🪷 Mahābhārata · Anuśāsana-Parva · Chapter 26
The Book of the Final Teaching · Parva 13 · 66 unique Sanskrit addresses · pinned Critical Edition-derived witness
The Devanāgarī Yathārtha · 66 Shlokas
MBh 13.26.1
युधिष्ठिर उवाच
तीर्थानां दर्शनं श्रेयः स्नानं च भरतर्षभ
श्रवणं च महाप्राज्ञ श्रोतुमिच्छामि तत्त्वतः
MBh 13.26.2
पृथिव्यां यानि तीर्थानि पुण्यानि भरतर्षभ
वक्तुमर्हसि मे तानि श्रोतास्मि नियतः प्रभो
MBh 13.26.3
भीष्म उवाच
इममङ्गिरसा प्रोक्तं तीर्थवंशं महाद्युते
श्रोतुमर्हसि भद्रं ते प्राप्स्यसे धर्ममुत्तमम्
MBh 13.26.4
तपोवनगतं विप्रमभिगम्य महामुनिम्
पप्रच्छाङ्गिरसं वीर गौतमः संशितव्रतः
MBh 13.26.5
अस्ति मे भगवन्कश्चित्तीर्थेभ्यो धर्मसंशयः
तत्सर्वं श्रोतुमिच्छामि तन्मे शंस महामुने
MBh 13.26.6
उपस्पृश्य फलं किं स्यात्तेषु तीर्थेषु वै मुने
प्रेत्यभावे महाप्राज्ञ तद्यथास्ति तथा वद
MBh 13.26.7
अङ्गिरा उवाच
सप्ताहं चन्द्रभागां वै वितस्तामूर्मिमालिनीम्
विगाह्य वै निराहारो निर्ममो मुनिवद्भवेत्
MBh 13.26.8
काश्मीरमण्डले नद्यो याः पतन्ति महानदम्
ता नदीः सिन्धुमासाद्य शीलवान्स्वर्गमाप्नुयात्
MBh 13.26.9
पुष्करं च प्रभासं च नैमिषं सागरोदकम्
देविकामिन्द्रमार्गं च स्वर्णबिन्दुं विगाह्य च
विबोध्यते विमानस्थः सोऽप्सरोभिरभिष्टुतः
MBh 13.26.10
हिरण्यबिन्दुं विक्षोभ्य प्रयतश्चाभिवाद्य तम्
कुशेशयं च देवत्वं पूयते तस्य किल्बिषम्
MBh 13.26.11
इन्द्रतोयां समासाद्य गन्धमादनसंनिधौ
करतोयां कुरङ्गेषु त्रिरात्रोपोषितो नरः
अश्वमेधमवाप्नोति विगाह्य नियतः शुचिः
MBh 13.26.12
गङ्गाद्वारे कुशावर्ते बिल्वके नेमिपर्वते
तथा कनखले स्नात्वा धूतपाप्मा दिवं व्रजेत्
MBh 13.26.13
अपां ह्रद उपस्पृश्य वाजपेयफलं लभेत्
ब्रह्मचारी जितक्रोधः सत्यसंधस्त्वहिंसकः
MBh 13.26.14
यत्र भागीरथी गङ्गा भजते दिशमुत्तराम्
महेश्वरस्य निष्ठाने यो नरस्त्वभिषिच्यते
एकमासं निराहारः स्वयं पश्यति देवताः
MBh 13.26.15
सप्तगङ्गे त्रिगङ्गे च इन्द्रमार्गे च तर्पयन्
सुधां वै लभते भोक्तुं यो नरो जायते पुनः
MBh 13.26.16
महाश्रम उपस्पृश्य योऽग्निहोत्रपरः शुचिः
एकमासं निराहारः सिद्धिं मासेन स व्रजेत्
MBh 13.26.17
महाह्रद उपस्पृश्य भृगुतुङ्गे त्वलोलुपः
त्रिरात्रोपोषितो भूत्वा मुच्यते ब्रह्महत्यया
MBh 13.26.18
कन्याकूप उपस्पृश्य बलाकायां कृतोदकः
देवेषु कीर्तिं लभते यशसा च विराजते
MBh 13.26.19
देशकाल उपस्पृश्य तथा सुन्दरिकाह्रदे
अश्विभ्यां रूपवर्चस्यं प्रेत्य वै लभते नरः
MBh 13.26.20
महागङ्गामुपस्पृश्य कृत्तिकाङ्गारके तथा
पक्षमेकं निराहारः स्वर्गमाप्नोति निर्मलः
MBh 13.26.21
वैमानिक उपस्पृश्य किङ्किणीकाश्रमे तथा
निवासेऽप्सरसां दिव्ये कामचारी महीयते
MBh 13.26.22
कालिकाश्रममासाद्य विपाशायां कृतोदकः
ब्रह्मचारी जितक्रोधस्त्रिरात्रान्मुच्यते भवात्
MBh 13.26.23
आश्रमे कृत्तिकानां तु स्नात्वा यस्तर्पयेत्पितॄन्
तोषयित्वा महादेवं निर्मलः स्वर्गमाप्नुयात्
MBh 13.26.24
महापुर उपस्पृश्य त्रिरात्रोपोषितो नरः
त्रसानां स्थावराणां च द्विपदानां भयं त्यजेत्
MBh 13.26.25
देवदारुवने स्नात्वा धूतपाप्मा कृतोदकः
देवलोकमवाप्नोति सप्तरात्रोषितः शुचिः
MBh 13.26.26
कौशन्ते च कुशस्तम्बे द्रोणशर्मपदे तथा
आपःप्रपतने स्नातः सेव्यते सोऽप्सरोगणैः
MBh 13.26.27
चित्रकूटे जनस्थाने तथा मन्दाकिनीजले
विगाह्य वै निराहारो राजलक्ष्मीं निगच्छति
MBh 13.26.28
श्यामायास्त्वाश्रमं गत्वा उष्य चैवाभिषिच्य च
त्रींस्त्रिरात्रान्स संधाय गन्धर्वनगरे वसेत्
MBh 13.26.29
रमण्यां च उपस्पृश्य तथा वै गन्धतारिके
एकमासं निराहारस्त्वन्तर्धानफलं लभेत्
MBh 13.26.30
कौशिकीद्वारमासाद्य वायुभक्षस्त्वलोलुपः
एकविंशतिरात्रेण स्वर्गमारोहते नरः
MBh 13.26.31
मतङ्गवाप्यां यः स्नायादेकरात्रेण सिध्यति
विगाहति ह्यनालम्बमन्धकं वै सनातनम्
MBh 13.26.32
नैमिषे स्वर्गतीर्थे च उपस्पृश्य जितेन्द्रियः
फलं पुरुषमेधस्य लभेन्मासं कृतोदकः
MBh 13.26.33
गङ्गाह्रद उपस्पृश्य तथा चैवोत्पलावने
अश्वमेधमवाप्नोति तत्र मासं कृतोदकः
MBh 13.26.34
गङ्गायमुनयोस्तीर्थे तथा कालंजरे गिरौ
षष्टिह्रद उपस्पृश्य दानं नान्यद्विशिष्यते
MBh 13.26.35
दश तीर्थसहस्राणि तिस्रः कोट्यस्तथापराः
समागच्छन्ति माघ्यां तु प्रयागे भरतर्षभ
MBh 13.26.36
माघमासं प्रयागे तु नियतः संशितव्रतः
स्नात्वा तु भरतश्रेष्ठ निर्मलः स्वर्गमाप्नुयात्
MBh 13.26.37
मरुद्गण उपस्पृश्य पितॄणामाश्रमे शुचिः
वैवस्वतस्य तीर्थे च तीर्थभूतो भवेन्नरः
MBh 13.26.38
तथा ब्रह्मशिरो गत्वा भागीरथ्यां कृतोदकः
एकमासं निराहारः सोमलोकमवाप्नुयात्
MBh 13.26.39
कपोतके नरः स्नात्वा अष्टावक्रे कृतोदकः
द्वादशाहं निराहारो नरमेधफलं लभेत्
MBh 13.26.40
मुञ्जपृष्ठं गयां चैव निरृतिं देवपर्वतम्
तृतीयां क्रौञ्चपादीं च ब्रह्महत्या विशुध्यति
MBh 13.26.41
कलश्यां वाप्युपस्पृश्य वेद्यां च बहुशोजलाम्
अग्नेः पुरे नरः स्नात्वा विशालायां कृतोदकः
देवह्रद उपस्पृश्य ब्रह्मभूतो विराजते
MBh 13.26.42
पुरापवर्तनं नन्दां महानन्दां च सेव्य वै
नन्दने सेव्यते दान्तस्त्वप्सरोभिरहिंसकः
MBh 13.26.43
उर्वशीकृत्तिकायोगे गत्वा यः सुसमाहितः
लौहित्ये विधिवत्स्नात्वा पुण्डरीकफलं लभेत्
MBh 13.26.44
रामह्रद उपस्पृश्य विशालायां कृतोदकः
द्वादशाहं निराहारः कल्मषाद्विप्रमुच्यते
MBh 13.26.45
महाह्रद उपस्पृश्य शुद्धेन मनसा नरः
एकमासं निराहारो जमदग्निगतिं लभेत्
MBh 13.26.46
विन्ध्ये संताप्य चात्मानं सत्यसंधस्त्वहिंसकः
षण्मासं पदमास्थाय मासेनैकेन शुध्यति
MBh 13.26.47
नर्मदायामुपस्पृश्य तथा सूर्पारकोदके
एकपक्षं निराहारो राजपुत्रो विधीयते
MBh 13.26.48
जम्बूमार्गे त्रिभिर्मासैः संयतः सुसमाहितः
अहोरात्रेण चैकेन सिद्धिं समधिगच्छति
MBh 13.26.49
कोकामुखे विगाह्यापो गत्वा चण्डालिकाश्रमम्
शाकभक्षश्चीरवासाः कुमारीर्विन्दते दश
MBh 13.26.50
वैवस्वतस्य सदनं न स गच्छेत्कदाचन
यस्य कन्याह्रदे वासो देवलोकं स गच्छति
MBh 13.26.51
प्रभासे त्वेकरात्रेण अमावास्यां समाहितः
सिध्यतेऽत्र महाबाहो यो नरो जायते पुनः
MBh 13.26.52
उज्जानक उपस्पृश्य आर्ष्टिषेणस्य चाश्रमे
पिङ्गायाश्चाश्रमे स्नात्वा सर्वपापैः प्रमुच्यते
MBh 13.26.53
कुल्यायां समुपस्पृश्य जप्त्वा चैवाघमर्षणम्
अश्वमेधमवाप्नोति त्रिरात्रोपोषितः शुचिः
MBh 13.26.54
पिण्डारक उपस्पृश्य एकरात्रोषितो नरः
अग्निष्टोममवाप्नोति प्रभातां शर्वरीं शुचिः
MBh 13.26.55
तथा ब्रह्मसरो गत्वा धर्मारण्योपशोभितम्
पुण्डरीकमवाप्नोति प्रभातां शर्वरीं शुचिः
MBh 13.26.56
मैनाके पर्वते स्नात्वा तथा संध्यामुपास्य च
कामं जित्वा च वै मासं सर्वमेधफलं लभेत्
MBh 13.26.57
विख्यातो हिमवान्पुण्यः शंकरश्वशुरो गिरिः
आकरः सर्वरत्नानां सिद्धचारणसेवितः
MBh 13.26.58
शरीरमुत्सृजेत्तत्र विधिपूर्वमनाशके
अध्रुवं जीवितं ज्ञात्वा यो वै वेदान्तगो द्विजः
MBh 13.26.59
अभ्यर्च्य देवतास्तत्र नमस्कृत्य मुनींस्तथा
ततः सिद्धो दिवं गच्छेद्ब्रह्मलोकं सनातनम्
MBh 13.26.60
कामं क्रोधं च लोभं च यो जित्वा तीर्थमावसेत्
न तेन किंचिन्न प्राप्तं तीर्थाभिगमनाद्भवेत्
MBh 13.26.61
यान्यगम्यानि तीर्थानि दुर्गाणि विषमाणि च
मनसा तानि गम्यानि सर्वतीर्थसमासतः
MBh 13.26.62
इदं मेध्यमिदं धन्यमिदं स्वर्ग्यमिदं सुखम्
इदं रहस्यं देवानामाप्लाव्यानां च पावनम्
MBh 13.26.63
इदं दद्याद्द्विजातीनां साधूनामात्मजस्य वा
सुहृदां च जपेत्कर्णे शिष्यस्यानुगतस्य वा
MBh 13.26.64
दत्तवान्गौतमस्येदमङ्गिरा वै महातपाः
गुरुभिः समनुज्ञातः काश्यपेन च धीमता
MBh 13.26.65
महर्षीणामिदं जप्यं पावनानां तथोत्तमम्
जपंश्चाभ्युत्थितः शश्वन्निर्मलः स्वर्गमाप्नुयात्
MBh 13.26.66
इदं यश्चापि शृणुयाद्रहस्यं त्वङ्गिरोमतम्
उत्तमे च कुले जन्म लभेज्जातिं च संस्मरेत्
🪷 The Honest Framing
This chapter belongs to the source-pinned BORI Critical Edition-derived digital witness. Its unique addresses are publicly readable and indexable; this remains a digital-witness claim, not a claim that every Mahābhārata recension agrees word-for-word or that the traditional 100,000-verse extent is represented here.
Navigation
- ← Anuśāsana-Parva chapter-index (154 chapters)
- ← Mahābhārata master-index (all 18 Parvas)
- ← Previous chapter · Anuśāsana-Parva Ch 25
- Next chapter · Anuśāsana-Parva Ch 27 →
Sources and Connected Readings
Continue from these 66 source-pinned Devanāgarī addresses to Anuśāsana-Parva, the Mahābhārata reading map, and any exact Bhagavad-Gītā correspondence.
MBh 13.26local chapter route · Anuśāsana-ParvaAnuśāsana-Parvaparent Parva chapter index/mahabharata18-parva Sanskrit reading index with edition and address notesBhīṣma-ParvaMahābhārata Parva 6 · the Gītā lives in chapters 23-40MBh 6.23Bhagavad-Gītā chapter 1 in its Itihāsa homeMBh 6.40Bhagavad-Gītā chapter 18 in its Itihāsa homeRāmopākhyānaVana-Parva 258 · Vyāsa narrates the Rāma-kathā inside Krishna's epicNārāyaṇīyamŚānti-Parva 335 · Nārāyaṇa/Krishna/Viṣṇu/Vāsudeva unity witness/bhagavad-gitadeep Gītā corpus with translations, commentaries, and verse-level anchorsBG 1.1Dharma-kṣetra opening cross-anchored to MBh 6.23.1BG 18.66Carama-Śloka surrender seal inside the Bhīṣma-Parva arcVyāsa vibhūtiBG 10.37 · Krishna names Vyāsa among munisBG 10.37Vyāsa and Dhanañjaya as Krishna-vibhūti source routeŚB 1.2.11Brahman · Paramātmā · Bhagavān as one advaya-tattvaŚB 1.3.28kṛṣṇas tu bhagavān svayam · Vyāsa corpus source seal/binduDiamond of Darśanas · Itihāsa as one Bindu aperture/philosophyKrishna = Paramaatma = Parabrahman constitutional foundation
🪷 जय व्यास भगवान् 🪷