🪷 Mahābhārata · Anuśāsana-Parva · Chapter 36

The Book of the Final Teaching · Parva 13 · 19 unique Sanskrit addresses · pinned Critical Edition-derived witness

The Devanāgarī Yathārtha · 19 Shlokas

MBh 13.36.1
भीष्म उवाच अत्राप्युदाहरन्तीममितिहासं पुरातनम् शक्रशम्बरसंवादं तन्निबोध युधिष्ठिर
MBh 13.36.2
शक्रो ह्यज्ञातरूपेण जटी भूत्वा रजोरुणः विरूपं रूपमास्थाय प्रश्नं पप्रच्छ शम्बरम्
MBh 13.36.3
केन शम्बर वृत्तेन स्वजात्यानधितिष्ठसि श्रेष्ठं त्वां केन मन्यन्ते तन्मे प्रब्रूहि पृच्छतः
MBh 13.36.4
शम्बर उवाच नासूयामि सदा विप्रान्ब्रह्माणं च पितामहम् शास्त्राणि वदतो विप्रान्संमन्यामि यथासुखम्
MBh 13.36.5
श्रुत्वा च नावजानामि नापराध्यामि कर्हिचित् अभ्यर्च्याननुपृच्छामि पादौ गृह्णामि धीमताम्
MBh 13.36.6
ते विश्रब्धाः प्रभाषन्ते संयच्छन्ति च मां सदा प्रमत्तेष्वप्रमत्तोऽस्मि सदा सुप्तेषु जागृमि
MBh 13.36.7
ते मा शास्त्रपथे युक्तं ब्रह्मण्यमनसूयकम् समासिञ्चन्ति शास्तारः क्षौद्रं मध्विव मक्षिकाः
MBh 13.36.8
यच्च भाषन्ति ते तुष्टास्तत्तद्गृह्णामि मेधया समाधिमात्मनो नित्यमनुलोममचिन्तयन्
MBh 13.36.9
सोऽहं वागग्रसृष्टानां रसानामवलेहकः स्वजात्यानधितिष्ठामि नक्षत्राणीव चन्द्रमाः
MBh 13.36.10
एतत्पृथिव्याममृतमेतच्चक्षुरनुत्तमम् यद्ब्राह्मणमुखाच्छास्त्रमिह श्रुत्वा प्रवर्तते
MBh 13.36.11
एतत्कारणमाज्ञाय दृष्ट्वा देवासुरं पुरा युद्धं पिता मे हृष्टात्मा विस्मितः प्रत्यपद्यत
MBh 13.36.12
दृष्ट्वा च ब्राह्मणानां तु महिमानं महात्मनाम् पर्यपृच्छत्कथमिमे सिद्धा इति निशाकरम्
MBh 13.36.13
सोम उवाच ब्राह्मणास्तपसा सर्वे सिध्यन्ते वाग्बलाः सदा भुजवीर्या हि राजानो वागस्त्राश्च द्विजातयः
MBh 13.36.14
प्रवसन्वाप्यधीयीत बह्वीर्दुर्वसतीर्वसन् निर्मन्युरपि निर्मानो यतिः स्यात्समदर्शनः
MBh 13.36.15
अपि चेज्जातिसंपन्नः सर्वान्वेदान्पितुर्गृहे श्लाघमान इवाधीयेद्ग्राम्य इत्येव तं विदुः
MBh 13.36.16
भूमिरेतौ निगिरति सर्पो बिलशयानिव राजानं चाप्ययोद्धारं ब्राह्मणं चाप्रवासिनम्
MBh 13.36.17
अतिमानः श्रियं हन्ति पुरुषस्याल्पमेधसः गर्भेण दुष्यते कन्या गृहवासेन च द्विजः
MBh 13.36.18
इत्येतन्मे पिता श्रुत्वा सोमादद्भुतदर्शनात् ब्राह्मणान्पूजयामास तथैवाहं महाव्रतान्
MBh 13.36.19
भीष्म उवाच श्रुत्वैतद्वचनं शक्रो दानवेन्द्रमुखाच्च्युतम् द्विजान्संपूजयामास महेन्द्रत्वमवाप च

🪷 The Honest Framing

This chapter belongs to the source-pinned BORI Critical Edition-derived digital witness. Its unique addresses are publicly readable and indexable; this remains a digital-witness claim, not a claim that every Mahābhārata recension agrees word-for-word or that the traditional 100,000-verse extent is represented here.

Navigation

Sources and Connected Readings

Continue from these 19 source-pinned Devanāgarī addresses to Anuśāsana-Parva, the Mahābhārata reading map, and any exact Bhagavad-Gītā correspondence.

MBh 13.36local chapter route · Anuśāsana-ParvaAnuśāsana-Parvaparent Parva chapter index/mahabharata18-parva Sanskrit reading index with edition and address notesBhīṣma-ParvaMahābhārata Parva 6 · the Gītā lives in chapters 23-40MBh 6.23Bhagavad-Gītā chapter 1 in its Itihāsa homeMBh 6.40Bhagavad-Gītā chapter 18 in its Itihāsa homeRāmopākhyānaVana-Parva 258 · Vyāsa narrates the Rāma-kathā inside Krishna's epicNārāyaṇīyamŚānti-Parva 335 · Nārāyaṇa/Krishna/Viṣṇu/Vāsudeva unity witness/bhagavad-gitadeep Gītā corpus with translations, commentaries, and verse-level anchorsBG 1.1Dharma-kṣetra opening cross-anchored to MBh 6.23.1BG 18.66Carama-Śloka surrender seal inside the Bhīṣma-Parva arcVyāsa vibhūtiBG 10.37 · Krishna names Vyāsa among munisBG 10.37Vyāsa and Dhanañjaya as Krishna-vibhūti source routeŚB 1.2.11Brahman · Paramātmā · Bhagavān as one advaya-tattvaŚB 1.3.28kṛṣṇas tu bhagavān svayam · Vyāsa corpus source seal/binduDiamond of Darśanas · Itihāsa as one Bindu aperture/philosophyKrishna = Paramaatma = Parabrahman constitutional foundation

🪷 जय व्यास भगवान् 🪷