🪷 Mahābhārata · Anuśāsana-Parva · Chapter 20

The Book of the Final Teaching · Parva 13 · 76 shlokas in canonical Devanāgarī Sanskrit

Mahābhārata Detail Source-Anchor Spine

This chapter page keeps the local Devanāgarī chapter tied to its Parva, the Mahābhārata master route, any exact Gītā cross-anchor, and the wider Vyāsa source spine.

MBh 13.20local chapter route · Anuśāsana-ParvaAnuśāsana-Parvaparent Parva chapter index/mahabharatamaster index for all 18 Parvas and 73,821 ślokasBhīṣma-ParvaMahābhārata Parva 6 · the Gītā lives in chapters 23-40MBh 6.23Bhagavad-Gītā chapter 1 in its Itihāsa homeMBh 6.40Bhagavad-Gītā chapter 18 in its Itihāsa homeRāmopākhyānaVana-Parva 258 · Vyāsa narrates the Rāma-kathā inside Krishna's epicNārāyaṇīyamŚānti-Parva 335 · Nārāyaṇa/Krishna/Viṣṇu/Vāsudeva unity witness/bhagavad-gitadeep Gītā corpus with translations, commentaries, and verse-level anchorsBG 1.1Dharma-kṣetra opening cross-anchored to MBh 6.23.1BG 18.66Carama-Śloka surrender seal inside the Bhīṣma-Parva arcVyāsa vibhūtiBG 10.37 · Krishna names Vyāsa among munisBG 10.37Vyāsa and Dhanañjaya as Krishna-vibhūti source routeŚB 1.2.11Brahman · Paramātmā · Bhagavān as one advaya-tattvaŚB 1.3.28kṛṣṇas tu bhagavān svayam · Vyāsa corpus source seal/binduDiamond of Darśanas · Itihāsa as one Bindu aperture/philosophyKrishna = Paramaatma = Parabrahman constitutional foundation

The Devanāgarī Yathārtha · 76 Shlokas

MBh 13.20.1
तथास्तु साधयिष्यामि तत्र यास्याम्य असंशयम यत्र तवं वदसे साधॊ भवान भवतु सत्यवाक
MBh 13.20.2
[भ] ततॊ ऽगच्छत स भगवान उत्तराम उत्तमां दिशम हिमवन्तं गिरिश्रेष्ठं सिद्धचारणसेवितम
MBh 13.20.3
स गत्वा दविज शार्दूलॊ हिमवन्तं महागिरिम अभ्यगच्छन नदीं पुण्यां बाहुदां धर्मदायिनीम
MBh 13.20.4
अशॊके विमले तीर्थे सनात्वा तर्प्य च देवताः तत्र वासाय शयने कौश्ये सुखम उवास ह
MBh 13.20.5
ततॊ रात्र्यां वयतीतायां परातर उत्थाय स दविजः सनात्वा परादुश्चकाराग्निं हुत्वा चैव विधानथ
MBh 13.20.6
रुद्राणी कूपम आसाद्य हरदे तत्र समाश्वसत विश्रान्तश्च च समुत्थाय कैलासम अभितॊ ययौ
MBh 13.20.7
सॊ ऽपश्यत काञ्चनद्वारं दीप्यमानम इव शरिया मन्दाकिनीं च नलिनीं धनदस्य महात्मनः
MBh 13.20.8
अथ ते राक्षसाः सर्वे ये ऽभिरक्षन्ति पद्मिनीम परत्युत्थिता भगवन्तं मणिभद्र पुरॊगमाः
MBh 13.20.9
स तान परत्यर्चयाम आस राक्षसान भीमविक्रमान निवेदयत मां कषिप्रं धनदायेति चाब्रवीत
MBh 13.20.10
ते राक्षसास तदा राजन भगवन्तम अथाब्रुवन असौ वैश्वरणॊ राजा सवयम आयाति ते ऽनतिकम
MBh 13.20.11
विदितॊ भगवान अस्य कार्यम आगमने च यत पश्यैनं तवं महाभागं जवलन्तम इव तेजसा
MBh 13.20.12
ततॊ वैश्रवणॊ ऽभयेत्य अष्टावक्रम अनिन्दितम विधिवत कुशलं पृष्ट्वा ततॊ बरह्मर्षिम अब्रवीत
MBh 13.20.13
सुखं पराप्तॊ भवान कच चित किं वा मत्तश चिकीर्षसि बरूहि सर्वं करिष्यामि यन मां तवं वक्ष्यसि दविज
MBh 13.20.14
भवनं परविश तवं मे यथा कामद्विजॊत्तम सत्कृतः कृतकार्यश च भवान यास्यत्य अविघ्नतः
MBh 13.20.15
पराविशद भवनं सवं वै गृहीत्वा तं दविजॊत्तमम आसनं सवं ददौ चैव पाद्यम अर्घ्यं तथैव च
MBh 13.20.16
अथॊपविष्टयॊस तत्र मणिभद्र पुरॊगमाः निषेदुस तत्र कौबेरा यक्षगन्धर्वराक्षसाः
MBh 13.20.17
ततस तेषां निषण्णानां धनदॊ वाक्यम अब्रवीत भवच छन्दं समाज्ञाय नृत्येरन्न अप्सरॊगणाः
MBh 13.20.18
आतिथ्यं परमं कार्यं शुश्रूषा भवतस तथा संवर्तताम इत्य उवाच मुनिर मधुरया गिरा
MBh 13.20.19
अथॊर्वरा मिश्रकेशी रम्भा चैवॊर्वशी तथा अलम्बुसा घृताची च चित्रा चित्राङ्गदा रुचिः
MBh 13.20.20
मनॊहरा सुकेशी च सुमुखी हासिनी परभा विद्युता परशमा दान्ता विद्यॊता रतिर एव च
MBh 13.20.21
एताश चान्याश च वै बह्व्यः परनृत्ताप्सरसः शुभाः अवादयंश च गन्धर्वा वाद्यानि विविधानि च
MBh 13.20.22
अथ परवृत्ते गन्धर्वे दिव्ये ऋषिर उपावसत दिव्यं संवत्सरं तत्र रमन वै सुमहातपाः
MBh 13.20.23
ततॊ वैश्रवणॊ राजा भगवन्तम उवाच ह साग्रः संवत्सरॊ यातस तव विप्रेह पश्यतः
MBh 13.20.24
हार्यॊ ऽयं विषयॊ बरह्मन गान्धर्वॊ नाम नामतः छन्दतॊ वर्ततां विप्र यथा वदति वा भवान
MBh 13.20.25
अतिथिः पूजनीयस तवम इदं च भवतॊ गृहम सर्वम आज्ञाप्यताम आशु परवन्तॊ वयं तवयि
MBh 13.20.26
अथ वैश्रवणं परीतॊ भगवान परत्यभाषत अर्चितॊ ऽसमि यथान्यायं गमिष्यामि धनेश्वर
MBh 13.20.27
परीतॊ ऽसमि सदृशं चैव तव सर्वं धनाधिप तव परसादाद भगवन महर्षेश च महात्मनः नियॊगाद अद्य यास्यामि वृद्धिमान ऋद्धिमान भव
MBh 13.20.28
अथ निष्क्रम्य भगवान परययाव उत्तरा मुखः कैलासं मन्दरं हैमं सर्वान अनुचचार ह
MBh 13.20.29
तान अतीत्य महाशैलान कैरातं सथानम उत्तमम परदक्षिणं ततश चक्रे परयतः शिरसा नमन धरणीम अवतीर्याथ पूतात्मासौ तदाभवत
MBh 13.20.30
स तं परदक्षिणं कृत्वा तरिः शैलं चॊत्तरा मुखः समेन भूमिभागेन ययौ परीतिपुरस्कृतः
MBh 13.20.31
ततॊ ऽपरं वनॊद्देशं रमणीयम अपश्यत सर्वर्तुभिर मूलफलैः पक्षिभिश च समन्वितम रमणीयैर वनॊद्देशैस तत्र तत्र विभूषितम
MBh 13.20.32
तत्राश्रमपदं दिव्यं ददर्श भवगान अथ शैलांश च विविधाकारान काञ्चनान रत्नभूषितान मणिभूमौ निविष्टाश च पुष्करिण्यस तथैव च
MBh 13.20.33
अन्यान्य अपि सुरम्याणि ददर्श सुबहून्य अथ भृशं तस्य मनॊ रेमे महर्षेर भावितात्मनः
MBh 13.20.34
स तत्र काञ्चनं दिव्यं सर्वरत्नमयं गृहम ददर्शाद्भुतसंकाशं धनदस्य गृहाद वरम
MBh 13.20.35
महान्तॊ यत्र विविधाः परासादाः पर्वतॊपमाः विमानानि च रम्याणि रत्नानि विविधानि च
MBh 13.20.36
मन्दारपुष्पैः संकीर्णा तथा मन्दाकिनी नदी सवयंप्रभाश च मणयॊ वज्रैर भूमिश च भूषिता
MBh 13.20.37
नानाविधैश च भवनैर विचित्रमणितॊरणैः मुक्ताजालपरिक्षिप्तैर मणिरत्नविभूषितैः मनॊ दृष्टिहरै रम्यैः सर्वतः संवृतं शुभैः
MBh 13.20.38
ऋषिः समन्ततॊ ऽपश्यत तत्र तत्र मनॊरमम ततॊ ऽभवत तस्य चिन्ता कव मे वासॊ भवेद इति
MBh 13.20.39
अथ दवारं समभितॊ गत्वा सथित्वा ततॊ ऽबरवीत अतिथिं माम अनुप्राप्तम अनुजानन्तु ये ऽतर वै
MBh 13.20.40
अथ कन्या परिवृता गृहात तस्माद विनिःसृताः नानारूपाः सप्त विभॊ कन्या सर्वा मनॊहराः
MBh 13.20.41
यां याम अपश्यत कन्यां स सा सा तस्य मनॊ ऽहरत नाशक्नुवद धारयितुं मनॊ ऽथास्यावसीदति
MBh 13.20.42
ततॊ धृतिः समुत्पन्ना तस्य विप्रस्य धीमतः अथ तं परमदाः पराहुर भगवान परविशत्व इति
MBh 13.20.43
स च तासां सुरूपाणां तस्यैव भवनस्य च
MBh 13.20.44
कौतूहलसमाविष्टः परविवेश गृहं दविजः तत्रापश्यज जरा युक्ताम अरजॊ ऽमबरधारिणीम वृद्धां पर्यङ्कम आसीनां सर्वाभरणभूषिताम
MBh 13.20.45
सवस्तीति चाथ तेनॊक्ता सा सत्री परत्यवदत तदा परत्युत्थाय च तं विप्रम आस्यताम इत्य उवाच ह
MBh 13.20.46
[अ] सर्वाः सवान आलयान यान्तु एका माम उपतिष्ठतु सुप्रज्ञाता सुप्रशान्ता शेषा गच्छन्तु चछन्दतः
MBh 13.20.47
ततः परदक्षिणीकृत्य कन्यास तास तम ऋषिं तदा निराक्रामन गृहात तस्मात सा वृद्धाथ वयतिष्ठत
MBh 13.20.48
अथ तां संविशन पराह शयने भास्वरे तदा तवयापि सुप्यतां भद्रे रजनी हय अतिवर्तते
MBh 13.20.49
संलापात तेन विप्रेण तथा सा तत्र भाषिता दवितीये शयने दिव्ये संविवेश महाप्रभे
MBh 13.20.50
अथ सा वेपमानाङ्गी निमित्तं शीतजं तदा वयपदिश्य महर्षेर वै शयनं चाध्यरॊहत
MBh 13.20.51
सवागतं सवागतेनास्तु भगवांस ताम अभाषत सॊपागूहद भुजाभ्यां तु ऋषिं परीत्या नरर्षभ
MBh 13.20.52
निर्विकारम ऋषिं चापि काष्ठकुड्यॊपमं तदा दुःखिता परेक्ष्य संजल्पम अकार्षीद ऋषिणा सह
MBh 13.20.53
बरह्मन न कामकारॊ ऽसति सत्रीणां पुरुषतॊ धृतिः कामेन मॊहिता चाहं तवां भजन्तीं भजस्व माम
MBh 13.20.54
परहृष्टॊ भव विप्रर्षे समागच्छ मया सह उपगूह च मां विप्र कामार्ताहं भृशं तवयि
MBh 13.20.55
एतद धि तव धर्मात्मंस तपसः पूज्यते फलम परार्थितं दर्शनाद एव भजमानां भजस्व माम
MBh 13.20.56
सद्य चेदं वनं चेदं यच चान्यद अपि पश्यसि परभुत्वं तव सर्वत्र मयि चैव न संशयः
MBh 13.20.57
सर्वान कामान विधास्यामि रमस्व सहितॊ मया रमणीये वने विप्र सर्वकामफलप्रदे
MBh 13.20.58
तवद्वशाहं भविष्यामि रंस्यसे च मया सह सर्वान कामान उपाश्नानॊ ये दिव्या ये च मानुषाः
MBh 13.20.59
नातः परं हि नारीणां कार्यं किं चन विद्यते यथा पुरुषसंसर्गः परम एतद धि नः फलम
MBh 13.20.60
आत्मछन्देन वर्तन्ते नार्यॊ मन्मथ चॊदिताः न च दह्यन्ति गच्छन्त्यः सुतप्तैर अपि पांसुभिः
MBh 13.20.61
[अ] परदारान अहं भद्रे न गच्छेयं कथं चन दूषितं धर्मशास्त्रेषु परदाराभिमर्शनम
MBh 13.20.62
भद्रे निवेष्टु कामं मां विद्धि सत्येन वै शपे विषयेष्व अनभिज्ञॊ ऽहं धर्मार्थं किल संततिः
MBh 13.20.63
एवं लॊकान गमिष्यामि पुत्रैर इति न संशयः भद्रे धर्मं विजानीष्व जञात्वा चॊपरमस्व ह
MBh 13.20.64
[सत्री] नानिलॊ ऽगनिर न वरुणॊ न चान्ये तरिदशा दविज परियाः सत्रीणां यथा कामॊ रतिशीला हि यॊषितः
MBh 13.20.65
सहस्रैका यता नारी पराप्नॊतीह कदा चन तथा शतसहस्रेषु यदि का चित पतिव्रता
MBh 13.20.66
नैता जानन्ति पितरं न कुलं न च मातरम न भरातॄन न च भर्तारं न पुत्रान न च देवरान
MBh 13.20.67
लीलायन्त्यः कुलं घनन्ति कुलानीव सरिद वराः दॊषांश च मन्दान मन्दासु परजापतिर अभाषत
MBh 13.20.68
[भ] ततः स ऋषिर एकाग्रस तां सत्रियं परत्यभाषत आस्यतां रुचिरं छन्दः किं वा कार्यं बरवीहि मे
MBh 13.20.69
सा सत्री परॊवाच भगवन दरक्ष्यसे देशकालतः वस तावन महाप्राज्ञ कृतकृत्यॊ गमिष्यसि
MBh 13.20.70
बरह्मर्षिस ताम अथॊवाच स तथेति युधिष्ठिर वत्स्ये ऽहं यावद उत्साहॊ भवत्या नात्र संशयः
MBh 13.20.71
अथर्षिर अभिसंप्रेक्ष्य सत्रियं तां जरयान्विताम चिन्तां परमिकां भेजे संतप्त इव चाभवत
MBh 13.20.72
यद यद अङ्गं हि सॊ ऽपश्यत तस्या विप्रर्षभस तदा नारमत तत्र तत्रास्य दृष्टी रूपपराजिता
MBh 13.20.73
देवतेयं गृहस्यास्य शापान नूनं विरूपिता अस्याश च कारणं वेत्तुं न युक्तं सहसा मया
MBh 13.20.74
इति चिन्ता विषक्तस्य तम अर्थं जञातुम इच्छतः वयगमत तद अहः शेषं मनसा वयाकुलेन तु
MBh 13.20.75
अथ सा सत्री तदॊवाच भगवन पश्य वै रवेः रूपं संध्याभ्रसंयुक्तं किम उपस्थाप्यतां तव
MBh 13.20.76
स उवाच तदा तां सत्रीं सनानॊदकम इहानय उपासिष्ये ततः संध्यां वाग्यतॊ नियतेन्द्रियः

🪷 The Honest Framing

This is the canonical Devanāgarī Sanskrit yathārtha. English + Hindi translations + classical commentaries arrive in future yajñas. To see the substrate's target-depth (5 English translations + Rāmsukhdās ji Hindi + 5 English commentaries + Sādhaka-Sañjīvanī Hindi vyākhyā per verse), visit any /bhagavad-gita/X/Y page. The Mahābhārata journey starts with the śloka.

Navigation

🪷 जय व्यास भगवान् 🪷