🪷 Mahābhārata · Anuśāsana-Parva · Chapter 23
The Book of the Final Teaching · Parva 13 · 41 unique Sanskrit addresses · pinned Critical Edition-derived witness
The Devanāgarī Yathārtha · 41 Shlokas
MBh 13.23.1
युधिष्ठिर उवाच
किमाहुर्भरतश्रेष्ठ पात्रं विप्राः सनातनम्
ब्राह्मणं लिङ्गिनं चैव ब्राह्मणं वाप्यलिङ्गिनम्
MBh 13.23.2
भीष्म उवाच
स्ववृत्तिमभिपन्नाय लिङ्गिने वेतराय वा
देयमाहुर्महाराज उभावेतौ तपस्विनौ
MBh 13.23.3
युधिष्ठिर उवाच
श्रद्धया परया पूतो यः प्रयच्छेद्द्विजातये
हव्यं कव्यं तथा दानं को दोषः स्यात्पितामह
MBh 13.23.4
भीष्म उवाच
श्रद्धापूतो नरस्तात दुर्दान्तोऽपि न संशयः
पूतो भवति सर्वत्र किं पुनस्त्वं महीपते
MBh 13.23.5
युधिष्ठिर उवाच
न ब्राह्मणं परीक्षेत दैवेषु सततं नरः
कव्यप्रदाने तु बुधाः परीक्ष्यं ब्राह्मणं विदुः
MBh 13.23.6
भीष्म उवाच
न ब्राह्मणः साधयते हव्यं दैवात्प्रसिध्यति
देवप्रसादादिज्यन्ते यजमाना न संशयः
MBh 13.23.7
ब्राह्मणा भरतश्रेष्ठ सततं ब्रह्मवादिनः
मार्कण्डेयः पुरा प्राह इह लोकेषु बुद्धिमान्
MBh 13.23.8
युधिष्ठिर उवाच
अपूर्वोऽप्यथ वा विद्वान्संबन्धी वाथ यो भवेत्
तपस्वी यज्ञशीलो वा कथं पात्रं भवेत्तु सः
MBh 13.23.9
भीष्म उवाच
कुलीनः कर्मकृद्वैद्यस्तथा चाप्यानृशंस्यवान्
ह्रीमानृजुः सत्यवादी पात्रं पूर्वे च ते त्रयः
MBh 13.23.10
तत्रेदं शृणु मे पार्थ चतुर्णां तेजसां मतम्
पृथिव्याः काश्यपस्याग्नेर्मार्कण्डेयस्य चैव हि
MBh 13.23.11
पृथिव्युवाच
यथा महार्णवे क्षिप्तः क्षिप्रं लोष्टो विनश्यति
तथा दुश्चरितं सर्वं त्रय्यावृत्त्या विनश्यति
MBh 13.23.12
काश्यप उवाच
सर्वे च वेदाः सह षड्भिरङ्गैः; सांख्यं पुराणं च कुले च जन्म
नैतानि सर्वाणि गतिर्भवन्ति; शीलव्यपेतस्य नरस्य राजन्
MBh 13.23.13
अग्निरुवाच
अधीयानः पण्डितं मन्यमानो; यो विद्यया हन्ति यशः परेषाम्
ब्रह्मन्स तेनाचरते ब्रह्महत्यां; लोकास्तस्य ह्यन्तवन्तो भवन्ति
MBh 13.23.14
मार्कण्डेय उवाच
अश्वमेधसहस्रं च सत्यं च तुलया धृतम्
नाभिजानामि यद्यस्य सत्यस्यार्धमवाप्नुयात्
MBh 13.23.15
भीष्म उवाच
इत्युक्त्वा ते जग्मुराशु चत्वारोऽमिततेजसः
पृथिवी काश्यपोऽग्निश्च प्रकृष्टायुश्च भार्गवः
MBh 13.23.16
युधिष्ठिर उवाच
यदिदं ब्राह्मणा लोके व्रतिनो भुञ्जते हविः
भुक्तं ब्राह्मणकामाय कथं तत्सुकृतं भवेत्
MBh 13.23.17
भीष्म उवाच
आदिष्टिनो ये राजेन्द्र ब्राह्मणा वेदपारगाः
भुञ्जते ब्रह्मकामाय व्रतलुप्ता भवन्ति ते
MBh 13.23.18
युधिष्ठिर उवाच
अनेकान्तं बहुद्वारं धर्ममाहुर्मनीषिणः
किं निश्चितं भवेत्तत्र तन्मे ब्रूहि पितामह
MBh 13.23.19
भीष्म उवाच
अहिंसा सत्यमक्रोध आनृशंस्यं दमस्तथा
आर्जवं चैव राजेन्द्र निश्चितं धर्मलक्षणम्
MBh 13.23.20
ये तु धर्मं प्रशंसन्तश्चरन्ति पृथिवीमिमाम्
अनाचरन्तस्तद्धर्मं संकरे निरताः प्रभो
MBh 13.23.21
तेभ्यो रत्नं हिरण्यं वा गामश्वान्वा ददाति यः
दश वर्षाणि विष्ठां स भुङ्क्ते निरयमाश्रितः
MBh 13.23.22
मेदानां पुल्कसानां च तथैवान्तावसायिनाम्
कृतं कर्माकृतं चापि रागमोहेन जल्पताम्
MBh 13.23.23
वैश्वदेवं च ये मूढा विप्राय ब्रह्मचारिणे
ददतीह न राजेन्द्र ते लोकान्भुञ्जतेऽशुभान्
MBh 13.23.24
युधिष्ठिर उवाच
किं परं ब्रह्मचर्यस्य किं परं धर्मलक्षणम्
किं च श्रेष्ठतमं शौचं तन्मे ब्रूहि पितामह
MBh 13.23.25
भीष्म उवाच
ब्रह्मचर्यं परं तात मधुमांसस्य वर्जनम्
मर्यादायां स्थितो धर्मः शमः शौचस्य लक्षणम्
MBh 13.23.26
युधिष्ठिर उवाच
कस्मिन्काले चरेद्धर्मं कस्मिन्कालेऽर्थमाचरेत्
कस्मिन्काले सुखी च स्यात्तन्मे ब्रूहि पितामह
MBh 13.23.27
भीष्म उवाच
काल्यमर्थं निषेवेत ततो धर्ममनन्तरम्
पश्चात्कामं निषेवेत न च गच्छेत्प्रसङ्गिताम्
MBh 13.23.28
ब्राह्मणांश्चाभिमन्येत गुरूंश्चाप्यभिपूजयेत्
सर्वभूतानुलोमश्च मृदुशीलः प्रियंवदः
MBh 13.23.29
अधिकारे यदनृतं राजगामि च पैशुनम्
गुरोश्चालीककरणं समं तद्ब्रह्महत्यया
MBh 13.23.30
प्रहरेन्न नरेन्द्रेषु न गां हन्यात्तथैव च
भ्रूणहत्यासमं चैतदुभयं यो निषेवते
MBh 13.23.31
नाग्निं परित्यजेज्जातु न च वेदान्परित्यजेत्
न च ब्राह्मणमाक्रोशेत्समं तद्ब्रह्महत्यया
MBh 13.23.32
युधिष्ठिर उवाच
कीदृशाः साधवो विप्राः केभ्यो दत्तं महाफलम्
कीदृशानां च भोक्तव्यं तन्मे ब्रूहि पितामह
MBh 13.23.33
भीष्म उवाच
अक्रोधना धर्मपराः सत्यनित्या दमे रताः
तादृशाः साधवो विप्रास्तेभ्यो दत्तं महाफलम्
MBh 13.23.34
अमानिनः सर्वसहा दृष्टार्था विजितेन्द्रियाः
सर्वभूतहिता मैत्रास्तेभ्यो दत्तं महाफलम्
MBh 13.23.35
अलुब्धाः शुचयो वैद्या ह्रीमन्तः सत्यवादिनः
स्वकर्मनिरता ये च तेभ्यो दत्तं महाफलम्
MBh 13.23.36
साङ्गांश्च चतुरो वेदान्योऽधीयीत द्विजर्षभः
षड्भ्यो निवृत्तः कर्मभ्यस्तं पात्रमृषयो विदुः
MBh 13.23.37
ये त्वेवंगुणजातीयास्तेभ्यो दत्तं महाफलम्
सहस्रगुणमाप्नोति गुणार्हाय प्रदायकः
MBh 13.23.38
प्रज्ञाश्रुताभ्यां वृत्तेन शीलेन च समन्वितः
तारयेत कुलं कृत्स्नमेकोऽपीह द्विजर्षभः
MBh 13.23.39
गामश्वं वित्तमन्नं वा तद्विधे प्रतिपादयेत्
द्रव्याणि चान्यानि तथा प्रेत्यभावे न शोचति
MBh 13.23.40
तारयेत कुलं कृत्स्नमेकोऽपीह द्विजोत्तमः
किमङ्ग पुनरेकं वै तस्मात्पात्रं समाचरेत्
MBh 13.23.41
निशम्य च गुणोपेतं ब्राह्मणं साधुसंमतम्
दूरादानाययेत्कृत्ये सर्वतश्चाभिपूजयेत्
🪷 The Honest Framing
This chapter belongs to the source-pinned BORI Critical Edition-derived digital witness. Its unique addresses are publicly readable and indexable; this remains a digital-witness claim, not a claim that every Mahābhārata recension agrees word-for-word or that the traditional 100,000-verse extent is represented here.
Navigation
- ← Anuśāsana-Parva chapter-index (154 chapters)
- ← Mahābhārata master-index (all 18 Parvas)
- ← Previous chapter · Anuśāsana-Parva Ch 22
- Next chapter · Anuśāsana-Parva Ch 24 →
Sources and Connected Readings
Continue from these 41 source-pinned Devanāgarī addresses to Anuśāsana-Parva, the Mahābhārata reading map, and any exact Bhagavad-Gītā correspondence.
MBh 13.23local chapter route · Anuśāsana-ParvaAnuśāsana-Parvaparent Parva chapter index/mahabharata18-parva Sanskrit reading index with edition and address notesBhīṣma-ParvaMahābhārata Parva 6 · the Gītā lives in chapters 23-40MBh 6.23Bhagavad-Gītā chapter 1 in its Itihāsa homeMBh 6.40Bhagavad-Gītā chapter 18 in its Itihāsa homeRāmopākhyānaVana-Parva 258 · Vyāsa narrates the Rāma-kathā inside Krishna's epicNārāyaṇīyamŚānti-Parva 335 · Nārāyaṇa/Krishna/Viṣṇu/Vāsudeva unity witness/bhagavad-gitadeep Gītā corpus with translations, commentaries, and verse-level anchorsBG 1.1Dharma-kṣetra opening cross-anchored to MBh 6.23.1BG 18.66Carama-Śloka surrender seal inside the Bhīṣma-Parva arcVyāsa vibhūtiBG 10.37 · Krishna names Vyāsa among munisBG 10.37Vyāsa and Dhanañjaya as Krishna-vibhūti source routeŚB 1.2.11Brahman · Paramātmā · Bhagavān as one advaya-tattvaŚB 1.3.28kṛṣṇas tu bhagavān svayam · Vyāsa corpus source seal/binduDiamond of Darśanas · Itihāsa as one Bindu aperture/philosophyKrishna = Paramaatma = Parabrahman constitutional foundation
🪷 जय व्यास भगवान् 🪷