🪷 Mahābhārata · Anuśāsana-Parva · Chapter 20
The Book of the Final Teaching · Parva 13 · 76 unique Sanskrit addresses · pinned Critical Edition-derived witness
The Devanāgarī Yathārtha · 76 Shlokas
MBh 13.20.1
अष्टावक्र उवाच
तथास्तु साधयिष्यामि तत्र यास्याम्यसंशयम्
यत्र त्वं वदसे साधो भवान्भवतु सत्यवाक्
MBh 13.20.2
भीष्म उवाच
ततोऽगच्छत्स भगवानुत्तरामुत्तमां दिशम्
हिमवन्तं गिरिश्रेष्ठं सिद्धचारणसेवितम्
MBh 13.20.3
स गत्वा द्विजशार्दूलो हिमवन्तं महागिरिम्
अभ्यगच्छन्नदीं पुण्यां बाहुदां धर्मदायिनीम्
MBh 13.20.4
अशोके विमले तीर्थे स्नात्वा तर्प्य च देवताः
तत्र वासाय शयने कौश्ये सुखमुवास ह
MBh 13.20.5
ततो रात्र्यां व्यतीतायां प्रातरुत्थाय स द्विजः
स्नात्वा प्रादुश्चकाराग्निं हुत्वा चैव विधानतः
MBh 13.20.6
रुद्राणीकूपमासाद्य ह्रदे तत्र समाश्वसत्
विश्रान्तश्च समुत्थाय कैलासमभितो ययौ
MBh 13.20.7
सोऽपश्यत्काञ्चनद्वारं दीप्यमानमिव श्रिया
मन्दाकिनीं च नलिनीं धनदस्य महात्मनः
MBh 13.20.8
अथ ते राक्षसाः सर्वे येऽभिरक्षन्ति पद्मिनीम्
प्रत्युत्थिता भगवन्तं मणिभद्रपुरोगमाः
MBh 13.20.9
स तान्प्रत्यर्चयामास राक्षसान्भीमविक्रमान्
निवेदयत मां क्षिप्रं धनदायेति चाब्रवीत्
MBh 13.20.10
ते राक्षसास्तदा राजन्भगवन्तमथाब्रुवन्
असौ वैश्रवणो राजा स्वयमायाति तेऽन्तिकम्
MBh 13.20.11
विदितो भगवानस्य कार्यमागमने च यत्
पश्यैनं त्वं महाभागं ज्वलन्तमिव तेजसा
MBh 13.20.12
ततो वैश्रवणोऽभ्येत्य अष्टावक्रमनिन्दितम्
विधिवत्कुशलं पृष्ट्वा ततो ब्रह्मर्षिमब्रवीत्
MBh 13.20.13
सुखं प्राप्तो भवान्कच्चित्किं वा मत्तश्चिकीर्षसि
ब्रूहि सर्वं करिष्यामि यन्मां त्वं वक्ष्यसि द्विज
MBh 13.20.14
भवनं प्रविश त्वं मे यथाकामं द्विजोत्तम
सत्कृतः कृतकार्यश्च भवान्यास्यत्यविघ्नतः
MBh 13.20.15
प्राविशद्भवनं स्वं वै गृहीत्वा तं द्विजोत्तमम्
आसनं स्वं ददौ चैव पाद्यमर्घ्यं तथैव च
MBh 13.20.16
अथोपविष्टयोस्तत्र मणिभद्रपुरोगमाः
निषेदुस्तत्र कौबेरा यक्षगन्धर्वराक्षसाः
MBh 13.20.17
ततस्तेषां निषण्णानां धनदो वाक्यमब्रवीत्
भवच्छन्दं समाज्ञाय नृत्येरन्नप्सरोगणाः
MBh 13.20.18
आतिथ्यं परमं कार्यं शुश्रूषा भवतस्तथा
संवर्ततामित्युवाच मुनिर्मधुरया गिरा
MBh 13.20.19
अथोर्वरा मिश्रकेशी रम्भा चैवोर्वशी तथा
अलम्बुसा घृताची च चित्रा चित्राङ्गदा रुचिः
MBh 13.20.20
मनोहरा सुकेशी च सुमुखी हासिनी प्रभा
विद्युता प्रशमा दान्ता विद्योता रतिरेव च
MBh 13.20.21
एताश्चान्याश्च वै बह्व्यः प्रनृत्ताप्सरसः शुभाः
अवादयंश्च गन्धर्वा वाद्यानि विविधानि च
MBh 13.20.22
अथ प्रवृत्ते गान्धर्वे दिव्ये ऋषिरुपावसत्
दिव्यं संवत्सरं तत्र रमन्वै सुमहातपाः
MBh 13.20.23
ततो वैश्रवणो राजा भगवन्तमुवाच ह
साग्रः संवत्सरो यातस्तव विप्रेह पश्यतः
MBh 13.20.24
हार्योऽयं विषयो ब्रह्मन्गान्धर्वो नाम नामतः
छन्दतो वर्ततां विप्र यथा वदति वा भवान्
MBh 13.20.25
अतिथिः पूजनीयस्त्वमिदं च भवतो गृहम्
सर्वमाज्ञाप्यतामाशु परवन्तो वयं त्वयि
MBh 13.20.26
अथ वैश्रवणं प्रीतो भगवान्प्रत्यभाषत
अर्चितोऽस्मि यथान्यायं गमिष्यामि धनेश्वर
MBh 13.20.27
प्रीतोऽस्मि सदृशं चैव तव सर्वं धनाधिप
तव प्रसादाद्भगवन्महर्षेश्च महात्मनः
नियोगादद्य यास्यामि वृद्धिमानृद्धिमान्भव
MBh 13.20.28
अथ निष्क्रम्य भगवान्प्रययावुत्तरामुखः
कैलासं मन्दरं हैमं सर्वाननुचचार ह
MBh 13.20.29
तानतीत्य महाशैलान्कैरातं स्थानमुत्तमम्
प्रदक्षिणं ततश्चक्रे प्रयतः शिरसा नमन्
धरणीमवतीर्याथ पूतात्मासौ तदाभवत्
MBh 13.20.30
स तं प्रदक्षिणं कृत्वा त्रिः शैलं चोत्तरामुखः
समेन भूमिभागेन ययौ प्रीतिपुरस्कृतः
MBh 13.20.31
ततोऽपरं वनोद्देशं रमणीयमपश्यत
सर्वर्तुभिर्मूलफलैः पक्षिभिश्च समन्वितम्
रमणीयैर्वनोद्देशैस्तत्र तत्र विभूषितम्
MBh 13.20.32
तत्राश्रमपदं दिव्यं ददर्श भगवानथ
शैलांश्च विविधाकारान्काञ्चनान्रत्नभूषितान्
मणिभूमौ निविष्टाश्च पुष्करिण्यस्तथैव च
MBh 13.20.33
अन्यान्यपि सुरम्याणि ददर्श सुबहून्यथ
भृशं तस्य मनो रेमे महर्षेर्भावितात्मनः
MBh 13.20.34
स तत्र काञ्चनं दिव्यं सर्वरत्नमयं गृहम्
ददर्शाद्भुतसंकाशं धनदस्य गृहाद्वरम्
MBh 13.20.35
महान्तो यत्र विविधाः प्रासादाः पर्वतोपमाः
विमानानि च रम्याणि रत्नानि विविधानि च
MBh 13.20.36
मन्दारपुष्पैः संकीर्णा तथा मन्दाकिनी नदी
स्वयंप्रभाश्च मणयो वज्रैर्भूमिश्च भूषिता
MBh 13.20.37
नानाविधैश्च भवनैर्विचित्रमणितोरणैः
मुक्ताजालपरिक्षिप्तैर्मणिरत्नविभूषितैः
मनोदृष्टिहरै रम्यैः सर्वतः संवृतं शुभैः
MBh 13.20.38
ऋषिः समन्ततोऽपश्यत्तत्र तत्र मनोरमम्
ततोऽभवत्तस्य चिन्ता क्व मे वासो भवेदिति
MBh 13.20.39
अथ द्वारं समभितो गत्वा स्थित्वा ततोऽब्रवीत्
अतिथिं मामनुप्राप्तमनुजानन्तु येऽत्र वै
MBh 13.20.40
अथ कन्यापरिवृता गृहात्तस्माद्विनिःसृताः
नानारूपाः सप्त विभो कन्याः सर्वा मनोहराः
MBh 13.20.41
यां यामपश्यत्कन्यां स सा सा तस्य मनोऽहरत्
नाशक्नुवद्धारयितुं मनोऽथास्यावसीदति
MBh 13.20.42
ततो धृतिः समुत्पन्ना तस्य विप्रस्य धीमतः
अथ तं प्रमदाः प्राहुर्भगवान्प्रविशत्विति
MBh 13.20.43
स च तासां सुरूपाणां तस्यैव भवनस्य च
कौतूहलसमाविष्टः प्रविवेश गृहं द्विजः
MBh 13.20.44
तत्रापश्यज्जरायुक्तामरजोम्बरधारिणीम्
वृद्धां पर्यङ्कमासीनां सर्वाभरणभूषिताम्
MBh 13.20.45
स्वस्तीति चाथ तेनोक्ता सा स्त्री प्रत्यवदत्तदा
प्रत्युत्थाय च तं विप्रमास्यतामित्युवाच ह
MBh 13.20.46
अष्टावक्र उवाच
सर्वाः स्वानालयान्यान्तु एका मामुपतिष्ठतु
सुप्रज्ञाता सुप्रशान्ता शेषा गच्छन्तु च्छन्दतः
MBh 13.20.47
ततः प्रदक्षिणीकृत्य कन्यास्तास्तमृषिं तदा
निराक्रामन्गृहात्तस्मात्सा वृद्धाथ व्यतिष्ठत
MBh 13.20.48
अथ तां संविशन्प्राह शयने भास्वरे तदा
त्वयापि सुप्यतां भद्रे रजनी ह्यतिवर्तते
MBh 13.20.49
संलापात्तेन विप्रेण तथा सा तत्र भाषिता
द्वितीये शयने दिव्ये संविवेश महाप्रभे
MBh 13.20.50
अथ सा वेपमानाङ्गी निमित्तं शीतजं तदा
व्यपदिश्य महर्षेर्वै शयनं चाध्यरोहत
MBh 13.20.51
स्वागतं स्वागतेनास्तु भगवांस्तामभाषत
सोपागूहद्भुजाभ्यां तु ऋषिं प्रीत्या नरर्षभ
MBh 13.20.52
निर्विकारमृषिं चापि काष्ठकुड्योपमं तदा
दुःखिता प्रेक्ष्य संजल्पमकार्षीदृषिणा सह
MBh 13.20.53
ब्रह्मन्न कामकारोऽस्ति स्त्रीणां पुरुषतो धृतिः
कामेन मोहिता चाहं त्वां भजन्तीं भजस्व माम्
MBh 13.20.54
प्रहृष्टो भव विप्रर्षे समागच्छ मया सह
उपगूह च मां विप्र कामार्ताहं भृशं त्वयि
MBh 13.20.55
एतद्धि तव धर्मात्मंस्तपसः पूज्यते फलम्
प्रार्थितं दर्शनादेव भजमानां भजस्व माम्
MBh 13.20.56
सद्म चेदं वनं चेदं यच्चान्यदपि पश्यसि
प्रभुत्वं तव सर्वत्र मयि चैव न संशयः
MBh 13.20.57
सर्वान्कामान्विधास्यामि रमस्व सहितो मया
रमणीये वने विप्र सर्वकामफलप्रदे
MBh 13.20.58
त्वद्वशाहं भविष्यामि रंस्यसे च मया सह
सर्वान्कामानुपाश्नानो ये दिव्या ये च मानुषाः
MBh 13.20.59
नातः परं हि नारीणां कार्यं किंचन विद्यते
यथा पुरुषसंसर्गः परमेतद्धि नः फलम्
MBh 13.20.60
आत्मच्छन्देन वर्तन्ते नार्यो मन्मथचोदिताः
न च दह्यन्ति गच्छन्त्यः सुतप्तैरपि पांसुभिः
MBh 13.20.61
अष्टावक्र उवाच
परदारानहं भद्रे न गच्छेयं कथंचन
दूषितं धर्मशास्त्रेषु परदाराभिमर्शनम्
MBh 13.20.62
भद्रे निवेष्टुकामं मां विद्धि सत्येन वै शपे
विषयेष्वनभिज्ञोऽहं धर्मार्थं किल संततिः
MBh 13.20.63
एवं लोकान्गमिष्यामि पुत्रैरिति न संशयः
भद्रे धर्मं विजानीष्व ज्ञात्वा चोपरमस्व ह
MBh 13.20.64
स्त्र्युवाच
नानिलोऽग्निर्न वरुणो न चान्ये त्रिदशा द्विज
प्रियाः स्त्रीणां यथा कामो रतिशीला हि योषितः
MBh 13.20.65
सहस्रैका यता नारी प्राप्नोतीह कदाचन
तथा शतसहस्रेषु यदि काचित्पतिव्रता
MBh 13.20.66
नैता जानन्ति पितरं न कुलं न च मातरम्
न भ्रातॄन्न च भर्तारं न पुत्रान्न च देवरान्
MBh 13.20.67
लीलायन्त्यः कुलं घ्नन्ति कूलानीव सरिद्वराः
दोषांश्च मन्दान्मन्दासु प्रजापतिरभाषत
MBh 13.20.68
भीष्म उवाच
ततः स ऋषिरेकाग्रस्तां स्त्रियं प्रत्यभाषत
आस्यतां रुचिरं छन्दः किं वा कार्यं ब्रवीहि मे
MBh 13.20.69
सा स्त्री प्रोवाच भगवन्द्रक्ष्यसे देशकालतः
वस तावन्महाप्राज्ञ कृतकृत्यो गमिष्यसि
MBh 13.20.70
ब्रह्मर्षिस्तामथोवाच स तथेति युधिष्ठिर
वत्स्येऽहं यावदुत्साहो भवत्या नात्र संशयः
MBh 13.20.71
अथर्षिरभिसंप्रेक्ष्य स्त्रियं तां जरयान्विताम्
चिन्तां परमिकां भेजे संतप्त इव चाभवत्
MBh 13.20.72
यद्यदङ्गं हि सोऽपश्यत्तस्या विप्रर्षभस्तदा
नारमत्तत्र तत्रास्य दृष्टी रूपपराजिता
MBh 13.20.73
देवतेयं गृहस्यास्य शापान्नूनं विरूपिता
अस्याश्च कारणं वेत्तुं न युक्तं सहसा मया
MBh 13.20.74
इति चिन्ताविषक्तस्य तमर्थं ज्ञातुमिच्छतः
व्यगमत्तदहःशेषं मनसा व्याकुलेन तु
MBh 13.20.75
अथ सा स्त्री तदोवाच भगवन्पश्य वै रवेः
रूपं संध्याभ्रसंयुक्तं किमुपस्थाप्यतां तव
MBh 13.20.76
स उवाच तदा तां स्त्रीं स्नानोदकमिहानय
उपासिष्ये ततः संध्यां वाग्यतो नियतेन्द्रियः
🪷 The Honest Framing
This chapter belongs to the source-pinned BORI Critical Edition-derived digital witness. Its unique addresses are publicly readable and indexable; this remains a digital-witness claim, not a claim that every Mahābhārata recension agrees word-for-word or that the traditional 100,000-verse extent is represented here.
Navigation
- ← Anuśāsana-Parva chapter-index (154 chapters)
- ← Mahābhārata master-index (all 18 Parvas)
- ← Previous chapter · Anuśāsana-Parva Ch 19
- Next chapter · Anuśāsana-Parva Ch 21 →
Sources and Connected Readings
Continue from these 76 source-pinned Devanāgarī addresses to Anuśāsana-Parva, the Mahābhārata reading map, and any exact Bhagavad-Gītā correspondence.
MBh 13.20local chapter route · Anuśāsana-ParvaAnuśāsana-Parvaparent Parva chapter index/mahabharata18-parva Sanskrit reading index with edition and address notesBhīṣma-ParvaMahābhārata Parva 6 · the Gītā lives in chapters 23-40MBh 6.23Bhagavad-Gītā chapter 1 in its Itihāsa homeMBh 6.40Bhagavad-Gītā chapter 18 in its Itihāsa homeRāmopākhyānaVana-Parva 258 · Vyāsa narrates the Rāma-kathā inside Krishna's epicNārāyaṇīyamŚānti-Parva 335 · Nārāyaṇa/Krishna/Viṣṇu/Vāsudeva unity witness/bhagavad-gitadeep Gītā corpus with translations, commentaries, and verse-level anchorsBG 1.1Dharma-kṣetra opening cross-anchored to MBh 6.23.1BG 18.66Carama-Śloka surrender seal inside the Bhīṣma-Parva arcVyāsa vibhūtiBG 10.37 · Krishna names Vyāsa among munisBG 10.37Vyāsa and Dhanañjaya as Krishna-vibhūti source routeŚB 1.2.11Brahman · Paramātmā · Bhagavān as one advaya-tattvaŚB 1.3.28kṛṣṇas tu bhagavān svayam · Vyāsa corpus source seal/binduDiamond of Darśanas · Itihāsa as one Bindu aperture/philosophyKrishna = Paramaatma = Parabrahman constitutional foundation
🪷 जय व्यास भगवान् 🪷