🪷 Mahābhārata · Anuśāsana-Parva · Chapter 42

The Book of the Final Teaching · Parva 13 · 33 unique Sanskrit addresses · pinned Critical Edition-derived witness

The Devanāgarī Yathārtha · 33 Shlokas

MBh 13.42.1
भीष्म उवाच विपुलस्त्वकरोत्तीव्रं तपः कृत्वा गुरोर्वचः तपोयुक्तमथात्मानममन्यत च वीर्यवान्
MBh 13.42.2
स तेन कर्मणा स्पर्धन्पृथिवीं पृथिवीपते चचार गतभीः प्रीतो लब्धकीर्तिर्वरो नृषु
MBh 13.42.3
उभौ लोकौ जितौ चापि तथैवामन्यत प्रभुः कर्मणा तेन कौरव्य तपसा विपुलेन च
MBh 13.42.4
अथ काले व्यतिक्रान्ते कस्मिंश्चित्कुरुनन्दन रुच्या भगिन्या दानं वै बभूव धनधान्यवत्
MBh 13.42.5
एतस्मिन्नेव काले तु दिव्या काचिद्वराङ्गना बिभ्रती परमं रूपं जगामाथ विहायसा
MBh 13.42.6
तस्याः शरीरात्पुष्पाणि पतितानि महीतले तस्याश्रमस्याविदूरे दिव्यगन्धानि भारत
MBh 13.42.7
तान्यगृह्णात्ततो राजन्रुचिर्नलिनलोचना तदा निमन्त्रकस्तस्या अङ्गेभ्यः क्षिप्रमागमत्
MBh 13.42.8
तस्या हि भगिनी तात ज्येष्ठा नाम्ना प्रभावती भार्या चित्ररथस्याथ बभूवाङ्गेश्वरस्य वै
MBh 13.42.9
पिनह्य तानि पुष्पाणि केशेषु वरवर्णिनी आमन्त्रिता ततोऽगच्छद्रुचिरङ्गपतेर्गृहान्
MBh 13.42.10
पुष्पाणि तानि दृष्ट्वाथ तदाङ्गेन्द्रवराङ्गना भगिनीं चोदयामास पुष्पार्थे चारुलोचना
MBh 13.42.11
सा भर्त्रे सर्वमाचष्ट रुचिः सुरुचिरानना भगिन्या भाषितं सर्वमृषिस्तच्चाभ्यनन्दत
MBh 13.42.12
ततो विपुलमानाय्य देवशर्मा महातपाः पुष्पार्थे चोदयामास गच्छ गच्छेति भारत
MBh 13.42.13
विपुलस्तु गुरोर्वाक्यमविचार्य महातपाः स तथेत्यब्रवीद्राजंस्तं च देशं जगाम ह
MBh 13.42.14
यस्मिन्देशे तु तान्यासन्पतितानि नभस्तलात् अम्लानान्यपि तत्रासन्कुसुमान्यपराण्यपि
MBh 13.42.15
ततः स तानि जग्राह दिव्यानि रुचिराणि च प्राप्तानि स्वेन तपसा दिव्यगन्धानि भारत
MBh 13.42.16
संप्राप्य तानि प्रीतात्मा गुरोर्वचनकारकः ततो जगाम तूर्णं च चम्पां चम्पकमालिनीम्
MBh 13.42.17
स वने विजने तात ददर्श मिथुनं नृणाम् चक्रवत्परिवर्तन्तं गृहीत्वा पाणिना करम्
MBh 13.42.18
तत्रैकस्तूर्णमगमत्तत्पदे परिवर्तयन् एकस्तु न तथा राजंश्चक्रतुः कलहं ततः
MBh 13.42.19
त्वं शीघ्रं गच्छसीत्येकोऽब्रवीन्नेति तथापरः नेति नेति च तौ तात परस्परमथोचतुः
MBh 13.42.20
तयोर्विस्पर्धतोरेवं शपथोऽयमभूत्तदा मनसोद्दिश्य विपुलं ततो वाक्यमथोचतुः
MBh 13.42.21
आवयोरनृतं प्राह यस्तस्याथ द्विजस्य वै विपुलस्य परे लोके या गतिः सा भवेदिति
MBh 13.42.22
एतच्छ्रुत्वा तु विपुलो विषण्णवदनोऽभवत् एवं तीव्रतपाश्चाहं कष्टश्चायं परिग्रहः
MBh 13.42.23
मिथुनस्यास्य किं मे स्यात्कृतं पापं यतो गतिः अनिष्टा सर्वभूतानां कीर्तितानेन मेऽद्य वै
MBh 13.42.24
एवं संचिन्तयन्नेव विपुलो राजसत्तम अवाङ्मुखो न्यस्तशिरा दध्यौ दुष्कृतमात्मनः
MBh 13.42.25
ततः षडन्यान्पुरुषानक्षैः काञ्चनराजतैः अपश्यद्दीव्यमानान्वै लोभहर्षान्वितांस्तथा
MBh 13.42.26
कुर्वतः शपथं तं वै यः कृतो मिथुनेन वै विपुलं वै समुद्दिश्य तेऽपि वाक्यमथाब्रुवन्
MBh 13.42.27
यो लोभमास्थायास्माकं विषमं कर्तुमुत्सहेत् विपुलस्य परे लोके या गतिस्तामवाप्नुयात्
MBh 13.42.28
एतच्छ्रुत्वा तु विपुलो नापश्यद्धर्मसंकरम् जन्मप्रभृति कौरव्य कृतपूर्वमथात्मनः
MBh 13.42.29
स प्रदध्यौ तदा राजन्नग्नावग्निरिवाहितः दह्यमानेन मनसा शापं श्रुत्वा तथाविधम्
MBh 13.42.30
तस्य चिन्तयतस्तात बह्व्यो दिननिशा ययुः इदमासीन्मनसि च रुच्या रक्षणकारितम्
MBh 13.42.31
लक्षणं लक्षणेनैव वदनं वदनेन च विधाय न मया चोक्तं सत्यमेतद्गुरोस्तदा
MBh 13.42.32
एतदात्मनि कौरव्य दुष्कृतं विपुलस्तदा अमन्यत महाभाग तथा तच्च न संशयः
MBh 13.42.33
स चम्पां नगरीमेत्य पुष्पाणि गुरवे ददौ पूजयामास च गुरुं विधिवत्स गुरुप्रियः

🪷 The Honest Framing

This chapter belongs to the source-pinned BORI Critical Edition-derived digital witness. Its unique addresses are publicly readable and indexable; this remains a digital-witness claim, not a claim that every Mahābhārata recension agrees word-for-word or that the traditional 100,000-verse extent is represented here.

Navigation

Sources and Connected Readings

Continue from these 33 source-pinned Devanāgarī addresses to Anuśāsana-Parva, the Mahābhārata reading map, and any exact Bhagavad-Gītā correspondence.

MBh 13.42local chapter route · Anuśāsana-ParvaAnuśāsana-Parvaparent Parva chapter index/mahabharata18-parva Sanskrit reading index with edition and address notesBhīṣma-ParvaMahābhārata Parva 6 · the Gītā lives in chapters 23-40MBh 6.23Bhagavad-Gītā chapter 1 in its Itihāsa homeMBh 6.40Bhagavad-Gītā chapter 18 in its Itihāsa homeRāmopākhyānaVana-Parva 258 · Vyāsa narrates the Rāma-kathā inside Krishna's epicNārāyaṇīyamŚānti-Parva 335 · Nārāyaṇa/Krishna/Viṣṇu/Vāsudeva unity witness/bhagavad-gitadeep Gītā corpus with translations, commentaries, and verse-level anchorsBG 1.1Dharma-kṣetra opening cross-anchored to MBh 6.23.1BG 18.66Carama-Śloka surrender seal inside the Bhīṣma-Parva arcVyāsa vibhūtiBG 10.37 · Krishna names Vyāsa among munisBG 10.37Vyāsa and Dhanañjaya as Krishna-vibhūti source routeŚB 1.2.11Brahman · Paramātmā · Bhagavān as one advaya-tattvaŚB 1.3.28kṛṣṇas tu bhagavān svayam · Vyāsa corpus source seal/binduDiamond of Darśanas · Itihāsa as one Bindu aperture/philosophyKrishna = Paramaatma = Parabrahman constitutional foundation

🪷 जय व्यास भगवान् 🪷