद्यस्य चाद्भिः प्रदीयते
MBh 13.44.54
अनुकूलामनुवंशां भ्रात्रा दत्तामुपाग्निकाम्
परिक्रम्य यथान्यायं भार्यां विन्देद्द्विजोत्तमः
🪷 The Honest Framing
This chapter belongs to the source-pinned BORI Critical Edition-derived digital witness. Its unique addresses are publicly readable and indexable; this remains a digital-witness claim, not a claim that every Mahābhārata recension agrees word-for-word or that the traditional 100,000-verse extent is represented here.
Navigation
- ← Anuśāsana-Parva chapter-index (154 chapters)
- ← Mahābhārata master-index (all 18 Parvas)
- ← Previous chapter · Anuśāsana-Parva Ch 43
- Next chapter · Anuśāsana-Parva Ch 45 →
Sources and Connected Readings
Continue from these 54 source-pinned Devanāgarī addresses to Anuśāsana-Parva, the Mahābhārata reading map, and any exact Bhagavad-Gītā correspondence.
MBh 13.44local chapter route · Anuśāsana-ParvaAnuśāsana-Parvaparent Parva chapter index/mahabharata18-parva Sanskrit reading index with edition and address notesBhīṣma-ParvaMahābhārata Parva 6 · the Gītā lives in chapters 23-40MBh 6.23Bhagavad-Gītā chapter 1 in its Itihāsa homeMBh 6.40Bhagavad-Gītā chapter 18 in its Itihāsa homeRāmopākhyānaVana-Parva 258 · Vyāsa narrates the Rāma-kathā inside Krishna's epicNārāyaṇīyamŚānti-Parva 335 · Nārāyaṇa/Krishna/Viṣṇu/Vāsudeva unity witness/bhagavad-gitadeep Gītā corpus with translations, commentaries, and verse-level anchorsBG 1.1Dharma-kṣetra opening cross-anchored to MBh 6.23.1BG 18.66Carama-Śloka surrender seal inside the Bhīṣma-Parva arcVyāsa vibhūtiBG 10.37 · Krishna names Vyāsa among munisBG 10.37Vyāsa and Dhanañjaya as Krishna-vibhūti source routeŚB 1.2.11Brahman · Paramātmā · Bhagavān as one advaya-tattvaŚB 1.3.28kṛṣṇas tu bhagavān svayam · Vyāsa corpus source seal/binduDiamond of Darśanas · Itihāsa as one Bindu aperture/philosophyKrishna = Paramaatma = Parabrahman constitutional foundation
🪷 जय व्यास भगवान् 🪷