🪷 Mahābhārata · Anuśāsana-Parva · Chapter 35

The Book of the Final Teaching · Parva 13 · 23 unique Sanskrit addresses · pinned Critical Edition-derived witness

The Devanāgarī Yathārtha · 23 Shlokas

MBh 13.35.1
भीष्म उवाच जन्मनैव महाभागो ब्राह्मणो नाम जायते नमस्यः सर्वभूतानामतिथिः प्रसृताग्रभुक्
MBh 13.35.2
सर्वान्नः सुहृदस्तात ब्राह्मणाः सुमनोमुखाः गीर्भिर्मङ्गलयुक्ताभिरनुध्यायन्ति पूजिताः
MBh 13.35.3
सर्वान्नो द्विषतस्तात ब्राह्मणा जातमन्यवः गीर्भिर्दारुणयुक्ताभिरभिहन्युरपूजिताः
MBh 13.35.4
अत्र गाथा ब्रह्मगीताः कीर्तयन्ति पुराविदः सृष्ट्वा द्विजातीन्धाता हि यथापूर्वं समादधत्
MBh 13.35.5
न वोऽन्यदिह कर्तव्यं किंचिदूर्ध्वं यथाविधि गुप्ता गोपायत ब्रह्म श्रेयो वस्तेन शोभनम्
MBh 13.35.6
स्वमेव कुर्वतां कर्म श्रीर्वो ब्राह्मी भविष्यति प्रमाणं सर्वभूतानां प्रग्रहं च गमिष्यथ
MBh 13.35.7
न शौद्रं कर्म कर्तव्यं ब्राह्मणेन विपश्चिता शौद्रं हि कुर्वतः कर्म धर्मः समुपरुध्यते
MBh 13.35.8
श्रीश्च बुद्धिश्च तेजश्च विभूतिश्च प्रतापिनी स्वाध्यायेनैव माहात्म्यं विमलं प्रतिपत्स्यथ
MBh 13.35.9
हुत्वा चाहवनीयस्थं महाभाग्ये प्रतिष्ठिताः अग्रभोज्याः प्रसूतीनां श्रिया ब्राह्म्यानुकल्पिताः
MBh 13.35.10
श्रद्धया परया युक्ता ह्यनभिद्रोहलब्धया दमस्वाध्यायनिरताः सर्वान्कामानवाप्स्यथ
MBh 13.35.11
यच्चैव मानुषे लोके यच्च देवेषु किंचन सर्वं तत्तपसा साध्यं ज्ञानेन विनयेन च
MBh 13.35.12
इत्येता ब्रह्मगीतास्ते समाख्याता मयानघ विप्रानुकम्पार्थमिदं तेन प्रोक्तं हि धीमता
MBh 13.35.13
भूयस्तेषां बलं मन्ये यथा राज्ञस्तपस्विनः दुरासदाश्च चण्डाश्च रभसाः क्षिप्रकारिणः
MBh 13.35.14
सन्त्येषां सिंहसत्त्वाश्च व्याघ्रसत्त्वास्तथापरे वराहमृगसत्त्वाश्च गजसत्त्वास्तथापरे
MBh 13.35.15
कर्पासमृदवः केचित्तथान्ये मकरस्पृशः विभाष्यघातिनः केचित्तथा चक्षुर्हणोऽपरे
MBh 13.35.16
सन्ति चाशीविषनिभाः सन्ति मन्दास्तथापरे विविधानीह वृत्तानि ब्राह्मणानां युधिष्ठिर
MBh 13.35.17
मेकला द्रमिडाः काशाः पौण्ड्राः कोल्लगिरास्तथा शौण्डिका दरदा दर्वाश्चौराः शबरबर्बराः
MBh 13.35.18
किराता यवनाश्चैव तास्ताः क्षत्रियजातयः वृषलत्वमनुप्राप्ता ब्राह्मणानामदर्शनात्
MBh 13.35.19
ब्राह्मणानां परिभवादसुराः सलिलेशयाः ब्राह्मणानां प्रसादाच्च देवाः स्वर्गनिवासिनः
MBh 13.35.20
अशक्यं स्प्रष्टुमाकाशमचाल्यो हिमवान्गिरिः अवार्या सेतुना गङ्गा दुर्जया ब्राह्मणा भुवि
MBh 13.35.21
न ब्राह्मणविरोधेन शक्या शास्तुं वसुंधरा ब्राह्मणा हि महात्मानो देवानामपि देवताः
MBh 13.35.22
तान्पूजयस्व सततं दानेन परिचर्यया यदीच्छसि महीं भोक्तुमिमां सागरमेखलाम्
MBh 13.35.23
प्रतिग्रहेण तेजो हि विप्राणां शाम्यतेऽनघ प्रतिग्रहं ये नेच्छेयुस्तेऽपि रक्ष्यास्त्वयानघ

🪷 The Honest Framing

This chapter belongs to the source-pinned BORI Critical Edition-derived digital witness. Its unique addresses are publicly readable and indexable; this remains a digital-witness claim, not a claim that every Mahābhārata recension agrees word-for-word or that the traditional 100,000-verse extent is represented here.

Navigation

Sources and Connected Readings

Continue from these 23 source-pinned Devanāgarī addresses to Anuśāsana-Parva, the Mahābhārata reading map, and any exact Bhagavad-Gītā correspondence.

MBh 13.35local chapter route · Anuśāsana-ParvaAnuśāsana-Parvaparent Parva chapter index/mahabharata18-parva Sanskrit reading index with edition and address notesBhīṣma-ParvaMahābhārata Parva 6 · the Gītā lives in chapters 23-40MBh 6.23Bhagavad-Gītā chapter 1 in its Itihāsa homeMBh 6.40Bhagavad-Gītā chapter 18 in its Itihāsa homeRāmopākhyānaVana-Parva 258 · Vyāsa narrates the Rāma-kathā inside Krishna's epicNārāyaṇīyamŚānti-Parva 335 · Nārāyaṇa/Krishna/Viṣṇu/Vāsudeva unity witness/bhagavad-gitadeep Gītā corpus with translations, commentaries, and verse-level anchorsBG 1.1Dharma-kṣetra opening cross-anchored to MBh 6.23.1BG 18.66Carama-Śloka surrender seal inside the Bhīṣma-Parva arcVyāsa vibhūtiBG 10.37 · Krishna names Vyāsa among munisBG 10.37Vyāsa and Dhanañjaya as Krishna-vibhūti source routeŚB 1.2.11Brahman · Paramātmā · Bhagavān as one advaya-tattvaŚB 1.3.28kṛṣṇas tu bhagavān svayam · Vyāsa corpus source seal/binduDiamond of Darśanas · Itihāsa as one Bindu aperture/philosophyKrishna = Paramaatma = Parabrahman constitutional foundation

🪷 जय व्यास भगवान् 🪷