🪷 Mahābhārata · Anuśāsana-Parva · Chapter 22

The Book of the Final Teaching · Parva 13 · 19 unique Sanskrit addresses · pinned Critical Edition-derived witness

The Devanāgarī Yathārtha · 19 Shlokas

MBh 13.22.1
युधिष्ठिर उवाच न बिभेति कथं सा स्त्री शापस्य परमद्युतेः कथं निवृत्तो भगवांस्तद्भवान्प्रब्रवीतु मे
MBh 13.22.2
भीष्म उवाच अष्टावक्रोऽन्वपृच्छत्तां रूपं विकुरुषे कथम् न चानृतं ते वक्तव्यं ब्रूहि ब्राह्मणकाम्यया
MBh 13.22.3
स्त्र्युवाच द्यावापृथिवीमात्रैषा काम्या ब्राह्मणसत्तम शृणुष्वावहितः सर्वं यदिदं सत्यविक्रम
MBh 13.22.4
उत्तरां मां दिशं विद्धि दृष्टं स्त्रीचापलं च ते अव्युत्थानेन ते लोका जिताः सत्यपराक्रम
MBh 13.22.5
जिज्ञासेयं प्रयुक्ता मे स्थिरीकर्तुं तवानघ स्थविराणामपि स्त्रीणां बाधते मैथुनज्वरः
MBh 13.22.6
तुष्टः पितामहस्तेऽद्य तथा देवाः सवासवाः स त्वं येन च कार्येण संप्राप्तो भगवानिह
MBh 13.22.7
प्रेषितस्तेन विप्रेण कन्यापित्रा द्विजर्षभ तवोपदेशं कर्तुं वै तच्च सर्वं कृतं मया
MBh 13.22.8
क्षेमी गमिष्यसि गृहाञ्श्रमश्च न भविष्यति कन्यां प्राप्स्यसि तां विप्र पुत्रिणी च भविष्यति
MBh 13.22.9
काम्यया पृष्टवांस्त्वं मां ततो व्याहृतमुत्तरम् अनतिक्रमणीयैषा कृत्स्नैर्लोकैस्त्रिभिः सदा
MBh 13.22.10
गच्छस्व सुकृतं कृत्वा किं वान्यच्छ्रोतुमिच्छसि यावद्ब्रवीमि विप्रर्षे अष्टावक्र यथातथम्
MBh 13.22.11
ऋषिणा प्रसादिता चास्मि तव हेतोर्द्विजर्षभ तस्य संमाननार्थं मे त्वयि वाक्यं प्रभाषितम्
MBh 13.22.12
श्रुत्वा तु वचनं तस्याः स विप्रः प्राञ्जलिः स्थितः अनुज्ञातस्तया चापि स्वगृहं पुनराव्रजत्
MBh 13.22.13
गृहमागम्य विश्रान्तः स्वजनं प्रतिपूज्य च अभ्यगच्छत तं विप्रं न्यायतः कुरुनन्दन
MBh 13.22.14
पृष्टश्च तेन विप्रेण दृष्टं त्वेतन्निदर्शनम् प्राह विप्रं तदा विप्रः सुप्रीतेनान्तरात्मना
MBh 13.22.15
भवताहमनुज्ञातः प्रस्थितो गन्धमादनम् तस्य चोत्तरतो देशे दृष्टं तद्दैवतं महत्
MBh 13.22.16
तया चाहमनुज्ञातो भवांश्चापि प्रकीर्तितः श्रावितश्चापि तद्वाक्यं गृहमभ्यागतः प्रभो
MBh 13.22.17
तमुवाच ततो विप्रः प्रतिगृह्णीष्व मे सुताम् नक्षत्रतिथिसंयोगे पात्रं हि परमं भवान्
MBh 13.22.18
भीष्म उवाच अष्टावक्रस्तथेत्युक्त्वा प्रतिगृह्य च तां प्रभो कन्यां परमधर्मात्मा प्रीतिमांश्चाभवत्तदा
MBh 13.22.19
कन्यां तां प्रतिगृह्यैव भार्यां परमशोभनाम् उवास मुदितस्तत्र आश्रमे स्वे गतज्वरः

🪷 The Honest Framing

This chapter belongs to the source-pinned BORI Critical Edition-derived digital witness. Its unique addresses are publicly readable and indexable; this remains a digital-witness claim, not a claim that every Mahābhārata recension agrees word-for-word or that the traditional 100,000-verse extent is represented here.

Navigation

Sources and Connected Readings

Continue from these 19 source-pinned Devanāgarī addresses to Anuśāsana-Parva, the Mahābhārata reading map, and any exact Bhagavad-Gītā correspondence.

MBh 13.22local chapter route · Anuśāsana-ParvaAnuśāsana-Parvaparent Parva chapter index/mahabharata18-parva Sanskrit reading index with edition and address notesBhīṣma-ParvaMahābhārata Parva 6 · the Gītā lives in chapters 23-40MBh 6.23Bhagavad-Gītā chapter 1 in its Itihāsa homeMBh 6.40Bhagavad-Gītā chapter 18 in its Itihāsa homeRāmopākhyānaVana-Parva 258 · Vyāsa narrates the Rāma-kathā inside Krishna's epicNārāyaṇīyamŚānti-Parva 335 · Nārāyaṇa/Krishna/Viṣṇu/Vāsudeva unity witness/bhagavad-gitadeep Gītā corpus with translations, commentaries, and verse-level anchorsBG 1.1Dharma-kṣetra opening cross-anchored to MBh 6.23.1BG 18.66Carama-Śloka surrender seal inside the Bhīṣma-Parva arcVyāsa vibhūtiBG 10.37 · Krishna names Vyāsa among munisBG 10.37Vyāsa and Dhanañjaya as Krishna-vibhūti source routeŚB 1.2.11Brahman · Paramātmā · Bhagavān as one advaya-tattvaŚB 1.3.28kṛṣṇas tu bhagavān svayam · Vyāsa corpus source seal/binduDiamond of Darśanas · Itihāsa as one Bindu aperture/philosophyKrishna = Paramaatma = Parabrahman constitutional foundation

🪷 जय व्यास भगवान् 🪷