🪷 Mahābhārata · Anuśāsana-Parva · Chapter 40
The Book of the Final Teaching · Parva 13 · 59 unique Sanskrit addresses · pinned Critical Edition-derived witness
The Devanāgarī Yathārtha · 59 Shlokas
MBh 13.40.1
भीष्म उवाच
एवमेतन्महाबाहो नात्र मिथ्यास्ति किंचन
यथा ब्रवीषि कौरव्य नारीं प्रति जनाधिप
MBh 13.40.2
अत्र ते वर्तयिष्यामि इतिहासं पुरातनम्
यथा रक्षा कृता पूर्वं विपुलेन महात्मना
MBh 13.40.3
प्रमदाश्च यथा सृष्टा ब्रह्मणा भरतर्षभ
यदर्थं तच्च ते तात प्रवक्ष्ये वसुधाधिप
MBh 13.40.4
न हि स्त्रीभ्य परं पुत्र पापीयः किंचिदस्ति वै
अग्निर्हि प्रमदा दीप्तो मायाश्च मयजा विभो
क्षुरधारा विषं सर्पो मृत्युरित्येकतः स्त्रियः
MBh 13.40.5
इमाः प्रजा महाबाहो धार्मिका इति नः श्रुतम्
स्वयं गच्छन्ति देवत्वं ततो देवानियाद्भयम्
MBh 13.40.6
अथाभ्यगच्छन्देवास्ते पितामहमरिंदम
निवेद्य मानसं चापि तूष्णीमासन्नवाङ्मुखाः
MBh 13.40.7
तेषामन्तर्गतं ज्ञात्वा देवानां स पितामहः
मानवानां प्रमोहार्थं कृत्या नार्योऽसृजत्प्रभुः
MBh 13.40.8
पूर्वसर्गे तु कौन्तेय साध्व्यो नार्य इहाभवन्
असाध्व्यस्तु समुत्पन्ना कृत्या सर्गात्प्रजापतेः
MBh 13.40.9
ताभ्यः कामान्यथाकामं प्रादाद्धि स पितामहः
ताः कामलुब्धाः प्रमदाः प्रामथ्नन्त नरांस्तदा
MBh 13.40.10
क्रोधं कामस्य देवेशः सहायं चासृजत्प्रभुः
असज्जन्त प्रजाः सर्वाः कामक्रोधवशं गताः
MBh 13.40.11
न च स्त्रीणां क्रिया काचिदिति धर्मो व्यवस्थितः
निरिन्द्रिया अमन्त्राश्च स्त्रियोऽनृतमिति श्रुतिः
MBh 13.40.12
शय्यासनमलंकारमन्नपानमनार्यताम्
दुर्वाग्भावं रतिं चैव ददौ स्त्रीभ्यः प्रजापतिः
MBh 13.40.13
न तासां रक्षणं कर्तुं शक्यं पुंसा कथंचन
अपि विश्वकृता तात कुतस्तु पुरुषैरिह
MBh 13.40.14
वाचा वा वधबन्धैर्वा क्लेशैर्वा विविधैस्तथा
न शक्या रक्षितुं नार्यस्ता हि नित्यमसंयताः
MBh 13.40.15
इदं तु पुरुषव्याघ्र पुरस्ताच्छ्रुतवानहम्
यथा रक्षा कृता पूर्वं विपुलेन गुरुस्त्रियः
MBh 13.40.16
ऋषिरासीन्महाभागो देवशर्मेति विश्रुतः
तस्य भार्या रुचिर्नाम रूपेणासदृशी भुवि
MBh 13.40.17
तस्य रूपेण संमत्ता देवगन्धर्वदानवाः
विशेषतस्तु राजेन्द्र वृत्रहा पाकशासनः
MBh 13.40.18
नारीणां चरितज्ञश्च देवशर्मा महामुनिः
यथाशक्ति यथोत्साहं भार्यां तामभ्यरक्षत
MBh 13.40.19
पुरंदरं च जानीते परस्त्रीकामचारिणम्
तस्माद्यत्नेन भार्याया रक्षणं स चकार ह
MBh 13.40.20
स कदाचिदृषिस्तात यज्ञं कर्तुमनास्तदा
भार्यासंरक्षणं कार्यं कथं स्यादित्यचिन्तयत्
MBh 13.40.21
रक्षाविधानं मनसा स विचिन्त्य महातपाः
आहूय दयितं शिष्यं विपुलं प्राह भार्गवम्
MBh 13.40.22
यज्ञकारो गमिष्यामि रुचिं चेमां सुरेश्वरः
पुत्र प्रार्थयते नित्यं तां रक्षस्व यथाबलम्
MBh 13.40.23
अप्रमत्तेन ते भाव्यं सदा प्रति पुरंदरम्
स हि रूपाणि कुरुते विविधानि भृगूद्वह
MBh 13.40.24
इत्युक्तो विपुलस्तेन तपस्वी नियतेन्द्रियः
सदैवोग्रतपा राजन्नग्न्यर्कसदृशद्युतिः
MBh 13.40.25
धर्मज्ञः सत्यवादी च तथेति प्रत्यभाषत
पुनश्चेदं महाराज पप्रच्छ प्रस्थितं गुरुम्
MBh 13.40.26
कानि रूपाणि शक्रस्य भवन्त्यागच्छतो मुने
वपुस्तेजश्च कीदृग्वै तन्मे व्याख्यातुमर्हसि
MBh 13.40.27
ततः स भगवांस्तस्मै विपुलाय महात्मने
आचचक्षे यथातत्त्वं मायां शक्रस्य भारत
MBh 13.40.28
बहुमायः स विप्रर्षे बलहा पाकशासनः
तांस्तान्विकुरुते भावान्बहूनथ मुहुर्मुहुः
MBh 13.40.29
किरीटी वज्रभृद्धन्वी मुकुटी बद्धकुण्डलः
भवत्यथ मुहूर्तेन चण्डालसमदर्शनः
MBh 13.40.30
शिखी जटी चीरवासाः पुनर्भवति पुत्रक
बृहच्छरीरश्च पुनः पीवरोऽथ पुनः कृशः
MBh 13.40.31
गौरं श्यामं च कृष्णं च वर्णं विकुरुते पुनः
विरूपो रूपवांश्चैव युवा वृद्धस्तथैव च
MBh 13.40.32
प्राज्ञो जडश्च मूकश्च ह्रस्वो दीर्घस्तथैव च
ब्राह्मणः क्षत्रियश्चैव वैश्यः शूद्रस्तथैव च
प्रतिलोमानुलोमश्च भवत्यथ शतक्रतुः
MBh 13.40.33
शुकवायसरूपी च हंसकोकिलरूपवान्
सिंहव्याघ्रगजानां च रूपं धारयते पुनः
MBh 13.40.34
दैवं दैत्यमथो राज्ञां वपुर्धारयतेऽपि च
सुकृशो वायुभग्नाङ्गः शकुनिर्विकृतस्तथा
MBh 13.40.35
चतुष्पाद्बहुरूपश्च पुनर्भवति बालिशः
मक्षिकामशकादीनां वपुर्धारयतेऽपि च
MBh 13.40.36
न शक्यमस्य ग्रहणं कर्तुं विपुल केनचित्
अपि विश्वकृता तात येन सृष्टमिदं जगत्
MBh 13.40.37
पुनरन्तर्हितः शक्रो दृश्यते ज्ञानचक्षुषा
वायुभूतश्च स पुनर्देवराजो भवत्युत
MBh 13.40.38
एवं रूपाणि सततं कुरुते पाकशासनः
तस्माद्विपुल यत्नेन रक्षेमां तनुमध्यमाम्
MBh 13.40.39
यथा रुचिं नावलिहेद्देवेन्द्रो भृगुसत्तम
क्रतावुपहितं न्यस्तं हविः श्वेव दुरात्मवान्
MBh 13.40.40
एवमाख्याय स मुनिर्यज्ञकारोऽगमत्तदा
देवशर्मा महाभागस्ततो भरतसत्तम
MBh 13.40.41
विपुलस्तु वचः श्रुत्वा गुरोश्चिन्तापरोऽभवत्
रक्षां च परमां चक्रे देवराजान्महाबलात्
MBh 13.40.42
किं नु शक्यं मया कर्तुं गुरुदाराभिरक्षणे
मायावी हि सुरेन्द्रोऽसौ दुर्धर्षश्चापि वीर्यवान्
MBh 13.40.43
नापिधायाश्रमं शक्यो रक्षितुं पाकशासनः
उटजं वा तथा ह्यस्य नानाविधसरूपता
MBh 13.40.44
वायुरूपेण वा शक्रो गुरुपत्नीं प्रधर्षयेत्
तस्मादिमां संप्रविश्य रुचिं स्थास्येऽहमद्य वै
MBh 13.40.45
अथ वा पौरुषेणेयमशक्या रक्षितुं मया
बहुरूपो हि भगवाञ्छ्रूयते हरिवाहनः
MBh 13.40.46
सोऽहं योगबलादेनां रक्षिष्ये पाकशासनात्
गात्राणि गात्रैरस्याहं संप्रवेक्ष्येऽभिरक्षितुम्
MBh 13.40.47
यद्युच्छिष्टामिमां पत्नीं रुचिं पश्येत मे गुरुः
शप्स्यत्यसंशयं कोपाद्दिव्यज्ञानो महातपाः
MBh 13.40.48
न चेयं रक्षितुं शक्या यथान्या प्रमदा नृभिः
मायावी हि सुरेन्द्रोऽसावहो प्राप्तोऽस्मि संशयम्
MBh 13.40.49
अवश्यकरणीयं हि गुरोरिह हि शासनम्
यदि त्वेतदहं कुर्यामाश्चर्यं स्यात्कृतं मया
MBh 13.40.50
योगेनानुप्रविश्येह गुरुपत्न्याः कलेवरम्
निर्मुक्तस्य रजोरूपान्नापराधो भवेन्मम
MBh 13.40.51
यथा हि शून्यां पथिकः सभामध्यावसेत्पथि
तथाद्यावासयिष्यामि गुरुपत्न्याः कलेवरम्
MBh 13.40.52
असक्तः पद्मपत्रस्थो जलबिन्दुर्यथा चलः
एवमेव शरीरेऽस्या निवत्स्यामि समाहितः
MBh 13.40.53
इत्येवं धर्ममालोक्य वेदवेदांश्च सर्वशः
तपश्च विपुलं दृष्ट्वा गुरोरात्मन एव च
MBh 13.40.54
इति निश्चित्य मनसा रक्षां प्रति स भार्गवः
आतिष्ठत्परमं यत्नं यथा तच्छृणु पार्थिव
MBh 13.40.55
गुरुपत्नीमुपासीनो विपुलः स महातपाः
उपासीनामनिन्द्याङ्गीं कथाभिः समलोभयत्
MBh 13.40.56
नेत्राभ्यां नेत्रयोरस्या रश्मीन्संयोज्य रश्मिभिः
विवेश विपुलः कायमाकाशं पवनो यथा
MBh 13.40.57
लक्षणं लक्षणेनैव वदनं वदनेन च
अविचेष्टन्नतिष्ठद्वै छायेवान्तर्गतो मुनिः
MBh 13.40.58
ततो विष्टभ्य विपुलो गुरुपत्न्याः कलेवरम्
उवास रक्षणे युक्तो न च सा तमबुध्यत
MBh 13.40.59
यं कालं नागतो राजन्गुरुस्तस्य महात्मनः
क्रतुं समाप्य स्वगृहं तं कालं सोऽभ्यरक्षत
🪷 The Honest Framing
This chapter belongs to the source-pinned BORI Critical Edition-derived digital witness. Its unique addresses are publicly readable and indexable; this remains a digital-witness claim, not a claim that every Mahābhārata recension agrees word-for-word or that the traditional 100,000-verse extent is represented here.
Navigation
- ← Anuśāsana-Parva chapter-index (154 chapters)
- ← Mahābhārata master-index (all 18 Parvas)
- ← Previous chapter · Anuśāsana-Parva Ch 39
- Next chapter · Anuśāsana-Parva Ch 41 →
Sources and Connected Readings
Continue from these 59 source-pinned Devanāgarī addresses to Anuśāsana-Parva, the Mahābhārata reading map, and any exact Bhagavad-Gītā correspondence.
MBh 13.40local chapter route · Anuśāsana-ParvaAnuśāsana-Parvaparent Parva chapter index/mahabharata18-parva Sanskrit reading index with edition and address notesBhīṣma-ParvaMahābhārata Parva 6 · the Gītā lives in chapters 23-40MBh 6.23Bhagavad-Gītā chapter 1 in its Itihāsa homeMBh 6.40Bhagavad-Gītā chapter 18 in its Itihāsa homeRāmopākhyānaVana-Parva 258 · Vyāsa narrates the Rāma-kathā inside Krishna's epicNārāyaṇīyamŚānti-Parva 335 · Nārāyaṇa/Krishna/Viṣṇu/Vāsudeva unity witness/bhagavad-gitadeep Gītā corpus with translations, commentaries, and verse-level anchorsBG 1.1Dharma-kṣetra opening cross-anchored to MBh 6.23.1BG 18.66Carama-Śloka surrender seal inside the Bhīṣma-Parva arcVyāsa vibhūtiBG 10.37 · Krishna names Vyāsa among munisBG 10.37Vyāsa and Dhanañjaya as Krishna-vibhūti source routeŚB 1.2.11Brahman · Paramātmā · Bhagavān as one advaya-tattvaŚB 1.3.28kṛṣṇas tu bhagavān svayam · Vyāsa corpus source seal/binduDiamond of Darśanas · Itihāsa as one Bindu aperture/philosophyKrishna = Paramaatma = Parabrahman constitutional foundation
🪷 जय व्यास भगवान् 🪷