🪷 Mahābhārata · Anuśāsana-Parva · Chapter 34
The Book of the Final Teaching · Parva 13 · 29 unique Sanskrit addresses · pinned Critical Edition-derived witness
The Devanāgarī Yathārtha · 29 Shlokas
MBh 13.34.1
भीष्म उवाच
ब्राह्मणानेव सततं भृशं संप्रतिपूजयेत्
एते हि सोमराजान ईश्वराः सुखदुःखयोः
MBh 13.34.2
एते भोगैरलंकारैरन्यैश्चैव किमिच्छकैः
सदा पूज्या नमस्कार्या रक्ष्याश्च पितृवन्नृपैः
अतो राष्ट्रस्य शान्तिर्हि भूतानामिव वासवात्
MBh 13.34.3
जायतां ब्रह्मवर्चस्वी राष्ट्रे वै ब्राह्मणः शुचिः
महारथश्च राजन्य एष्टव्यः शत्रुतापनः
MBh 13.34.4
ब्राह्मणं जातिसंपन्नं धर्मज्ञं संशितव्रतम्
वासयेत गृहे राजन्न तस्मात्परमस्ति वै
MBh 13.34.5
ब्राह्मणेभ्यो हविर्दत्तं प्रतिगृह्णन्ति देवताः
पितरः सर्वभूतानां नैतेभ्यो विद्यते परम्
MBh 13.34.6
आदित्यश्चन्द्रमा वायुर्भूमिरापोऽम्बरं दिशः
सर्वे ब्राह्मणमाविश्य सदान्नमुपभुञ्जते
MBh 13.34.7
न तस्याश्नन्ति पितरो यस्य विप्रा न भुञ्जते
देवाश्चाप्यस्य नाश्नन्ति पापस्य ब्राह्मणद्विषः
MBh 13.34.8
ब्राह्मणेषु तु तुष्टेषु प्रीयन्ते पितरः सदा
तथैव देवता राजन्नात्र कार्या विचारणा
MBh 13.34.9
तथैव तेऽपि प्रीयन्ते येषां भवति तद्धविः
न च प्रेत्य विनश्यन्ति गच्छन्ति परमां गतिम्
MBh 13.34.10
येन येनैव हविषा ब्राह्मणांस्तर्पयेन्नरः
तेन तेनैव प्रीयन्ते पितरो देवतास्तथा
MBh 13.34.11
ब्राह्मणादेव तद्भूतं प्रभवन्ति यतः प्रजाः
यतश्चायं प्रभवति प्रेत्य यत्र च गच्छति
MBh 13.34.12
वेदैष मार्गं स्वर्गस्य तथैव नरकस्य च
आगतानागते चोभे ब्राह्मणो द्विपदां वरः
ब्राह्मणो भरतश्रेष्ठ स्वधर्मं वेद मेधया
MBh 13.34.13
ये चैनमनुवर्तन्ते ते न यान्ति पराभवम्
न ते प्रेत्य विनश्यन्ति गच्छन्ति न पराभवम्
MBh 13.34.14
ये ब्राह्मणमुखात्प्राप्तं प्रतिगृह्णन्ति वै वचः
कृतात्मानो महात्मानस्ते न यान्ति पराभवम्
MBh 13.34.15
क्षत्रियाणां प्रतपतां तेजसा च बलेन च
ब्राह्मणेष्वेव शाम्यन्ति तेजांसि च बलानि च
MBh 13.34.16
भृगवोऽजयंस्तालजङ्घान्नीपानङ्गिरसोऽजयन्
भरद्वाजो वैतहव्यानैलांश्च भरतर्षभ
MBh 13.34.17
चित्रायुधांश्चाप्यजयन्नेते कृष्णाजिनध्वजाः
प्रक्षिप्याथ च कुम्भान्वै पारगामिनमारभेत्
MBh 13.34.18
यत्किंचित्कथ्यते लोके श्रूयते पश्यतेऽपि वा
सर्वं तद्ब्राह्मणेष्वेव गूढोऽग्निरिव दारुषु
MBh 13.34.19
अत्राप्युदाहरन्तीममितिहासं पुरातनम्
संवादं वासुदेवस्य पृथ्व्याश्च भरतर्षभ
MBh 13.34.20
वासुदेव उवाच
मातरं सर्वभूतानां पृच्छे त्वा संशयं शुभे
केन स्वित्कर्मणा पापं व्यपोहति नरो गृही
MBh 13.34.21
पृथिव्युवाच
ब्राह्मणानेव सेवेत पवित्रं ह्येतदुत्तमम्
ब्राह्मणान्सेवमानस्य रजः सर्वं प्रणश्यति
MBh 13.34.22
अतो भूतिरतः कीर्तिरतो बुद्धिः प्रजायते
अपरेषां परेषां च परेभ्यश्चैव ये परे
MBh 13.34.23
ब्राह्मणा यं प्रशंसन्ति पुरुषः स प्रवर्धते
अथ यो ब्राह्मणाक्रुष्टः पराभवति सोऽचिरात्
MBh 13.34.24
यथा महार्णवे क्षिप्त आमलोष्टो विनश्यति
तथा दुश्चरितं कर्म पराभावाय कल्पते
MBh 13.34.25
पश्य चन्द्रे कृतं लक्ष्म समुद्रे लवणोदकम्
तथा भगसहस्रेण महेन्द्रं परिचिह्नितम्
MBh 13.34.26
तेषामेव प्रभावेन सहस्रनयनो ह्यसौ
शतक्रतुः समभवत्पश्य माधव यादृशम्
MBh 13.34.27
इच्छन्भूतिं च कीर्तिं च लोकांश्च मधुसूदन
ब्राह्मणानुमते तिष्ठेत्पुरुषः शुचिरात्मवान्
MBh 13.34.28
इत्येतद्वचनं श्रुत्वा मेदिन्या मधुसूदनः
साधु साध्वित्यथेत्युक्त्वा मेदिनीं प्रत्यपूजयत्
MBh 13.34.29
एतां श्रुत्वोपमां पार्थ प्रयतो ब्राह्मणर्षभान्
सततं पूजयेथास्त्वं ततः श्रेयोऽभिपत्स्यसे
🪷 The Honest Framing
This chapter belongs to the source-pinned BORI Critical Edition-derived digital witness. Its unique addresses are publicly readable and indexable; this remains a digital-witness claim, not a claim that every Mahābhārata recension agrees word-for-word or that the traditional 100,000-verse extent is represented here.
Navigation
- ← Anuśāsana-Parva chapter-index (154 chapters)
- ← Mahābhārata master-index (all 18 Parvas)
- ← Previous chapter · Anuśāsana-Parva Ch 33
- Next chapter · Anuśāsana-Parva Ch 35 →
Sources and Connected Readings
Continue from these 29 source-pinned Devanāgarī addresses to Anuśāsana-Parva, the Mahābhārata reading map, and any exact Bhagavad-Gītā correspondence.
MBh 13.34local chapter route · Anuśāsana-ParvaAnuśāsana-Parvaparent Parva chapter index/mahabharata18-parva Sanskrit reading index with edition and address notesBhīṣma-ParvaMahābhārata Parva 6 · the Gītā lives in chapters 23-40MBh 6.23Bhagavad-Gītā chapter 1 in its Itihāsa homeMBh 6.40Bhagavad-Gītā chapter 18 in its Itihāsa homeRāmopākhyānaVana-Parva 258 · Vyāsa narrates the Rāma-kathā inside Krishna's epicNārāyaṇīyamŚānti-Parva 335 · Nārāyaṇa/Krishna/Viṣṇu/Vāsudeva unity witness/bhagavad-gitadeep Gītā corpus with translations, commentaries, and verse-level anchorsBG 1.1Dharma-kṣetra opening cross-anchored to MBh 6.23.1BG 18.66Carama-Śloka surrender seal inside the Bhīṣma-Parva arcVyāsa vibhūtiBG 10.37 · Krishna names Vyāsa among munisBG 10.37Vyāsa and Dhanañjaya as Krishna-vibhūti source routeŚB 1.2.11Brahman · Paramātmā · Bhagavān as one advaya-tattvaŚB 1.3.28kṛṣṇas tu bhagavān svayam · Vyāsa corpus source seal/binduDiamond of Darśanas · Itihāsa as one Bindu aperture/philosophyKrishna = Paramaatma = Parabrahman constitutional foundation
🪷 जय व्यास भगवान् 🪷