🪷 Mahābhārata · Anuśāsana-Parva · Chapter 41

The Book of the Final Teaching · Parva 13 · 35 unique Sanskrit addresses · pinned Critical Edition-derived witness

The Devanāgarī Yathārtha · 35 Shlokas

MBh 13.41.1
भीष्म उवाच ततः कदाचिद्देवेन्द्रो दिव्यरूपवपुर्धरः इदमन्तरमित्येवं ततोऽभ्यागादथाश्रमम्
MBh 13.41.2
रूपमप्रतिमं कृत्वा लोभनीयं जनाधिप दर्शनीयतमो भूत्वा प्रविवेश तमाश्रमम्
MBh 13.41.3
स ददर्श तमासीनं विपुलस्य कलेवरम् निश्चेष्टं स्तब्धनयनं यथालेख्यगतं तथा
MBh 13.41.4
रुचिं च रुचिरापाङ्गीं पीनश्रोणिपयोधराम् पद्मपत्रविशालाक्षीं संपूर्णेन्दुनिभाननाम्
MBh 13.41.5
सा तमालोक्य सहसा प्रत्युत्थातुमियेष ह रूपेण विस्मिता कोऽसीत्यथ वक्तुमिहेच्छती
MBh 13.41.6
उत्थातुकामापि सती व्यतिष्ठद्विपुलेन सा निगृहीता मनुष्येन्द्र न शशाक विचेष्टितुम्
MBh 13.41.7
तामाबभाषे देवेन्द्रः साम्ना परमवल्गुना त्वदर्थमागतं विद्धि देवेन्द्रं मां शुचिस्मिते
MBh 13.41.8
क्लिश्यमानमनङ्गेन त्वत्संकल्पोद्भवेन वै तत्पर्याप्नुहि मां सुभ्रु पुरा कालोऽतिवर्तते
MBh 13.41.9
तमेवंवादिनं शक्रं शुश्राव विपुलो मुनिः गुरुपत्न्याः शरीरस्थो ददर्श च सुराधिपम्
MBh 13.41.10
न शशाक च सा राजन्प्रत्युत्थातुमनिन्दिता वक्तुं च नाशकद्राजन्विष्टब्धा विपुलेन सा
MBh 13.41.11
आकारं गुरुपत्न्यास्तु विज्ञाय स भृगूद्वहः निजग्राह महातेजा योगेन बलवत्प्रभो बबन्ध योगबन्धैश्च तस्याः सर्वेन्द्रियाणि सः
MBh 13.41.12
तां निर्विकारां दृष्ट्वा तु पुनरेव शचीपतिः उवाच व्रीडितो राजंस्तां योगबलमोहिताम्
MBh 13.41.13
एह्येहीति ततः सा तं प्रतिवक्तुमियेष च स तां वाचं गुरोः पत्न्या विपुलः पर्यवर्तयत्
MBh 13.41.14
भोः किमागमने कृत्यमिति तस्याश्च निःसृता वक्त्राच्छशाङ्कप्रतिमाद्वाणी संस्कारभूषिता
MBh 13.41.15
व्रीडिता सा तु तद्वाक्यमुक्त्वा परवशा तदा पुरंदरश्च संत्रस्तो बभूव विमनास्तदा
MBh 13.41.16
स तद्वैकृतमालक्ष्य देवराजो विशां पते अवैक्षत सहस्राक्षस्तदा दिव्येन चक्षुषा
MBh 13.41.17
ददर्श च मुनिं तस्याः शरीरान्तरगोचरम् प्रतिबिम्बमिवादर्शे गुरुपत्न्याः शरीरगम्
MBh 13.41.18
स तं घोरेण तपसा युक्तं दृष्ट्वा पुरंदरः प्रावेपत सुसंत्रस्तः शापभीतस्तदा विभो
MBh 13.41.19
विमुच्य गुरुपत्नीं तु विपुलः सुमहातपाः स्वं कलेवरमाविश्य शक्रं भीतमथाब्रवीत्
MBh 13.41.20
अजितेन्द्रिय पापात्मन्कामात्मक पुरंदर न चिरं पूजयिष्यन्ति देवास्त्वां मानुषास्तथा
MBh 13.41.21
किं नु तद्विस्मृतं शक्र न तन्मनसि ते स्थितम् गौतमेनासि यन्मुक्तो भगाङ्कपरिचिह्नितः
MBh 13.41.22
जाने त्वां बालिशमतिमकृतात्मानमस्थिरम् मयेयं रक्ष्यते मूढ गच्छ पाप यथागतम्
MBh 13.41.23
नाहं त्वामद्य मूढात्मन्दहेयं हि स्वतेजसा कृपायमाणस्तु न ते दग्धुमिच्छामि वासव
MBh 13.41.24
स च घोरतपा धीमान्गुरुर्मे पापचेतसम् दृष्ट्वा त्वां निर्दहेदद्य क्रोधदीप्तेन चक्षुषा
MBh 13.41.25
नैवं तु शक्र कर्तव्यं पुनर्मान्याश्च ते द्विजाः मा गमः ससुतामात्योऽत्ययं ब्रह्मबलार्दितः
MBh 13.41.26
अमरोऽस्मीति यद्बुद्धिमेतामास्थाय वर्तसे मावमंस्था न तपसामसाध्यं नाम किंचन
MBh 13.41.27
तच्छ्रुत्वा वचनं शक्रो विपुलस्य महात्मनः अकिंचिदुक्त्वा व्रीडितस्तत्रैवान्तरधीयत
MBh 13.41.28
मुहूर्तयाते शक्रे तु देवशर्मा महातपाः कृत्वा यज्ञं यथाकाममाजगाम स्वमाश्रमम्
MBh 13.41.29
आगतेऽथ गुरौ राजन्विपुलः प्रियकर्मकृत् रक्षितां गुरवे भार्यां न्यवेदयदनिन्दिताम्
MBh 13.41.30
अभिवाद्य च शान्तात्मा स गुरुं गुरुवत्सलः विपुलः पर्युपातिष्ठद्यथापूर्वमशङ्कितः
MBh 13.41.31
विश्रान्ताय ततस्तस्मै सहासीनाय भार्यया निवेदयामास तदा विपुलः शक्रकर्म तत्
MBh 13.41.32
तच्छ्रुत्वा स मुनिस्तुष्टो विपुलस्य प्रतापवान् बभूव शीलवृत्ताभ्यां तपसा नियमेन च
MBh 13.41.33
विपुलस्य गुरौ वृत्तिं भक्तिमात्मनि च प्रभुः धर्मे च स्थिरतां दृष्ट्वा साधु साध्वित्युवाच ह
MBh 13.41.34
प्रतिनन्द्य च धर्मात्मा शिष्यं धर्मपरायणम् वरेण च्छन्दयामास स तस्माद्गुरुवत्सलः अनुज्ञातश्च गुरुणा चचारानुत्तमं तपः
MBh 13.41.35
तथैव देवशर्मापि सभार्यः स महातपाः निर्भयो बलवृत्रघ्नाच्चचार विजने वने

🪷 The Honest Framing

This chapter belongs to the source-pinned BORI Critical Edition-derived digital witness. Its unique addresses are publicly readable and indexable; this remains a digital-witness claim, not a claim that every Mahābhārata recension agrees word-for-word or that the traditional 100,000-verse extent is represented here.

Navigation

Sources and Connected Readings

Continue from these 35 source-pinned Devanāgarī addresses to Anuśāsana-Parva, the Mahābhārata reading map, and any exact Bhagavad-Gītā correspondence.

MBh 13.41local chapter route · Anuśāsana-ParvaAnuśāsana-Parvaparent Parva chapter index/mahabharata18-parva Sanskrit reading index with edition and address notesBhīṣma-ParvaMahābhārata Parva 6 · the Gītā lives in chapters 23-40MBh 6.23Bhagavad-Gītā chapter 1 in its Itihāsa homeMBh 6.40Bhagavad-Gītā chapter 18 in its Itihāsa homeRāmopākhyānaVana-Parva 258 · Vyāsa narrates the Rāma-kathā inside Krishna's epicNārāyaṇīyamŚānti-Parva 335 · Nārāyaṇa/Krishna/Viṣṇu/Vāsudeva unity witness/bhagavad-gitadeep Gītā corpus with translations, commentaries, and verse-level anchorsBG 1.1Dharma-kṣetra opening cross-anchored to MBh 6.23.1BG 18.66Carama-Śloka surrender seal inside the Bhīṣma-Parva arcVyāsa vibhūtiBG 10.37 · Krishna names Vyāsa among munisBG 10.37Vyāsa and Dhanañjaya as Krishna-vibhūti source routeŚB 1.2.11Brahman · Paramātmā · Bhagavān as one advaya-tattvaŚB 1.3.28kṛṣṇas tu bhagavān svayam · Vyāsa corpus source seal/binduDiamond of Darśanas · Itihāsa as one Bindu aperture/philosophyKrishna = Paramaatma = Parabrahman constitutional foundation

🪷 जय व्यास भगवान् 🪷