🪷 Mahābhārata · Anuśāsana-Parva · Chapter 18

The Book of the Final Teaching · Parva 13 · 59 unique Sanskrit addresses · pinned Critical Edition-derived witness

The Devanāgarī Yathārtha · 59 Shlokas

MBh 13.18.1
वैशंपायन उवाच महायोगी ततः प्राह कृष्णद्वैपायनो मुनिः पठस्व पुत्र भद्रं ते प्रीयतां ते महेश्वरः
MBh 13.18.2
पुरा पुत्र मया मेरौ तप्यता परमं तपः पुत्रहेतोर्महाराज स्तव एषोऽनुकीर्तितः
MBh 13.18.3
लब्धवानस्मि तान्कामानहं वै पाण्डुनन्दन तथा त्वमपि शर्वाद्धि सर्वान्कामानवाप्स्यसि
MBh 13.18.4
चतुःशीर्षस्ततः प्राह शक्रस्य दयितः सखा आलम्बायन इत्येव विश्रुतः करुणात्मकः
MBh 13.18.5
मया गोकर्णमासाद्य तपस्तप्त्वा शतं समाः अयोनिजानां दान्तानां धर्मज्ञानां सुवर्चसाम्
MBh 13.18.6
अजराणामदुःखानां शतवर्षसहस्रिणाम् लब्धं पुत्रशतं शर्वात्पुरा पाण्डुनृपात्मज
MBh 13.18.7
वाल्मीकिश्चापि भगवान्युधिष्ठिरमभाषत विवादे साम्नि मुनिभिर्ब्रह्मघ्नो वै भवानिति उक्तः क्षणेन चाविष्टस्तेनाधर्मेण भारत
MBh 13.18.8
सोऽहमीशानमनघमस्तौषं शरणं गतः मुक्तश्चास्म्यवशः पापात्ततो दुःखविनाशनः आह मां त्रिपुरघ्नो वै यशस्तेऽग्र्यं भविष्यति
MBh 13.18.9
जामदग्न्यश्च कौन्तेयमाह धर्मभृतां वरः ऋषिमध्ये स्थितस्तात तपन्निव विभावसुः
MBh 13.18.10
पितृविप्रवधेनाहमार्तो वै पाण्डवाग्रज शुचिर्भूत्वा महादेवं गतवाञ्शरणं नृप
MBh 13.18.11
नामभिश्चास्तुवं देवं ततस्तुष्टोऽभवद्भवः परशुं च ददौ देवो दिव्यान्यस्त्राणि चैव मे
MBh 13.18.12
पापं न भविता तेऽद्य अजेयश्च भविष्यसि न ते प्रभविता मृत्युर्यशस्वी च भविष्यसि
MBh 13.18.13
आह मां भगवानेवं शिखण्डी शिवविग्रहः यदवाप्तं च मे सर्वं प्रसादात्तस्य धीमतः
MBh 13.18.14
असितो देवलश्चैव प्राह पाण्डुसुतं नृपम् शापाच्छक्रस्य कौन्तेय चितो धर्मोऽनशन्मम तन्मे धर्मं यशश्चाग्र्यमायुश्चैवाददद्भवः
MBh 13.18.15
ऋषिर्गृत्समदो नाम शक्रस्य दयितः सखा प्राहाजमीढं भगवान्बृहस्पतिसमद्युतिः
MBh 13.18.16
वसिष्ठो नाम भगवांश्चाक्षुषस्य मनोः सुतः शतक्रतोरचिन्त्यस्य सत्रे वर्षसहस्रिके वर्तमानेऽब्रवीद्वाक्यं साम्नि ह्युच्चारिते मया
MBh 13.18.17
रथन्तरं द्विजश्रेष्ठ न सम्यगिति वर्तते समीक्षस्व पुनर्बुद्ध्या हर्षं त्यक्त्वा द्विजोत्तम अयज्ञवाहिनं पापमकार्षीस्त्वं सुदुर्मते
MBh 13.18.18
एवमुक्त्वा महाक्रोधात्प्राह रुष्टः पुनर्वचः प्रज्ञया रहितो दुःखी नित्यं भीतो वनेचरः दश वर्षसहस्राणि दशाष्टौ च शतानि च
MBh 13.18.19
नष्टपानीययवसे मृगैरन्यैश्च वर्जिते अयज्ञीयद्रुमे देशे रुरुसिंहनिषेविते भविता त्वं मृगः क्रूरो महादुःखसमन्वितः
MBh 13.18.20
तस्य वाक्यस्य निधने पार्थ जातो ह्यहं मृगः ततो मां शरणं प्राप्तं प्राह योगी महेश्वरः
MBh 13.18.21
अजरश्चामरश्चैव भविता दुःखवर्जितः साम्यं समस्तु ते सौख्यं युवयोर्वर्धतां क्रतुः
MBh 13.18.22
अनुग्रहानेवमेष करोति भगवान्विभुः परं धाता विधाता च सुखदुःखे च सर्वदा
MBh 13.18.23
अचिन्त्य एष भगवान्कर्मणा मनसा गिरा न मे तात युधिश्रेष्ठ विद्यया पण्डितः समः
MBh 13.18.24
जैगीषव्य उवाच ममाष्टगुणमैश्वर्यं दत्तं भगवता पुरा यत्नेनाल्पेन बलिना वाराणस्यां युधिष्ठिर
MBh 13.18.25
गार्ग्य उवाच चतुःषष्ट्यङ्गमददात्कालज्ञानं ममाद्भुतम् सरस्वत्यास्तटे तुष्टो मनोयज्ञेन पाण्डव
MBh 13.18.26
तुल्यं मम सहस्रं तु सुतानां ब्रह्मवादिनाम् आयुश्चैव सपुत्रस्य संवत्सरशतायुतम्
MBh 13.18.27
पराशर उवाच प्रसाद्याहं पुरा शर्वं मनसाचिन्तयं नृप महातपा महातेजा महायोगी महायशाः वेदव्यासः श्रियावासो ब्रह्मण्यः करुणात्मकः
MBh 13.18.28
अपि नामेप्सितः पुत्रो मम स्याद्वै महेश्वरात् इति मत्वा हृदि मतं प्राह मां सुरसत्तमः
MBh 13.18.29
मयि संभवतस्तस्य फलात्कृष्णो भविष्यति सावर्णस्य मनोः सर्गे सप्तर्षिश्च भविष्यति
MBh 13.18.30
वेदानां च स वै व्यस्ता कुरुवंशकरस्तथा इतिहासस्य कर्ता च पुत्रस्ते जगतो हितः
MBh 13.18.31
भविष्यति महेन्द्रस्य दयितः स महामुनिः अजरश्चामरश्चैव पराशर सुतस्तव
MBh 13.18.32
एवमुक्त्वा स भगवांस्तत्रैवान्तरधीयत युधिष्ठिर महायोगी वीर्यवानक्षयोऽव्ययः
MBh 13.18.33
माण्डव्य उवाच अचौरश्चौरशङ्कायां शूले भिन्नो ह्यहं यदा तत्रस्थेन स्तुतो देवः प्राह मां वै महेश्वरः
MBh 13.18.34
मोक्षं प्राप्स्यसि शूलाच्च जीविष्यसि समार्बुदम् रुजा शूलकृता चैव न ते विप्र भविष्यति आधिभिर्व्याधिभिश्चैव वर्जितस्त्वं भविष्यसि
MBh 13.18.35
पादाच्चतुर्थात्संभूत आत्मा यस्मान्मुने तव त्वं भविष्यस्यनुपमो जन्म वै सफलं कुरु
MBh 13.18.36
तीर्थाभिषेकं सफलं त्वमविघ्नेन चाप्स्यसि स्वर्गं चैवाक्षयं विप्र विदधामि तवोर्जितम्
MBh 13.18.37
एवमुक्त्वा तु भगवान्वरेण्यो वृषवाहनः महेश्वरो महाराज कृत्तिवासा महाद्युतिः सगणो दैवतश्रेष्ठस्तत्रैवान्तरधीयत
MBh 13.18.38
गालव उवाच विश्वामित्राभ्यनुज्ञातो ह्यहं पितरमागतः अब्रवीन्मां ततो माता दुःखिता रुदती भृशम्
MBh 13.18.39
कौशिकेनाभ्यनुज्ञातं पुत्रं वेदविभूषितम् न तात तरुणं दान्तं पिता त्वां पश्यतेऽनघ
MBh 13.18.40
श्रुत्वा जनन्या वचनं निराशो गुरुदर्शने नियतात्मा महादेवमपश्यं सोऽब्रवीच्च माम्
MBh 13.18.41
पिता माता च ते त्वं च पुत्र मृत्युविवर्जिताः भविष्यथ विश क्षिप्रं द्रष्टासि पितरं क्षये
MBh 13.18.42
अनुज्ञातो भगवता गृहं गत्वा युधिष्ठिर अपश्यं पितरं तात इष्टिं कृत्वा विनिःसृतम्
MBh 13.18.43
उपस्पृश्य गृहीत्वेध्मं कुशांश्च शरणाद्गुरून् तान्विसृज्य च मां प्राह पिता सास्राविलेक्षणः
MBh 13.18.44
प्रणमन्तं परिष्वज्य मूर्ध्नि चाघ्राय पाण्डव दिष्ट्या दृष्टोऽसि मे पुत्र कृतविद्य इहागतः
MBh 13.18.45
वैशंपायन उवाच एतान्यत्यद्भुतान्येव कर्माण्यथ महात्मनः प्रोक्तानि मुनिभिः श्रुत्वा विस्मयामास पाण्डवः
MBh 13.18.46
ततः कृष्णोऽब्रवीद्वाक्यं पुनर्मतिमतां वरः युधिष्ठिरं धर्मनित्यं पुरुहूतमिवेश्वरः
MBh 13.18.47
आदित्यचन्द्रावनिलानलौ च; द्यौर्भूमिरापो वसवोऽथ विश्वे धातार्यमा शुक्रबृहस्पती च; रुद्राः ससाध्या वरुणो वित्तगोपः
MBh 13.18.48
ब्रह्मा शक्रो मारुतो ब्रह्म सत्यं; वेदा यज्ञा दक्षिणा वेदवाहाः सोमो यष्टा यच्च हव्यं हविश्च; रक्षा दीक्षा नियमा ये च केचित्
MBh 13.18.49
स्वाहा वषड्ब्राह्मणाः सौरभेया; धर्मं चक्रं कालचक्रं चरं च यशो दमो बुद्धिमती स्थितिश्च; शुभाशुभं मुनयश्चैव सप्त
MBh 13.18.50
अग्र्या बुद्धिर्मनसा दर्शने च; स्पर्शे सिद्धिः कर्मणां या च सिद्धिः गणा देवानामूष्मपाः सोमपाश्च; लेखाः सुयामास्तुषिता ब्रह्मकायाः
MBh 13.18.51
आभास्वरा गन्धपा दृष्टिपाश्च; वाचा विरुद्धाश्च मनोविरुद्धाः शुद्धाश्च निर्वाणरताश्च देवाः; स्पर्शाशना दर्शपा आज्यपाश्च
MBh 13.18.52
चिन्तागता ये च देवेषु मुख्या; ये चाप्यन्ये देवताश्चाजमीढ सुपर्णगन्धर्वपिशाचदानवा; यक्षास्तथा पन्नगाश्चारणाश्च
MBh 13.18.53
सूक्ष्मं स्थूलं मृदु यच्चाप्यसूक्ष्मं; सुखं दुःखं सुखदुःखान्तरं च सांख्यं योगं यत्पराणां परं च; शर्वाज्जातं विद्धि यत्कीर्तितं मे
MBh 13.18.54
तत्संभूता भूतकृतो वरेण्याः; सर्वे देवा भुवनस्यास्य गोपाः आविश्येमां धरणीं येऽभ्यरक्ष;न्पुरातनीं तस्य देवस्य सृष्टिम्
MBh 13.18.55
विचिन्वन्तं मनसा तोष्टुवीमि; किंचित्तत्त्वं प्राणहेतोर्नतोऽस्मि ददातु देवः स वरानिहेष्टा;नभिष्टुतो नः प्रभुरव्ययः सदा
MBh 13.18.56
इमं स्तवं संनियम्येन्द्रियाणि; शुचिर्भूत्वा यः पुरुषः पठेत अभग्नयोगो नियतोऽब्दमेकं; स प्राप्नुयादश्वमेधे फलं यत्
MBh 13.18.57
वेदान्कृत्स्नान्ब्राह्मणः प्राप्नुयाच्च; जयेद्राजा पृथिवीं चापि कृत्स्नाम् वैश्यो लाभं प्राप्नुयान्नैपुणं च; शूद्रो गतिं प्रेत्य तथा सुखं च
MBh 13.18.58
स्तवराजमिमं कृत्वा रुद्राय दधिरे मनः सर्वदोषापहं पुण्यं पवित्रं च यशस्विनम्
MBh 13.18.59
यावन्त्यस्य शरीरेषु रोमकूपाणि भारत तावद्वर्षसहस्राणि स्वर्गे वसति मानवः

🪷 The Honest Framing

This chapter belongs to the source-pinned BORI Critical Edition-derived digital witness. Its unique addresses are publicly readable and indexable; this remains a digital-witness claim, not a claim that every Mahābhārata recension agrees word-for-word or that the traditional 100,000-verse extent is represented here.

Navigation

Sources and Connected Readings

Continue from these 59 source-pinned Devanāgarī addresses to Anuśāsana-Parva, the Mahābhārata reading map, and any exact Bhagavad-Gītā correspondence.

MBh 13.18local chapter route · Anuśāsana-ParvaAnuśāsana-Parvaparent Parva chapter index/mahabharata18-parva Sanskrit reading index with edition and address notesBhīṣma-ParvaMahābhārata Parva 6 · the Gītā lives in chapters 23-40MBh 6.23Bhagavad-Gītā chapter 1 in its Itihāsa homeMBh 6.40Bhagavad-Gītā chapter 18 in its Itihāsa homeRāmopākhyānaVana-Parva 258 · Vyāsa narrates the Rāma-kathā inside Krishna's epicNārāyaṇīyamŚānti-Parva 335 · Nārāyaṇa/Krishna/Viṣṇu/Vāsudeva unity witness/bhagavad-gitadeep Gītā corpus with translations, commentaries, and verse-level anchorsBG 1.1Dharma-kṣetra opening cross-anchored to MBh 6.23.1BG 18.66Carama-Śloka surrender seal inside the Bhīṣma-Parva arcVyāsa vibhūtiBG 10.37 · Krishna names Vyāsa among munisBG 10.37Vyāsa and Dhanañjaya as Krishna-vibhūti source routeŚB 1.2.11Brahman · Paramātmā · Bhagavān as one advaya-tattvaŚB 1.3.28kṛṣṇas tu bhagavān svayam · Vyāsa corpus source seal/binduDiamond of Darśanas · Itihāsa as one Bindu aperture/philosophyKrishna = Paramaatma = Parabrahman constitutional foundation

🪷 जय व्यास भगवान् 🪷