🪷 Mahābhārata · Anuśāsana-Parva · Chapter 27

The Book of the Final Teaching · Parva 13 · 105 unique Sanskrit addresses · pinned Critical Edition-derived witness

The Devanāgarī Yathārtha · 105 Shlokas

MBh 13.27.1
वैशंपायन उवाच बृहस्पतिसमं बुद्ध्या क्षमया ब्रह्मणः समम् पराक्रमे शक्रसममादित्यसमतेजसम्
MBh 13.27.2
गाङ्गेयमर्जुनेनाजौ निहतं भूरिवर्चसम् भ्रातृभिः सहितोऽन्यैश्च पर्युपास्ते युधिष्ठिरः
MBh 13.27.3
शयानं वीरशयने कालाकाङ्क्षिणमच्युतम् आजग्मुर्भरतश्रेष्ठं द्रष्टुकामा महर्षयः
MBh 13.27.4
अत्रिर्वसिष्ठोऽथ भृगुः पुलस्त्यः पुलहः क्रतुः अङ्गिरा गौतमोऽगस्त्यः सुमतिः स्वायुरात्मवान्
MBh 13.27.5
विश्वामित्रः स्थूलशिराः संवर्तः प्रमतिर्दमः उशना बृहस्पतिर्व्यासश्च्यवनः काश्यपो ध्रुवः
MBh 13.27.6
दुर्वासा जमदग्निश्च मार्कण्डेयोऽथ गालवः भरद्वाजश्च रैभ्यश्च यवक्रीतस्त्रितस्तथा
MBh 13.27.7
स्थूलाक्षः शकलाक्षश्च कण्वो मेधातिथिः कृशः नारदः पर्वतश्चैव सुधन्वाथैकतो द्वितः
MBh 13.27.8
नितंभूर्भुवनो धौम्यः शतानन्दोऽकृतव्रणः जामदग्न्यस्तथा रामः काम्यश्चेत्येवमादयः समागता महात्मानो भीष्मं द्रष्टुं महर्षयः
MBh 13.27.9
तेषां महात्मनां पूजामागतानां युधिष्ठिरः भ्रातृभिः सहितश्चक्रे यथावदनुपूर्वशः
MBh 13.27.10
ते पूजिताः सुखासीनाः कथाश्चक्रुर्महर्षयः भीष्माश्रिताः सुमधुराः सर्वेन्द्रियमनोहराः
MBh 13.27.11
भीष्मस्तेषां कथाः श्रुत्वा ऋषीणां भावितात्मनाम् मेने दिविस्थमात्मानं तुष्ट्या परमया युतः
MBh 13.27.12
ततस्ते भीष्ममामन्त्र्य पाण्डवांश्च महर्षयः अन्तर्धानं गताः सर्वे सर्वेषामेव पश्यताम्
MBh 13.27.13
तानृषीन्सुमहाभागानन्तर्धानगतानपि पाण्डवास्तुष्टुवुः सर्वे प्रणेमुश्च मुहुर्मुहुः
MBh 13.27.14
प्रसन्नमनसः सर्वे गाङ्गेयं कुरुसत्तमाः उपतस्थुर्यथोद्यन्तमादित्यं मन्त्रकोविदाः
MBh 13.27.15
प्रभावात्तपसस्तेषामृषीणां वीक्ष्य पाण्डवाः प्रकाशन्तो दिशः सर्वा विस्मयं परमं ययुः
MBh 13.27.16
महाभाग्यं परं तेषामृषीणामनुचिन्त्य ते पाण्डवाः सह भीष्मेण कथाश्चक्रुस्तदाश्रयाः
MBh 13.27.17
कथान्ते शिरसा पादौ स्पृष्ट्वा भीष्मस्य पाण्डवः धर्म्यं धर्मसुतः प्रश्नं पर्यपृच्छद्युधिष्ठिरः
MBh 13.27.18
के देशाः के जनपदा आश्रमाः के च पर्वताः प्रकृष्टाः पुण्यतः काश्च ज्ञेया नद्यः पितामह
MBh 13.27.19
भीष्म उवाच अत्राप्युदाहरन्तीममितिहासं पुरातनम् शिलोञ्छवृत्तेः संवादं सिद्धस्य च युधिष्ठिर
MBh 13.27.20
इमां कश्चित्परिक्रम्य पृथिवीं शैलभूषिताम् असकृद्द्विपदां श्रेष्ठः श्रेष्ठस्य गृहमेधिनः
MBh 13.27.21
शिलवृत्तेर्गृहं प्राप्तः स तेन विधिनार्चितः कृतकृत्य उपातिष्ठत्सिद्धं तमतिथिं तदा
MBh 13.27.22
तौ समेत्य महात्मानौ सुखासीनौ कथाः शुभाः चक्रतुर्वेदसंबद्धास्तच्छेषकृतलक्षणाः
MBh 13.27.23
शिलवृत्तिः कथान्ते तु सिद्धमामन्त्र्य यत्नतः प्रश्नं पप्रच्छ मेधावी यन्मां त्वं परिपृच्छसि
MBh 13.27.24
शिलवृत्तिरुवाच के देशाः के जनपदाः केऽऽश्रमाः के च पर्वताः प्रकृष्टाः पुण्यतः काश्च ज्ञेया नद्यस्तदुच्यताम्
MBh 13.27.25
सिद्ध उवाच ते देशास्ते जनपदास्तेऽऽश्रमास्ते च पर्वताः येषां भागीरथी गङ्गा मध्येनैति सरिद्वरा
MBh 13.27.26
तपसा ब्रह्मचर्येण यज्ञैस्त्यागेन वा पुनः गतिं तां न लभेज्जन्तुर्गङ्गां संसेव्य यां लभेत्
MBh 13.27.27
स्पृष्टानि येषां गाङ्गेयैस्तोयैर्गात्राणि देहिनाम् न्यस्तानि न पुनस्तेषां त्यागः स्वर्गाद्विधीयते
MBh 13.27.28
सर्वाणि येषां गाङ्गेयैस्तोयैः कृत्यानि देहिनाम् गां त्यक्त्वा मानवा विप्र दिवि तिष्ठन्ति तेऽचलाः
MBh 13.27.29
पूर्वे वयसि कर्माणि कृत्वा पापानि ये नराः पश्चाद्गङ्गां निषेवन्ते तेऽपि यान्त्युत्तमां गतिम्
MBh 13.27.30
स्नातानां शुचिभिस्तोयैर्गाङ्गेयैः प्रयतात्मनाम् व्युष्टिर्भवति या पुंसां न सा क्रतुशतैरपि
MBh 13.27.31
यावदस्थि मनुष्यस्य गङ्गातोयेषु तिष्ठति तावद्वर्षसहस्राणि स्वर्गं प्राप्य महीयते
MBh 13.27.32
अपहत्य तमस्तीव्रं यथा भात्युदये रविः तथापहत्य पाप्मानं भाति गङ्गाजलोक्षितः
MBh 13.27.33
विसोमा इव शर्वर्यो विपुष्पास्तरवो यथा तद्वद्देशा दिशश्चैव हीना गङ्गाजलैः शुभैः
MBh 13.27.34
वर्णाश्रमा यथा सर्वे स्वधर्मज्ञानवर्जिताः क्रतवश्च यथासोमास्तथा गङ्गां विना जगत्
MBh 13.27.35
यथा हीनं नभोऽर्केण भूः शैलैः खं च वायुना तथा देशा दिशश्चैव गङ्गाहीना न संशयः
MBh 13.27.36
त्रिषु लोकेषु ये केचित्प्राणिनः सर्व एव ते तर्प्यमाणाः परां तृप्तिं यान्ति गङ्गाजलैः शुभैः
MBh 13.27.37
यस्तु सूर्येण निष्टप्तं गाङ्गेयं पिबते जलम् गवां निर्हारनिर्मुक्ताद्यावकात्तद्विशिष्यते
MBh 13.27.38
इन्दुव्रतसहस्रं तु चरेद्यः कायशोधनम् पिबेद्यश्चापि गङ्गाम्भः समौ स्यातां न वा समौ
MBh 13.27.39
तिष्ठेद्युगसहस्रं तु पादेनैकेन यः पुमान् मासमेकं तु गङ्गायां समौ स्यातां न वा समौ
MBh 13.27.40
लम्बेतावाक्शिरा यस्तु युगानामयुतं पुमान् तिष्ठेद्यथेष्टं यश्चापि गङ्गायां स विशिष्यते
MBh 13.27.41
अग्नौ प्राप्तं प्रधूयेत यथा तूलं द्विजोत्तम तथा गङ्गावगाढस्य सर्वं पापं प्रधूयते
MBh 13.27.42
भूतानामिह सर्वेषां दुःखोपहतचेतसाम् गतिमन्वेषमाणानां न गङ्गासदृशी गतिः
MBh 13.27.43
भवन्ति निर्विषाः सर्पा यथा तार्क्ष्यस्य दर्शनात् गङ्गाया दर्शनात्तद्वत्सर्वपापैः प्रमुच्यते
MBh 13.27.44
अप्रतिष्ठाश्च ये केचिदधर्मशरणाश्च ये तेषां प्रतिष्ठा गङ्गेह शरणं शर्म वर्म च
MBh 13.27.45
प्रकृष्टैरशुभैर्ग्रस्ताननेकैः पुरुषाधमान् पततो नरके गङ्गा संश्रितान्प्रेत्य तारयेत्
MBh 13.27.46
ते संविभक्ता मुनिभिर्नूनं देवैः सवासवैः येऽभिगच्छन्ति सततं गङ्गामभिगतां सुरैः
MBh 13.27.47
विनयाचारहीनाश्च अशिवाश्च नराधमाः ते भवन्ति शिवा विप्र ये वै गङ्गां समाश्रिताः
MBh 13.27.48
यथा सुराणाममृतं पितॄणां च यथा स्वधा सुधा यथा च नागानां तथा गङ्गाजलं नृणाम्
MBh 13.27.49
उपासते यथा बाला मातरं क्षुधयार्दिताः श्रेयस्कामास्तथा गङ्गामुपासन्तीह देहिनः
MBh 13.27.50
स्वायंभुवं यथा स्थानं सर्वेषां श्रेष्ठमुच्यते स्नातानां सरितां श्रेष्ठा गङ्गा तद्वदिहोच्यते
MBh 13.27.51
यथोपजीविनां धेनुर्देवादीनां धरा स्मृता तथोपजीविनां गङ्गा सर्वप्राणभृतामिह
MBh 13.27.52
देवाः सोमार्कसंस्थानि यथा सत्रादिभिर्मखैः अमृतान्युपजीवन्ति तथा गङ्गाजलं नराः
MBh 13.27.53
जाह्नवीपुलिनोत्थाभिः सिकताभिः समुक्षितः मन्यते पुरुषोऽऽत्मानं दिविष्ठमिव शोभितम्
MBh 13.27.54
जाह्नवीतीरसंभूतां मृदं मूर्ध्ना बिभर्ति यः बिभर्ति रूपं सोऽर्कस्य तमोनाशात्सुनिर्मलम्
MBh 13.27.55
गङ्गोर्मिभिरथो दिग्धः पुरुषं पवनो यदा स्पृशते सोऽपि पाप्मानं सद्य एवापमार्जति
MBh 13.27.56
व्यसनैरभितप्तस्य नरस्य विनशिष्यतः गङ्गादर्शनजा प्रीतिर्व्यसनान्यपकर्षति
MBh 13.27.57
हंसारावैः कोकरवै रवैरन्यैश्च पक्षिणाम् पस्पर्ध गङ्गा गन्धर्वान्पुलिनैश्च शिलोच्चयान्
MBh 13.27.58
हंसादिभिः सुबहुभिर्विविधैः पक्षिभिर्वृताम् गङ्गां गोकुलसंबाधां दृष्ट्वा स्वर्गोऽपि विस्मृतः
MBh 13.27.59
न सा प्रीतिर्दिविष्ठस्य सर्वकामानुपाश्नतः अभवद्या परा प्रीतिर्गङ्गायाः पुलिने नृणाम्
MBh 13.27.60
वाङ्मनःकर्मजैर्ग्रस्तः पापैरपि पुमानिह वीक्ष्य गङ्गां भवेत्पूतस्तत्र मे नास्ति संशयः
MBh 13.27.61
सप्तावरान्सप्त परान्पितॄंस्तेभ्यश्च ये परे पुमांस्तारयते गङ्गां वीक्ष्य स्पृष्ट्वावगाह्य च
MBh 13.27.62
श्रुताभिलषिता दृष्टा स्पृष्टा पीतावगाहिता गङ्गा तारयते नॄणामुभौ वंशौ विशेषतः
MBh 13.27.63
दर्शनात्स्पर्शनात्पानात्तथा गङ्गेति कीर्तनात् पुनात्यपुण्यान्पुरुषाञ्शतशोऽथ सहस्रशः
MBh 13.27.64
य इच्छेत्सफलं जन्म जीवितं श्रुतमेव च स पितॄंस्तर्पयेद्गङ्गामभिगम्य सुरांस्तथा
MBh 13.27.65
न सुतैर्न च वित्तेन कर्मणा न च तत्फलम् प्राप्नुयात्पुरुषोऽत्यन्तं गङ्गां प्राप्य यदाप्नुयात्
MBh 13.27.66
जात्यन्धैरिह तुल्यास्ते मृतैः पङ्गुभिरेव च समर्था ये न पश्यन्ति गङ्गां पुण्यजलां शिवाम्
MBh 13.27.67
भूतभव्यभविष्यज्ञैर्महर्षिभिरुपस्थिताम् देवैः सेन्द्रैश्च को गङ्गां नोपसेवेत मानवः
MBh 13.27.68
वानप्रस्थैर्गृहस्थैश्च यतिभिर्ब्रह्मचारिभिः विद्यावद्भिः श्रितां गङ्गां पुमान्को नाम नाश्रयेत्
MBh 13.27.69
उत्क्रामद्भिश्च यः प्राणैः प्रयतः शिष्टसंमतः चिन्तयेन्मनसा गङ्गां स गतिं परमां लभेत्
MBh 13.27.70
न भयेभ्यो भयं तस्य न पापेभ्यो न राजतः आ देहपतनाद्गङ्गामुपास्ते यः पुमानिह
MBh 13.27.71
गगनाद्यां महापुण्यां पतन्तीं वै महेश्वरः दधार शिरसा देवीं तामेव दिवि सेवते
MBh 13.27.72
अलंकृतास्त्रयो लोकाः पथिभिर्विमलैस्त्रिभिः यस्तु तस्या जलं सेवेत्कृतकृत्यः पुमान्भवेत्
MBh 13.27.73
दिवि ज्योतिर्यथादित्यः पितॄणां चैव चन्द्रमाः देवेशश्च यथा नॄणां गङ्गेह सरितां तथा
MBh 13.27.74
मात्रा पित्रा सुतैर्दारैर्वियुक्तस्य धनेन वा न भवेद्धि तथा दुःखं यथा गङ्गावियोगजम्
MBh 13.27.75
नारण्यैर्नेष्टविषयैर्न सुतैर्न धनागमैः तथा प्रसादो भवति गङ्गां वीक्ष्य यथा नृणाम्
MBh 13.27.76
पूर्णमिन्दुं यथा दृष्ट्वा नृणां दृष्टिः प्रसीदति गङ्गां त्रिपथगां दृष्ट्वा तथा दृष्टिः प्रसीदति
MBh 13.27.77
तद्भावस्तद्गतमनास्तन्निष्ठस्तत्परायणः गङ्गां योऽनुगतो भक्त्या स तस्याः प्रियतां व्रजेत्
MBh 13.27.78
भूःस्थैः खस्थैर्दिविष्ठैश्च भूतैरुच्चावचैरपि गङ्गा विगाह्या सततमेतत्कार्यतमं सताम्
MBh 13.27.79
त्रिषु लोकेषु पुण्यत्वाद्गङ्गायाः प्रथितं यशः यत्पुत्रान्सगरस्यैषा भस्माख्याननयद्दिवम्
MBh 13.27.80
वाय्वीरिताभिः सुमहास्वनाभि;र्द्रुताभिरत्यर्थसमुच्छ्रिताभिः गङ्गोर्मिभिर्भानुमतीभिरिद्धः; सहस्ररश्मिप्रतिमो विभाति
MBh 13.27.81
पयस्विनीं घृतिनीमत्युदारां; समृद्धिनीं वेगिनीं दुर्विगाह्याम् गङ्गां गत्वा यैः शरीरं विसृष्टं; गता धीरास्ते विबुधैः समत्वम्
MBh 13.27.82
अन्धाञ्जडान्द्रव्यहीनांश्च गङ्गा; यशस्विनी बृहती विश्वरूपा देवैः सेन्द्रैर्मुनिभिर्मानवैश्च; निषेविता सर्वकामैर्युनक्ति
MBh 13.27.83
ऊर्जावतीं मधुमतीं महापुण्यां त्रिवर्त्मगाम् त्रिलोकगोप्त्रीं ये गङ्गां संश्रितास्ते दिवं गताः
MBh 13.27.84
यो वत्स्यति द्रक्ष्यति वापि मर्त्य;स्तस्मै प्रयच्छन्ति सुखानि देवाः तद्भाविताः स्पर्शने दर्शने य;स्तस्मै देवा गतिमिष्टां दिशन्ति
MBh 13.27.85
दक्षां पृथ्वीं बृहतीं विप्रकृष्टां; शिवामृतां सुरसां सुप्रसन्नाम् विभावरीं सर्वभूतप्रतिष्ठां; गङ्गां गता ये त्रिदिवं गतास्ते
MBh 13.27.86
ख्यातिर्यस्याः खं दिवं गां च नित्यं; पुरा दिशो विदिशश्चावतस्थे तस्या जलं सेव्य सरिद्वराया; मर्त्याः सर्वे कृतकृत्या भवन्ति
MBh 13.27.87
इयं गङ्गेति नियतं प्रतिष्ठा; गुहस्य रुक्मस्य च गर्भयोषा प्रातस्त्रिमार्गा घृतवहा विपाप्मा; गङ्गावतीर्णा वियतो विश्वतोया
MBh 13.27.88
सुतावनीध्रस्य हरस्य भार्या; दिवो भुवश्चापि कक्ष्यानुरूपा भव्या पृथिव्या भाविनी भाति राज;न्गङ्गा लोकानां पुण्यदा वै त्रयाणाम्
MBh 13.27.89
मधुप्रवाहा घृतरागोद्धृताभि;र्महोर्मिभिः शोभिता ब्राह्मणैश्च दिवश्च्युता शिरसात्ता भवेन; गङ्गावनीध्रास्त्रिदिवस्य माला
MBh 13.27.90
योनिर्वरिष्ठा विरजा वितन्वी; शुष्मा इरा वारिवहा यशोदा विश्वावती चाकृतिरिष्टिरिद्धा; गङ्गोक्षितानां भुवनस्य पन्थाः
MBh 13.27.91
क्षान्त्या मह्या गोपने धारणे च; दीप्त्या कृशानोस्तपनस्य चैव तुल्या गङ्गा संमता ब्राह्मणानां; गुहस्य ब्रह्मण्यतया च नित्यम्
MBh 13.27.92
ऋषिष्टुतां विष्णुपदीं पुराणीं; सुपुण्यतोयां मनसापि लोके सर्वात्मना जाह्नवीं ये प्रपन्ना;स्ते ब्रह्मणः सदनं संप्रयाताः
MBh 13.27.93
लोकानिमान्नयति या जननीव पुत्रा;न्सर्वात्मना सर्वगुणोपपन्ना स्वस्थानमिष्टमिह ब्राह्ममभीप्समानै;र्गङ्गा सदैवात्मवशैरुपास्या
MBh 13.27.94
उस्रां जुष्टां मिषतीं विश्वतोया;मिरां वज्रीं रेवतीं भूधराणाम् शिष्टाश्रयाममृतां ब्रह्मकान्तां; गङ्गां श्रयेदात्मवान्सिद्धिकामः
MBh 13.27.95
प्रसाद्य देवान्सविभून्समस्ता;न्भगीरथस्तपसोग्रेण गङ्गाम् गामानयत्तामभिगम्य शश्व;न्पुमान्भयं नेह नामुत्र विद्यात्
MBh 13.27.96
उदाहृतः सर्वथा ते गुणानां; मयैकदेशः प्रसमीक्ष्य बुद्ध्या शक्तिर्न मे काचिदिहास्ति वक्तुं; गुणान्सर्वान्परिमातुं तथैव
MBh 13.27.97
मेरोः समुद्रस्य च सर्वरत्नैः; संख्योपलानामुदकस्य वापि वक्तुं शक्यं नेह गङ्गाजलानां; गुणाख्यानं परिमातुं तथैव
MBh 13.27.98
तस्मादिमान्परया श्रद्धयोक्ता;न्गुणान्सर्वाञ्जाह्नवीजांस्तथैव भजेद्वाचा मनसा कर्मणा च; भक्त्या युक्तः परया श्रद्दधानः
MBh 13.27.99
लोकानिमांस्त्रीन्यशसा वितत्य; सिद्धिं प्राप्य महतीं तां दुरापाम् गङ्गाकृतानचिरेणैव लोका;न्यथेष्टमिष्टान्विचरिष्यसि त्वम्
MBh 13.27.100
तव मम च गुणैर्महानुभावा; जुषतु मतिं सततं स्वधर्मयुक्तैः अभिगतजनवत्सला हि गङ्गा; भजति युनक्ति सुखैश्च भक्तिमन्तम्
MBh 13.27.101
भीष्म उवाच इति परममतिर्गुणाननेका;ञ्शिलरतये त्रिपथानुयोगरूपान् बहुविधमनुशास्य तथ्यरूपा;न्गगनतलं द्युतिमान्विवेश सिद्धः
MBh 13.27.102
शिलवृत्तिस्तु सिद्धस्य वाक्यैः संबोधितस्तदा गङ्गामुपास्य विधिवत्सिद्धिं प्राप्तः सुदुर्लभाम्
MBh 13.27.103
तस्मात्त्वमपि कौन्तेय भक्त्या परमया युतः गङ्गामभ्येहि सततं प्राप्स्यसे सिद्धिमुत्तमाम्
MBh 13.27.104
वैशंपायन उवाच श्रुत्वेतिहासं भीष्मोक्तं गङ्गायाः स्तवसंयुतम् युधिष्ठिरः परां प्रीतिमगच्छद्भ्रातृभिः सह
MBh 13.27.105
इतिहासमिमं पुण्यं शृणुयाद्यः पठेत वा गङ्गायाः स्तवसंयुक्तं स मुच्येत्सर्वकिल्बिषैः

🪷 The Honest Framing

This chapter belongs to the source-pinned BORI Critical Edition-derived digital witness. Its unique addresses are publicly readable and indexable; this remains a digital-witness claim, not a claim that every Mahābhārata recension agrees word-for-word or that the traditional 100,000-verse extent is represented here.

Navigation

Sources and Connected Readings

Continue from these 105 source-pinned Devanāgarī addresses to Anuśāsana-Parva, the Mahābhārata reading map, and any exact Bhagavad-Gītā correspondence.

MBh 13.27local chapter route · Anuśāsana-ParvaAnuśāsana-Parvaparent Parva chapter index/mahabharata18-parva Sanskrit reading index with edition and address notesBhīṣma-ParvaMahābhārata Parva 6 · the Gītā lives in chapters 23-40MBh 6.23Bhagavad-Gītā chapter 1 in its Itihāsa homeMBh 6.40Bhagavad-Gītā chapter 18 in its Itihāsa homeRāmopākhyānaVana-Parva 258 · Vyāsa narrates the Rāma-kathā inside Krishna's epicNārāyaṇīyamŚānti-Parva 335 · Nārāyaṇa/Krishna/Viṣṇu/Vāsudeva unity witness/bhagavad-gitadeep Gītā corpus with translations, commentaries, and verse-level anchorsBG 1.1Dharma-kṣetra opening cross-anchored to MBh 6.23.1BG 18.66Carama-Śloka surrender seal inside the Bhīṣma-Parva arcVyāsa vibhūtiBG 10.37 · Krishna names Vyāsa among munisBG 10.37Vyāsa and Dhanañjaya as Krishna-vibhūti source routeŚB 1.2.11Brahman · Paramātmā · Bhagavān as one advaya-tattvaŚB 1.3.28kṛṣṇas tu bhagavān svayam · Vyāsa corpus source seal/binduDiamond of Darśanas · Itihāsa as one Bindu aperture/philosophyKrishna = Paramaatma = Parabrahman constitutional foundation

🪷 जय व्यास भगवान् 🪷