🪷 Mahābhārata · Anuśāsana-Parva · Chapter 24

The Book of the Final Teaching · Parva 13 · 101 unique Sanskrit addresses · pinned Critical Edition-derived witness

The Devanāgarī Yathārtha · 101 Shlokas

MBh 13.24.1
युधिष्ठिर उवाच श्राद्धकाले च दैवे च धर्मे चापि पितामह इच्छामीह त्वयाख्यातं विहितं यत्सुरर्षिभिः
MBh 13.24.2
भीष्म उवाच दैवं पूर्वाह्णिके कुर्यादपराह्णे तु पैतृकम् मङ्गलाचारसंपन्नः कृतशौचः प्रयत्नवान्
MBh 13.24.3
मनुष्याणां तु मध्याह्ने प्रदद्यादुपपत्तितः कालहीनं तु यद्दानं तं भागं रक्षसां विदुः
MBh 13.24.4
लङ्घितं चावलीढं च कलिपूर्वं च यत्कृतम् रजस्वलाभिर्दृष्टं च तं भागं रक्षसां विदुः
MBh 13.24.5
अवघुष्टं च यद्भुक्तमव्रतेन च भारत परामृष्टं शुना चैव तं भागं रक्षसां विदुः
MBh 13.24.6
केशकीटावपतितं क्षुतं श्वभिरवेक्षितम् रुदितं चावधूतं च तं भागं रक्षसां विदुः
MBh 13.24.7
निरोंकारेण यद्भुक्तं सशस्त्रेण च भारत दुरात्मना च यद्भुक्तं तं भागं रक्षसां विदुः
MBh 13.24.8
परोच्छिष्टं च यद्भुक्तं परिभुक्तं च यद्भवेत् दैवे पित्र्ये च सततं तं भागं रक्षसां विदुः
MBh 13.24.9
गर्हितं निन्दितं चैव परिविष्टं समन्युना दैवं वाप्यथ वा पैत्र्यं तं भागं रक्षसां विदुः
MBh 13.24.10
मन्त्रहीनं क्रियाहीनं यच्छ्राद्धं परिविष्यते त्रिभिर्वर्णैर्नरश्रेष्ठ तं भागं रक्षसां विदुः
MBh 13.24.11
आज्याहुतिं विना चैव यत्किंचित्परिविष्यते दुराचारैश्च यद्भुक्तं तं भागं रक्षसां विदुः
MBh 13.24.12
ये भागा रक्षसां प्रोक्तास्त उक्ता भरतर्षभ अत ऊर्ध्वं विसर्गस्य परीक्षां ब्राह्मणे शृणु
MBh 13.24.13
यावन्तः पतिता विप्रा जडोन्मत्तास्तथैव च दैवे वाप्यथ वा पित्र्ये राजन्नार्हन्ति केतनम्
MBh 13.24.14
श्वित्री कुष्ठी च क्लीबश्च तथा यक्ष्महतश्च यः अपस्मारी च यश्चान्धो राजन्नार्हन्ति सत्कृतिम्
MBh 13.24.15
चिकित्सका देवलका वृथानियमधारिणः सोमविक्रयिणश्चैव श्राद्धे नार्हन्ति केतनम्
MBh 13.24.16
गायना नर्तकाश्चैव प्लवका वादकास्तथा कथका योधकाश्चैव राजन्नार्हन्ति केतनम्
MBh 13.24.17
होतारो वृषलानां च वृषलाध्यापकास्तथा तथा वृषलशिष्याश्च राजन्नार्हन्ति केतनम्
MBh 13.24.18
अनुयोक्ता च यो विप्रो अनुयुक्तश्च भारत नार्हतस्तावपि श्राद्धं ब्रह्मविक्रयिणौ हि तौ
MBh 13.24.19
अग्रणीर्यः कृतः पूर्वं वर्णावरपरिग्रहः ब्राह्मणः सर्वविद्योऽपि राजन्नार्हति केतनम्
MBh 13.24.20
अनग्नयश्च ये विप्रा मृतनिर्यातकाश्च ये स्तेनाश्च पतिताश्चैव राजन्नार्हन्ति केतनम्
MBh 13.24.21
अपरिज्ञातपूर्वाश्च गणपूर्वाश्च भारत पुत्रिकापूर्वपुत्राश्च श्राद्धे नार्हन्ति केतनम्
MBh 13.24.22
ऋणकर्ता च यो राजन्यश्च वार्धुषिको द्विजः प्राणिविक्रयवृत्तिश्च राजन्नार्हन्ति केतनम्
MBh 13.24.23
स्त्रीपूर्वाः काण्डपृष्ठाश्च यावन्तो भरतर्षभ अजपा ब्राह्मणाश्चैव श्राद्धे नार्हन्ति केतनम्
MBh 13.24.24
श्राद्धे दैवे च निर्दिष्टा ब्राह्मणा भरतर्षभ दातुः प्रतिग्रहीतुश्च शृणुष्वानुग्रहं पुनः
MBh 13.24.25
चीर्णव्रता गुणैर्युक्ता भवेयुर्येऽपि कर्षकाः सावित्रीज्ञाः क्रियावन्तस्ते राजन्केतनक्षमाः
MBh 13.24.26
क्षात्रधर्मिणमप्याजौ केतयेत्कुलजं द्विजम् न त्वेव वणिजं तात श्राद्धेषु परिकल्पयेत्
MBh 13.24.27
अग्निहोत्री च यो विप्रो ग्रामवासी च यो भवेत् अस्तेनश्चातिथिज्ञश्च स राजन्केतनक्षमः
MBh 13.24.28
सावित्रीं जपते यस्तु त्रिकालं भरतर्षभ भिक्षावृत्तिः क्रियावांश्च स राजन्केतनक्षमः
MBh 13.24.29
उदितास्तमितो यश्च तथैवास्तमितोदितः अहिंस्रश्चाल्पदोषश्च स राजन्केतनक्षमः
MBh 13.24.30
अकल्कको ह्यतर्कश्च ब्राह्मणो भरतर्षभ ससंज्ञो भैक्ष्यवृत्तिश्च स राजन्केतनक्षमः
MBh 13.24.31
अव्रती कितवः स्तेनः प्राणिविक्रय्यथो वणिक् पश्चाच्च पीतवान्सोमं स राजन्केतनक्षमः
MBh 13.24.32
अर्जयित्वा धनं पूर्वं दारुणैः कृषिकर्मभिः भवेत्सर्वातिथिः पश्चात्स राजन्केतनक्षमः
MBh 13.24.33
ब्रह्मविक्रयनिर्दिष्टं स्त्रिया यच्चार्जितं धनम् अदेयं पितृदेवेभ्यो यच्च क्लैब्यादुपार्जितम्
MBh 13.24.34
क्रियमाणेऽपवर्गे तु यो द्विजो भरतर्षभ न व्याहरति यद्युक्तं तस्याधर्मो गवानृतम्
MBh 13.24.35
श्राद्धस्य ब्राह्मणः कालः प्राप्तं दधि घृतं तथा सोमक्षयश्च मांसं च यदारण्यं युधिष्ठिर
MBh 13.24.36
श्राद्धापवर्गे विप्रस्य स्वधा वै स्वदिता भवेत् क्षत्रियस्याप्यथो ब्रूयात्प्रीयन्तां पितरस्त्विति
MBh 13.24.37
अपवर्गे तु वैश्यस्य श्राद्धकर्मणि भारत अक्षय्यमभिधातव्यं स्वस्ति शूद्रस्य भारत
MBh 13.24.38
पुण्याहवाचनं दैवे ब्राह्मणस्य विधीयते एतदेव निरोंकारं क्षत्रियस्य विधीयते वैश्यस्य चैव वक्तव्यं प्रीयन्तां देवता इति
MBh 13.24.39
कर्मणामानुपूर्वीं च विधिपूर्वकृतं शृणु जातकर्मादिकान्सर्वांस्त्रिषु वर्णेषु भारत ब्रह्मक्षत्रे हि मन्त्रोक्ता वैश्यस्य च युधिष्ठिर
MBh 13.24.40
विप्रस्य रशना मौञ्जी मौर्वी राजन्यगामिनी बाल्वजीत्येव वैश्यस्य धर्म एष युधिष्ठिर
MBh 13.24.41
दातुः प्रतिग्रहीतुश्च धर्माधर्माविमौ शृणु ब्राह्मणस्यानृतेऽधर्मः प्रोक्तः पातकसंज्ञितः चतुर्गुणः क्षत्रियस्य वैश्यस्याष्टगुणः स्मृतः
MBh 13.24.42
नान्यत्र ब्राह्मणोऽश्नीयात्पूर्वं विप्रेण केतितः यवीयान्पशुहिंसायां तुल्यधर्मो भवेत्स हि
MBh 13.24.43
अथ राजन्यवैश्याभ्यां यद्यश्नीयात्तु केतितः यवीयान्पशुहिंसायां भागार्धं समवाप्नुयात्
MBh 13.24.44
दैवं वाप्यथ वा पित्र्यं योऽश्नीयाद्ब्राह्मणादिषु अस्नातो ब्राह्मणो राजंस्तस्याधर्मो गवानृतम्
MBh 13.24.45
आशौचो ब्राह्मणो राजन्योऽश्नीयाद्ब्राह्मणादिषु ज्ञानपूर्वमथो लोभात्तस्याधर्मो गवानृतम्
MBh 13.24.46
अन्नेनान्नं च यो लिप्सेत्कर्मार्थं चैव भारत आमन्त्रयति राजेन्द्र तस्याधर्मोऽनृतं स्मृतम्
MBh 13.24.47
अवेदव्रतचारित्रास्त्रिभिर्वर्णैर्युधिष्ठिर मन्त्रवत्परिविष्यन्ते तेष्वधर्मो गवानृतम्
MBh 13.24.48
युधिष्ठिर उवाच पित्र्यं वाप्यथ वा दैवं दीयते यत्पितामह एतदिच्छाम्यहं श्रोतुं दत्तं येषु महाफलम्
MBh 13.24.49
भीष्म उवाच येषां दाराः प्रतीक्षन्ते सुवृष्टिमिव कर्षकाः उच्छेषपरिशेषं हि तान्भोजय युधिष्ठिर
MBh 13.24.50
चारित्रनियता राजन्ये कृशाः कृशवृत्तयः अर्थिनश्चोपगच्छन्ति तेषु दत्तं महाफलम्
MBh 13.24.51
तद्भक्तास्तद्गृहा राजंस्तद्धनास्तदपाश्रयाः अर्थिनश्च भवन्त्यर्थे तेषु दत्तं महाफलम्
MBh 13.24.52
तस्करेभ्यः परेभ्यो वा ये भयार्ता युधिष्ठिर अर्थिनो भोक्तुमिच्छन्ति तेषु दत्तं महाफलम्
MBh 13.24.53
अकल्ककस्य विप्रस्य भैक्षोत्करकृतात्मनः बटवो यस्य भिक्षन्ति तेभ्यो दत्तं महाफलम्
MBh 13.24.54
हृतस्वा हृतदाराश्च ये विप्रा देशसंप्लवे अर्थार्थमभिगच्छन्ति तेभ्यो दत्तं महाफलम्
MBh 13.24.55
व्रतिनो नियमस्थाश्च ये विप्राः श्रुतसंमताः तत्समाप्त्यर्थमिच्छन्ति तेषु दत्तं महाफलम्
MBh 13.24.56
अव्युत्क्रान्ताश्च धर्मेषु पाषण्डसमयेषु च कृशप्राणाः कृशधनास्तेषु दत्तं महाफलम्
MBh 13.24.57
कृतसर्वस्वहरणा निर्दोषाः प्रभविष्णुभिः स्पृहयन्ति च भुक्तान्नं तेषु दत्तं महाफलम्
MBh 13.24.58
तपस्विनस्तपोनिष्ठास्तेषां भैक्षचराश्च ये अर्थिनः किंचिदिच्छन्ति तेषु दत्तं महाफलम्
MBh 13.24.59
महाफलविधिर्दाने श्रुतस्ते भरतर्षभ निरयं येन गच्छन्ति स्वर्गं चैव हि तच्छृणु
MBh 13.24.60
गुर्वर्थं वाभयार्थं वा वर्जयित्वा युधिष्ठिर येऽनृतं कथयन्ति स्म ते वै निरयगामिनः
MBh 13.24.61
परदाराभिहर्तारः परदाराभिमर्शिनः परदारप्रयोक्तारस्ते वै निरयगामिनः
MBh 13.24.62
ये परस्वापहर्तारः परस्वानां च नाशकाः सूचकाश्च परेषां ये ते वै निरयगामिनः
MBh 13.24.63
प्रपाणां च सभानां च संक्रमाणां च भारत अगाराणां च भेत्तारो नरा निरयगामिनः
MBh 13.24.64
अनाथां प्रमदां बालां वृद्धां भीतां तपस्विनीम् वञ्चयन्ति नरा ये च ते वै निरयगामिनः
MBh 13.24.65
वृत्तिच्छेदं गृहच्छेदं दारच्छेदं च भारत मित्रच्छेदं तथाशायास्ते वै निरयगामिनः
MBh 13.24.66
सूचकाः संधिभेत्तारः परवृत्त्युपजीवकाः अकृतज्ञाश्च मित्राणां ते वै निरयगामिनः
MBh 13.24.67
पाषण्डा दूषकाश्चैव समयानां च दूषकाः ये प्रत्यवसिताश्चैव ते वै निरयगामिनः
MBh 13.24.68
कृताशं कृतनिर्वेशं कृतभक्तं कृतश्रमम् भेदैर्ये व्यपकर्षन्ति ते वै निरयगामिनः
MBh 13.24.69
पर्यश्नन्ति च ये दारानग्निभृत्यातिथींस्तथा उत्सन्नपितृदेवेज्यास्ते वै निरयगामिनः
MBh 13.24.70
वेदविक्रयिणश्चैव वेदानां चैव दूषकाः वेदानां लेखकाश्चैव ते वै निरयगामिनः
MBh 13.24.71
चातुराश्रम्यबाह्याश्च श्रुतिबाह्याश्च ये नराः विकर्मभिश्च जीवन्ति ते वै निरयगामिनः
MBh 13.24.72
केशविक्रयिका राजन्विषविक्रयिकाश्च ये क्षीरविक्रयिकाश्चैव ते वै निरयगामिनः
MBh 13.24.73
ब्राह्मणानां गवां चैव कन्यानां च युधिष्ठिर येऽन्तरं यान्ति कार्येषु ते वै निरयगामिनः
MBh 13.24.74
शस्त्रविक्रयकाश्चैव कर्तारश्च युधिष्ठिर शल्यानां धनुषां चैव ते वै निरयगामिनः
MBh 13.24.75
शल्यैर्वा शङ्कुभिर्वापि श्वभ्रैर्वा भरतर्षभ ये मार्गमनुरुन्धन्ति ते वै निरयगामिनः
MBh 13.24.76
उपाध्यायांश्च भृत्यांश्च भक्तांश्च भरतर्षभ ये त्यजन्त्यसमर्थांस्तांस्ते वै निरयगामिनः
MBh 13.24.77
अप्राप्तदमकाश्चैव नासानां वेधकास्तथा बन्धकाश्च पशूनां ये ते वै निरयगामिनः
MBh 13.24.78
अगोप्तारश्छलद्रव्या बलिषड्भागतत्पराः समर्थाश्चाप्यदातारस्ते वै निरयगामिनः
MBh 13.24.79
क्षान्तान्दान्तांस्तथा प्राज्ञान्दीर्घकालं सहोषितान् त्यजन्ति कृतकृत्या ये ते वै निरयगामिनः
MBh 13.24.80
बालानामथ वृद्धानां दासानां चैव ये नराः अदत्त्वा भक्षयन्त्यग्रे ते वै निरयगामिनः
MBh 13.24.81
एते पूर्वर्षिभिर्दृष्टाः प्रोक्ता निरयगामिनः भागिनः स्वर्गलोकस्य वक्ष्यामि भरतर्षभ
MBh 13.24.82
सर्वेष्वेव तु कार्येषु दैवपूर्वेषु भारत हन्ति पुत्रान्पशून्कृत्स्नान्ब्राह्मणातिक्रमः कृतः
MBh 13.24.83
दानेन तपसा चैव सत्येन च युधिष्ठिर ये धर्ममनुवर्तन्ते ते नराः स्वर्गगामिनः
MBh 13.24.84
शुश्रूषाभिस्तपोभिश्च श्रुतमादाय भारत ये प्रतिग्रहनिःस्नेहास्ते नराः स्वर्गगामिनः
MBh 13.24.85
भयात्पापात्तथाबाधाद्दारिद्र्याद्व्याधिधर्षणात् यत्कृते प्रतिमुच्यन्ते ते नराः स्वर्गगामिनः
MBh 13.24.86
क्षमावन्तश्च धीराश्च धर्मकार्येषु चोत्थिताः मङ्गलाचारयुक्ताश्च ते नराः स्वर्गगामिनः
MBh 13.24.87
निवृत्ता मधुमांसेभ्यः परदारेभ्य एव च निवृत्ताश्चैव मद्येभ्यस्ते नराः स्वर्गगामिनः
MBh 13.24.88
आश्रमाणां च कर्तारः कुलानां चैव भारत देशानां नगराणां च ते नराः स्वर्गगामिनः
MBh 13.24.89
वस्त्राभरणदातारो भक्षपानान्नदास्तथा कुटुम्बानां च दातारस्ते नराः स्वर्गगामिनः
MBh 13.24.90
सर्वहिंसानिवृत्ताश्च नराः सर्वसहाश्च ये सर्वस्याश्रयभूताश्च ते नराः स्वर्गगामिनः
MBh 13.24.91
मातरं पितरं चैव शुश्रूषन्ति जितेन्द्रियाः भ्रातॄणां चैव सस्नेहास्ते नराः स्वर्गगामिनः
MBh 13.24.92
आढ्याश्च बलवन्तश्च यौवनस्थाश्च भारत ये वै जितेन्द्रिया धीरास्ते नराः स्वर्गगामिनः
MBh 13.24.93
अपराद्धेषु सस्नेहा मृदवो मित्रवत्सलाः आराधनसुखाश्चापि ते नराः स्वर्गगामिनः
MBh 13.24.94
सहस्रपरिवेष्टारस्तथैव च सहस्रदाः त्रातारश्च सहस्राणां पुरुषाः स्वर्गगामिनः
MBh 13.24.95
सुवर्णस्य च दातारो गवां च भरतर्षभ यानानां वाहनानां च ते नराः स्वर्गगामिनः
MBh 13.24.96
वैवाहिकानां कन्यानां प्रेष्याणां च युधिष्ठिर दातारो वाससां चैव ते नराः स्वर्गगामिनः
MBh 13.24.97
विहारावसथोद्यानकूपारामसभाप्रदाः वप्राणां चैव कर्तारस्ते नराः स्वर्गगामिनः
MBh 13.24.98
निवेशनानां क्षेत्राणां वसतीनां च भारत दातारः प्रार्थितानां च ते नराः स्वर्गगामिनः
MBh 13.24.99
रसानामथ बीजानां धान्यानां च युधिष्ठिर स्वयमुत्पाद्य दातारः पुरुषाः स्वर्गगामिनः
MBh 13.24.100
यस्मिन्कस्मिन्कुले जाता बहुपुत्राः शतायुषः सानुक्रोशा जितक्रोधाः पुरुषाः स्वर्गगामिनः
MBh 13.24.101
एतदुक्तममुत्रार्थं दैवं पित्र्यं च भारत धर्माधर्मौ च दानस्य यथा पूर्वर्षिभिः कृतौ

🪷 The Honest Framing

This chapter belongs to the source-pinned BORI Critical Edition-derived digital witness. Its unique addresses are publicly readable and indexable; this remains a digital-witness claim, not a claim that every Mahābhārata recension agrees word-for-word or that the traditional 100,000-verse extent is represented here.

Navigation

Sources and Connected Readings

Continue from these 101 source-pinned Devanāgarī addresses to Anuśāsana-Parva, the Mahābhārata reading map, and any exact Bhagavad-Gītā correspondence.

MBh 13.24local chapter route · Anuśāsana-ParvaAnuśāsana-Parvaparent Parva chapter index/mahabharata18-parva Sanskrit reading index with edition and address notesBhīṣma-ParvaMahābhārata Parva 6 · the Gītā lives in chapters 23-40MBh 6.23Bhagavad-Gītā chapter 1 in its Itihāsa homeMBh 6.40Bhagavad-Gītā chapter 18 in its Itihāsa homeRāmopākhyānaVana-Parva 258 · Vyāsa narrates the Rāma-kathā inside Krishna's epicNārāyaṇīyamŚānti-Parva 335 · Nārāyaṇa/Krishna/Viṣṇu/Vāsudeva unity witness/bhagavad-gitadeep Gītā corpus with translations, commentaries, and verse-level anchorsBG 1.1Dharma-kṣetra opening cross-anchored to MBh 6.23.1BG 18.66Carama-Śloka surrender seal inside the Bhīṣma-Parva arcVyāsa vibhūtiBG 10.37 · Krishna names Vyāsa among munisBG 10.37Vyāsa and Dhanañjaya as Krishna-vibhūti source routeŚB 1.2.11Brahman · Paramātmā · Bhagavān as one advaya-tattvaŚB 1.3.28kṛṣṇas tu bhagavān svayam · Vyāsa corpus source seal/binduDiamond of Darśanas · Itihāsa as one Bindu aperture/philosophyKrishna = Paramaatma = Parabrahman constitutional foundation

🪷 जय व्यास भगवान् 🪷