🪷 Mahābhārata · Anuśāsana-Parva · Chapter 19
The Book of the Final Teaching · Parva 13 · 25 unique Sanskrit addresses · pinned Critical Edition-derived witness
The Devanāgarī Yathārtha · 25 Shlokas
MBh 13.19.1
युधिष्ठिर उवाच
यदिदं सहधर्मेति प्रोच्यते भरतर्षभ
पाणिग्रहणकाले तु स्त्रीणामेतत्कथं स्मृतम्
MBh 13.19.2
आर्ष एष भवेद्धर्मः प्राजापत्योऽथ वासुरः
यदेतत्सहधर्मेति पूर्वमुक्तं महर्षिभिः
MBh 13.19.3
संदेहः सुमहानेष विरुद्ध इति मे मतिः
इह यः सहधर्मो वै प्रेत्यायं विहितः क्व नु
MBh 13.19.4
स्वर्गे मृतानां भवति सहधर्मः पितामह
पूर्वमेकस्तु म्रियते क्व चैकस्तिष्ठते वद
MBh 13.19.5
नानाकर्मफलोपेता नानाकर्मनिवासिनः
नानानिरयनिष्ठान्ता मानुषा बहवो यदा
MBh 13.19.6
अनृताः स्त्रिय इत्येवं सूत्रकारो व्यवस्यति
यदानृताः स्त्रियस्तात सहधर्मः कुतः स्मृतः
MBh 13.19.7
अनृताः स्त्रिय इत्येवं वेदेष्वपि हि पठ्यते
धर्मोऽयं पौर्विकी संज्ञा उपचारः क्रियाविधिः
MBh 13.19.8
गह्वरं प्रतिभात्येतन्मम चिन्तयतोऽनिशम्
निःसंदेहमिदं सर्वं पितामह यथा श्रुतिः
MBh 13.19.9
यदेतद्यादृशं चैतद्यथा चैतत्प्रवर्तितम्
निखिलेन महाप्राज्ञ भवानेतद्ब्रवीतु मे
MBh 13.19.10
भीष्म उवाच
अत्राप्युदाहरन्तीममितिहासं पुरातनम्
अष्टावक्रस्य संवादं दिशया सह भारत
MBh 13.19.11
निवेष्टुकामस्तु पुरा अष्टावक्रो महातपाः
ऋषेरथ वदान्यस्य कन्यां वव्रे महात्मनः
MBh 13.19.12
सुप्रभां नाम वै नाम्ना रूपेणाप्रतिमां भुवि
गुणप्रबर्हां शीलेन साध्वीं चारित्रशोभनाम्
MBh 13.19.13
सा तस्य दृष्ट्वैव मनो जहार शुभलोचना
वनराजी यथा चित्रा वसन्ते कुसुमाचिता
MBh 13.19.14
ऋषिस्तमाह देया मे सुता तुभ्यं शृणुष्व मे
गच्छ तावद्दिशं पुण्यामुत्तरां द्रक्ष्यसे ततः
MBh 13.19.15
अष्टावक्र उवाच
किं द्रष्टव्यं मया तत्र वक्तुमर्हति मे भवान्
तथेदानीं मया कार्यं यथा वक्ष्यति मां भवान्
MBh 13.19.16
वदान्य उवाच
धनदं समतिक्रम्य हिमवन्तं तथैव च
रुद्रस्यायतनं दृष्ट्वा सिद्धचारणसेवितम्
MBh 13.19.17
प्रहृष्टैः पार्षदैर्जुष्टं नृत्यद्भिर्विविधाननैः
दिव्याङ्गरागैः पैशाचैर्वन्यैर्नानाविधैस्तथा
MBh 13.19.18
पाणितालसतालैश्च शम्यातालैः समैस्तथा
संप्रहृष्टैः प्रनृत्यद्भिः शर्वस्तत्र निषेव्यते
MBh 13.19.19
इष्टं किल गिरौ स्थानं तद्दिव्यमनुशुश्रुम
नित्यं संनिहितो देवस्तथा पारिषदाः शुभाः
MBh 13.19.20
तत्र देव्या तपस्तप्तं शंकरार्थं सुदुश्चरम्
अतस्तदिष्टं देवस्य तथोमाया इति श्रुतिः
MBh 13.19.21
तत्र कूपो महान्पार्श्वे देवस्योत्तरतस्तथा
ऋतवः कालरात्रिश्च ये दिव्या ये च मानुषाः
MBh 13.19.22
सर्वे देवमुपासन्ते रूपिणः किल तत्र ह
तदतिक्रम्य भवनं त्वया यातव्यमेव हि
MBh 13.19.23
ततो नीलं वनोद्देशं द्रक्ष्यसे मेघसंनिभम्
रमणीयं मनोग्राहि तत्र द्रक्ष्यसि वै स्त्रियम्
MBh 13.19.24
तपस्विनीं महाभागां वृद्धां दीक्षामनुष्ठिताम्
द्रष्टव्या सा त्वया तत्र संपूज्या चैव यत्नतः
MBh 13.19.25
तां दृष्ट्वा विनिवृत्तस्त्वं ततः पाणिं ग्रहीष्यसि
यद्येष समयः सत्यः साध्यतां तत्र गम्यताम्
🪷 The Honest Framing
This chapter belongs to the source-pinned BORI Critical Edition-derived digital witness. Its unique addresses are publicly readable and indexable; this remains a digital-witness claim, not a claim that every Mahābhārata recension agrees word-for-word or that the traditional 100,000-verse extent is represented here.
Navigation
- ← Anuśāsana-Parva chapter-index (154 chapters)
- ← Mahābhārata master-index (all 18 Parvas)
- ← Previous chapter · Anuśāsana-Parva Ch 18
- Next chapter · Anuśāsana-Parva Ch 20 →
Sources and Connected Readings
Continue from these 25 source-pinned Devanāgarī addresses to Anuśāsana-Parva, the Mahābhārata reading map, and any exact Bhagavad-Gītā correspondence.
MBh 13.19local chapter route · Anuśāsana-ParvaAnuśāsana-Parvaparent Parva chapter index/mahabharata18-parva Sanskrit reading index with edition and address notesBhīṣma-ParvaMahābhārata Parva 6 · the Gītā lives in chapters 23-40MBh 6.23Bhagavad-Gītā chapter 1 in its Itihāsa homeMBh 6.40Bhagavad-Gītā chapter 18 in its Itihāsa homeRāmopākhyānaVana-Parva 258 · Vyāsa narrates the Rāma-kathā inside Krishna's epicNārāyaṇīyamŚānti-Parva 335 · Nārāyaṇa/Krishna/Viṣṇu/Vāsudeva unity witness/bhagavad-gitadeep Gītā corpus with translations, commentaries, and verse-level anchorsBG 1.1Dharma-kṣetra opening cross-anchored to MBh 6.23.1BG 18.66Carama-Śloka surrender seal inside the Bhīṣma-Parva arcVyāsa vibhūtiBG 10.37 · Krishna names Vyāsa among munisBG 10.37Vyāsa and Dhanañjaya as Krishna-vibhūti source routeŚB 1.2.11Brahman · Paramātmā · Bhagavān as one advaya-tattvaŚB 1.3.28kṛṣṇas tu bhagavān svayam · Vyāsa corpus source seal/binduDiamond of Darśanas · Itihāsa as one Bindu aperture/philosophyKrishna = Paramaatma = Parabrahman constitutional foundation
🪷 जय व्यास भगवान् 🪷