🪷 Mahābhārata · Anuśāsana-Parva · Chapter 17
The Book of the Final Teaching · Parva 13 · 171 unique Sanskrit addresses · pinned Critical Edition-derived witness
The Devanāgarī Yathārtha · 171 Shlokas
MBh 13.17.1
वासुदेव उवाच
ततः स प्रयतो भूत्वा मम तात युधिष्ठिर
प्राञ्जलिः प्राह विप्रर्षिर्नामसंहारमादितः
MBh 13.17.2
उपमन्युरुवाच
ब्रह्मप्रोक्तैरृषिप्रोक्तैर्वेदवेदाङ्गसंभवैः
सर्वलोकेषु विख्यातैः स्थाणुं स्तोष्यामि नामभिः
MBh 13.17.3
महद्भिर्विहितैः सत्यैः सिद्धैः सर्वार्थसाधकैः
ऋषिणा तण्डिना भक्त्या कृतैर्देवकृतात्मना
MBh 13.17.4
यथोक्तैर्लोकविख्यातैर्मुनिभिस्तत्त्वदर्शिभिः
प्रवरं प्रथमं स्वर्ग्यं सर्वभूतहितं शुभम्
श्रुतैः सर्वत्र जगति ब्रह्मलोकावतारितैः
MBh 13.17.5
यत्तद्रहस्यं परमं ब्रह्मप्रोक्तं सनातनम्
वक्ष्ये यदुकुलश्रेष्ठ शृणुष्वावहितो मम
MBh 13.17.6
परत्वेन भवं देवं भक्तस्त्वं परमेश्वरम्
तेन ते श्रावयिष्यामि यत्तद्ब्रह्म सनातनम्
MBh 13.17.7
न शक्यं विस्तरात्कृत्स्नं वक्तुं शर्वस्य केनचित्
युक्तेनापि विभूतीनामपि वर्षशतैरपि
MBh 13.17.8
यस्यादिर्मध्यमन्तश्च सुरैरपि न गम्यते
कस्तस्य शक्नुयाद्वक्तुं गुणान्कार्त्स्न्येन माधव
MBh 13.17.9
किं तु देवस्य महतः संक्षिप्तार्थपदाक्षरम्
शक्तितश्चरितं वक्ष्ये प्रसादात्तस्य चैव हि
MBh 13.17.10
अप्राप्येह ततोऽनुज्ञां न शक्यः स्तोतुमीश्वरः
यदा तेनाभ्यनुज्ञातः स्तुवत्येव सदा भवम्
MBh 13.17.11
अनादिनिधनस्याहं सर्वयोनेर्महात्मनः
नाम्नां कंचित्समुद्देशं वक्ष्ये ह्यव्यक्तयोनिनः
MBh 13.17.12
वरदस्य वरेण्यस्य विश्वरूपस्य धीमतः
शृणु नामसमुद्देशं यदुक्तं पद्मयोनिना
MBh 13.17.13
दश नामसहस्राणि यान्याह प्रपितामहः
तानि निर्मथ्य मनसा दध्नो घृतमिवोद्धृतम्
MBh 13.17.14
गिरेः सारं यथा हेम पुष्पात्सारं यथा मधु
घृतात्सारं यथा मण्डस्तथैतत्सारमुद्धृतम्
MBh 13.17.15
सर्वपाप्मापहमिदं चतुर्वेदसमन्वितम्
प्रयत्नेनाधिगन्तव्यं धार्यं च प्रयतात्मना
शान्तिकं पौष्टिकं चैव रक्षोघ्नं पावनं महत्
MBh 13.17.16
इदं भक्ताय दातव्यं श्रद्दधानास्तिकाय च
नाश्रद्दधानरूपाय नास्तिकायाजितात्मने
MBh 13.17.17
यश्चाभ्यसूयते देवं भूतात्मानं पिनाकिनम्
स कृष्ण नरकं याति सह पूर्वैः सहानुगैः
MBh 13.17.18
इदं ध्यानमिदं योगमिदं ध्येयमनुत्तमम्
इदं जप्यमिदं ज्ञानं रहस्यमिदमुत्तमम्
इदं ज्ञात्वान्तकालेऽपि गच्छेद्धि परमां गतिम्
MBh 13.17.19
पवित्रं मङ्गलं पुण्यं कल्याणमिदमुत्तमम्
निगदिष्ये महाबाहो स्तवानामुत्तमं स्तवम्
MBh 13.17.20
इदं ब्रह्मा पुरा कृत्वा सर्वलोकपितामहः
सर्वस्तवानां दिव्यानां राजत्वे समकल्पयत्
MBh 13.17.21
तदाप्रभृति चैवायमीश्वरस्य महात्मनः
स्तवराजेति विख्यातो जगत्यमरपूजितः
ब्रह्मलोकादयं चैव स्तवराजोऽवतारितः
MBh 13.17.22
यस्मात्तण्डिः पुरा प्राह तेन तण्डिकृतोऽभवत्
स्वर्गाच्चैवात्र भूलोकं तण्डिना ह्यवतारितः
MBh 13.17.23
सर्वमङ्गलमङ्गल्यं सर्वपापप्रणाशनम्
निगदिष्ये महाबाहो स्तवानामुत्तमं स्तवम्
MBh 13.17.24
ब्रह्मणामपि यद्ब्रह्म पराणामपि यत्परम्
तेजसामपि यत्तेजस्तपसामपि यत्तपः
MBh 13.17.25
शान्तीनामपि या शान्तिर्द्युतीनामपि या द्युतिः
दान्तानामपि यो दान्तो धीमतामपि या च धीः
MBh 13.17.26
देवानामपि यो देवो मुनीनामपि यो मुनिः
यज्ञानामपि यो यज्ञः शिवानामपि यः शिवः
MBh 13.17.27
रुद्राणामपि यो रुद्रः प्रभुः प्रभवतामपि
योगिनामपि यो योगी कारणानां च कारणम्
MBh 13.17.28
यतो लोकाः संभवन्ति न भवन्ति यतः पुनः
सर्वभूतात्मभूतस्य हरस्यामिततेजसः
MBh 13.17.29
अष्टोत्तरसहस्रं तु नाम्नां शर्वस्य मे शृणु
यच्छ्रुत्वा मनुजश्रेष्ठ सर्वान्कामानवाप्स्यसि
MBh 13.17.30
स्थिरः स्थाणुः प्रभुर्भानुः प्रवरो वरदो वरः
सर्वात्मा सर्वविख्यातः सर्वः सर्वकरो भवः
MBh 13.17.31
जटी चर्मी शिखण्डी च सर्वाङ्गः सर्वभावनः
हरिश्च हरिणाक्षश्च सर्वभूतहरः प्रभुः
MBh 13.17.32
प्रवृत्तिश्च निवृत्तिश्च नियतः शाश्वतो ध्रुवः
श्मशानचारी भगवान्खचरो गोचरोऽर्दनः
MBh 13.17.33
अभिवाद्यो महाकर्मा तपस्वी भूतभावनः
उन्मत्तवेशप्रच्छन्नः सर्वलोकप्रजापतिः
MBh 13.17.34
महारूपो महाकायः सर्वरूपो महायशाः
महात्मा सर्वभूतश्च विरूपो वामनो मनुः
MBh 13.17.35
लोकपालोऽन्तर्हितात्मा प्रसादो हयगर्दभिः
पवित्रश्च महांश्चैव नियमो नियमाश्रयः
MBh 13.17.36
सर्वकर्मा स्वयंभूश्च आदिरादिकरो निधिः
सहस्राक्षो विरूपाक्षः सोमो नक्षत्रसाधकः
MBh 13.17.37
चन्द्रसूर्यगतिः केतुर्ग्रहो ग्रहपतिर्वरः
अद्रिरद्र्यालयः कर्ता मृगबाणार्पणोऽनघः
MBh 13.17.38
महातपा घोरतपा अदीनो दीनसाधकः
संवत्सरकरो मन्त्रः प्रमाणं परमं तपः
MBh 13.17.39
योगी योज्यो महाबीजो महारेता महातपाः
सुवर्णरेताः सर्वज्ञः सुबीजो वृषवाहनः
MBh 13.17.40
दशबाहुस्त्वनिमिषो नीलकण्ठ उमापतिः
विश्वरूपः स्वयंश्रेष्ठो बलवीरो बलो गणः
MBh 13.17.41
गणकर्ता गणपतिर्दिग्वासाः काम्य एव च
पवित्रं परमं मन्त्रः सर्वभावकरो हरः
MBh 13.17.42
कमण्डलुधरो धन्वी बाणहस्तः कपालवान्
अशनी शतघ्नी खड्गी पट्टिशी चायुधी महान्
MBh 13.17.43
स्रुवहस्तः सुरूपश्च तेजस्तेजस्करो निधिः
उष्णीषी च सुवक्त्रश्च उदग्रो विनतस्तथा
MBh 13.17.44
दीर्घश्च हरिकेशश्च सुतीर्थः कृष्ण एव च
सृगालरूपः सर्वार्थो मुण्डः कुण्डी कमण्डलुः
MBh 13.17.45
अजश्च मृगरूपश्च गन्धधारी कपर्द्यपि
ऊर्ध्वरेता ऊर्ध्वलिङ्ग ऊर्ध्वशायी नभस्तलः
MBh 13.17.46
त्रिजटश्चीरवासाश्च रुद्रः सेनापतिर्विभुः
अहश्चरोऽथ नक्तं च तिग्ममन्युः सुवर्चसः
MBh 13.17.47
गजहा दैत्यहा लोको लोकधाता गुणाकरः
सिंहशार्दूलरूपश्च आर्द्रचर्माम्बरावृतः
MBh 13.17.48
कालयोगी महानादः सर्ववासश्चतुष्पथः
निशाचरः प्रेतचारी भूतचारी महेश्वरः
MBh 13.17.49
बहुभूतो बहुधनः सर्वाधारोऽमितो गतिः
नृत्यप्रियो नित्यनर्तो नर्तकः सर्वलासकः
MBh 13.17.50
घोरो महातपाः पाशो नित्यो गिरिचरो नभः
सहस्रहस्तो विजयो व्यवसायो ह्यनिन्दितः
MBh 13.17.51
अमर्षणो मर्षणात्मा यज्ञहा कामनाशनः
दक्षयज्ञापहारी च सुसहो मध्यमस्तथा
MBh 13.17.52
तेजोपहारी बलहा मुदितोऽर्थो जितो वरः
गम्भीरघोषो गम्भीरो गम्भीरबलवाहनः
MBh 13.17.53
न्यग्रोधरूपो न्यग्रोधो वृक्षकर्णस्थितिर्विभुः
तीक्ष्णतापश्च हर्यश्वः सहायः कर्मकालवित्
MBh 13.17.54
विष्णुप्रसादितो यज्ञः समुद्रो वडवामुखः
हुताशनसहायश्च प्रशान्तात्मा हुताशनः
MBh 13.17.55
उग्रतेजा महातेजा जयो विजयकालवित्
ज्योतिषामयनं सिद्धिः संधिर्विग्रह एव च
MBh 13.17.56
शिखी दण्डी जटी ज्वाली मूर्तिजो मूर्धगो बली
वैणवी पणवी ताली कालः कालकटंकटः
MBh 13.17.57
नक्षत्रविग्रहविधिर्गुणवृद्धिर्लयोऽगमः
प्रजापतिर्दिशाबाहुर्विभागः सर्वतोमुखः
MBh 13.17.58
विमोचनः सुरगणो हिरण्यकवचोद्भवः
मेढ्रजो बलचारी च महाचारी स्तुतस्तथा
MBh 13.17.59
सर्वतूर्यनिनादी च सर्ववाद्यपरिग्रहः
व्यालरूपो बिलावासी हेममाली तरंगवित्
MBh 13.17.60
त्रिदशस्त्रिकालधृक्कर्मसर्वबन्धविमोचनः
बन्धनस्त्वसुरेन्द्राणां युधि शत्रुविनाशनः
MBh 13.17.61
सांख्यप्रसादो दुर्वासाः सर्वसाधुनिषेवितः
प्रस्कन्दनो विभागश्च अतुल्यो यज्ञभागवित्
MBh 13.17.62
सर्वावासः सर्वचारी दुर्वासा वासवोऽमरः
हेमो हेमकरो यज्ञः सर्वधारी धरोत्तमः
MBh 13.17.63
लोहिताक्षो महाक्षश्च विजयाक्षो विशारदः
संग्रहो निग्रहः कर्ता सर्पचीरनिवासनः
MBh 13.17.64
मुख्योऽमुख्यश्च देहश्च देहर्द्धिः सर्वकामदः
सर्वकालप्रसादश्च सुबलो बलरूपधृक्
MBh 13.17.65
आकाशनिधिरूपश्च निपाती उरगः खगः
रौद्ररूपोंऽशुरादित्यो वसुरश्मिः सुवर्चसी
MBh 13.17.66
वसुवेगो महावेगो मनोवेगो निशाचरः
सर्वावासी श्रियावासी उपदेशकरो हरः
MBh 13.17.67
मुनिरात्मपतिर्लोके संभोज्यश्च सहस्रदः
पक्षी च पक्षिरूपी च अतिदीप्तो विशां पतिः
MBh 13.17.68
उन्मादो मदनाकारो अर्थार्थकररोमशः
वामदेवश्च वामश्च प्राग्दक्षिण्यश्च वामनः
MBh 13.17.69
सिद्धयोगापहारी च सिद्धः सर्वार्थसाधकः
भिक्षुश्च भिक्षुरूपश्च विषाणी मृदुरव्ययः
MBh 13.17.70
महासेनो विशाखश्च षष्टिभागो गवां पतिः
वज्रहस्तश्च विष्कम्भी चमूस्तम्भन एव च
MBh 13.17.71
ऋतुरृतुकरः कालो मधुर्मधुकरोऽचलः
वानस्पत्यो वाजसेनो नित्यमाश्रमपूजितः
MBh 13.17.72
ब्रह्मचारी लोकचारी सर्वचारी सुचारवित्
ईशान ईश्वरः कालो निशाचारी पिनाकधृक्
MBh 13.17.73
नन्दीश्वरश्च नन्दी च नन्दनो नन्दिवर्धनः
भगस्याक्षिनिहन्ता च कालो ब्रह्मविदां वरः
MBh 13.17.74
चतुर्मुखो महालिङ्गश्चारुलिङ्गस्तथैव च
लिङ्गाध्यक्षः सुराध्यक्षो लोकाध्यक्षो युगावहः
MBh 13.17.75
बीजाध्यक्षो बीजकर्ता अध्यात्मानुगतो बलः
इतिहासकरः कल्पो गौतमोऽथ जलेश्वरः
MBh 13.17.76
दम्भो ह्यदम्भो वैदम्भो वश्यो वश्यकरः कविः
लोककर्ता पशुपतिर्महाकर्ता महौषधिः
MBh 13.17.77
अक्षरं परमं ब्रह्म बलवाञ्शक्र एव च
नीतिर्ह्यनीतिः शुद्धात्मा शुद्धो मान्यो मनोगतिः
MBh 13.17.78
बहुप्रसादः स्वपनो दर्पणोऽथ त्वमित्रजित्
वेदकारः सूत्रकारो विद्वान्समरमर्दनः
MBh 13.17.79
महामेघनिवासी च महाघोरो वशीकरः
अग्निज्वालो महाज्वालो अतिधूम्रो हुतो हविः
MBh 13.17.80
वृषणः शंकरो नित्यो वर्चस्वी धूमकेतनः
नीलस्तथाङ्गलुब्धश्च शोभनो निरवग्रहः
MBh 13.17.81
स्वस्तिदः स्वस्तिभावश्च भागी भागकरो लघुः
उत्सङ्गश्च महाङ्गश्च महागर्भः परो युवा
MBh 13.17.82
कृष्णवर्णः सुवर्णश्च इन्द्रियः सर्वदेहिनाम्
महापादो महाहस्तो महाकायो महायशाः
MBh 13.17.83
महामूर्धा महामात्रो महानेत्रो दिगालयः
महादन्तो महाकर्णो महामेढ्रो महाहनुः
MBh 13.17.84
महानासो महाकम्बुर्महाग्रीवः श्मशानधृक्
महावक्षा महोरस्को अन्तरात्मा मृगालयः
MBh 13.17.85
लम्बनो लम्बितोष्ठश्च महामायः पयोनिधिः
महादन्तो महादंष्ट्रो महाजिह्वो महामुखः
MBh 13.17.86
महानखो महारोमा महाकेशो महाजटः
असपत्नः प्रसादश्च प्रत्ययो गिरिसाधनः
MBh 13.17.87
स्नेहनोऽस्नेहनश्चैव अजितश्च महामुनिः
वृक्षाकारो वृक्षकेतुरनलो वायुवाहनः
MBh 13.17.88
मण्डली मेरुधामा च देवदानवदर्पहा
अथर्वशीर्षः सामास्य ऋक्सहस्रामितेक्षणः
MBh 13.17.89
यजुःपादभुजो गुह्यः प्रकाशो जङ्गमस्तथा
अमोघार्थः प्रसादश्च अभिगम्यः सुदर्शनः
MBh 13.17.90
उपहारप्रियः शर्वः कनकः काञ्चनः स्थिरः
नाभिर्नन्दिकरो भाव्यः पुष्करस्थपतिः स्थिरः
MBh 13.17.91
द्वादशस्त्रासनश्चाद्यो यज्ञो यज्ञसमाहितः
नक्तं कलिश्च कालश्च मकरः कालपूजितः
MBh 13.17.92
सगणो गणकारश्च भूतभावनसारथिः
भस्मशायी भस्मगोप्ता भस्मभूतस्तरुर्गणः
MBh 13.17.93
अगणश्चैव लोपश्च महात्मा सर्वपूजितः
शङ्कुस्त्रिशङ्कुः संपन्नः शुचिर्भूतनिषेवितः
MBh 13.17.94
आश्रमस्थः कपोतस्थो विश्वकर्मा पतिर्वरः
शाखो विशाखस्ताम्रोष्ठो ह्यम्बुजालः सुनिश्चयः
MBh 13.17.95
कपिलोऽकपिलः शूर आयुश्चैव परोऽपरः
गन्धर्वो ह्यदितिस्तार्क्ष्यः सुविज्ञेयः सुसारथिः
MBh 13.17.96
परश्वधायुधो देव अर्थकारी सुबान्धवः
तुम्बवीणी महाकोप ऊर्ध्वरेता जलेशयः
MBh 13.17.97
उग्रो वंशकरो वंशो वंशनादो ह्यनिन्दितः
सर्वाङ्गरूपो मायावी सुहृदो ह्यनिलोऽनलः
MBh 13.17.98
बन्धनो बन्धकर्ता च सुबन्धनविमोचनः
स यज्ञारिः स कामारिर्महादंष्ट्रो महायुधः
MBh 13.17.99
बाहुस्त्वनिन्दितः शर्वः शंकरः शंकरोऽधनः
अमरेशो महादेवो विश्वदेवः सुरारिहा
MBh 13.17.100
अहिर्बुध्नो निरृतिश्च चेकितानो हरिस्तथा
अजैकपाच्च कापाली त्रिशङ्कुरजितः शिवः
MBh 13.17.101
धन्वन्तरिर्धूमकेतुः स्कन्दो वैश्रवणस्तथा
धाता शक्रश्च विष्णुश्च मित्रस्त्वष्टा ध्रुवो धरः
MBh 13.17.102
प्रभावः सर्वगो वायुरर्यमा सविता रविः
उदग्रश्च विधाता च मान्धाता भूतभावनः
MBh 13.17.103
रतितीर्थश्च वाग्मी च सर्वकामगुणावहः
पद्मगर्भो महागर्भश्चन्द्रवक्त्रो मनोरमः
MBh 13.17.104
बलवांश्चोपशान्तश्च पुराणः पुण्यचञ्चुरी
कुरुकर्ता कालरूपी कुरुभूतो महेश्वरः
MBh 13.17.105
सर्वाशयो दर्भशायी सर्वेषां प्राणिनां पतिः
देवदेवमुखोऽसक्तः सदसत्सर्वरत्नवित्
MBh 13.17.106
कैलासशिखरावासी हिमवद्गिरिसंश्रयः
कूलहारी कूलकर्ता बहुविद्यो बहुप्रदः
MBh 13.17.107
वणिजो वर्धनो वृक्षो नकुलश्चन्दनश्छदः
सारग्रीवो महाजत्रुरलोलश्च महौषधः
MBh 13.17.108
सिद्धार्थकारी सिद्धार्थश्छन्दोव्याकरणोत्तरः
सिंहनादः सिंहदंष्ट्रः सिंहगः सिंहवाहनः
MBh 13.17.109
प्रभावात्मा जगत्कालस्तालो लोकहितस्तरुः
सारङ्गो नवचक्राङ्गः केतुमाली सभावनः
MBh 13.17.110
भूतालयो भूतपतिरहोरात्रमनिन्दितः
वाहिता सर्वभूतानां निलयश्च विभुर्भवः
MBh 13.17.111
अमोघः संयतो ह्यश्वो भोजनः प्राणधारणः
धृतिमान्मतिमान्दक्षः सत्कृतश्च युगाधिपः
MBh 13.17.112
गोपालिर्गोपतिर्ग्रामो गोचर्मवसनो हरः
हिरण्यबाहुश्च तथा गुहापालः प्रवेशिनाम्
MBh 13.17.113
प्रतिष्ठायी महाहर्षो जितकामो जितेन्द्रियः
गन्धारश्च सुरालश्च तपःकर्मरतिर्धनुः
MBh 13.17.114
महागीतो महानृत्तो ह्यप्सरोगणसेवितः
महाकेतुर्धनुर्धातुर्नैकसानुचरश्चलः
MBh 13.17.115
आवेदनीय आवेशः सर्वगन्धसुखावहः
तोरणस्तारणो वायुः परिधावति चैकतः
MBh 13.17.116
संयोगो वर्धनो वृद्धो महावृद्धो गणाधिपः
नित्य आत्मसहायश्च देवासुरपतिः पतिः
MBh 13.17.117
युक्तश्च युक्तबाहुश्च द्विविधश्च सुपर्वणः
आषाढश्च सुषाढश्च ध्रुवो हरिहणो हरः
MBh 13.17.118
वपुरावर्तमानेभ्यो वसुश्रेष्ठो महापथः
शिरोहारी विमर्षश्च सर्वलक्षणभूषितः
MBh 13.17.119
अक्षश्च रथयोगी च सर्वयोगी महाबलः
समाम्नायोऽसमाम्नायस्तीर्थदेवो महारथः
MBh 13.17.120
निर्जीवो जीवनो मन्त्रः शुभाक्षो बहुकर्कशः
रत्नप्रभूतो रक्ताङ्गो महार्णवनिपानवित्
MBh 13.17.121
मूलो विशालो ह्यमृतो व्यक्ताव्यक्तस्तपोनिधिः
आरोहणो निरोहश्च शैलहारी महातपाः
MBh 13.17.122
सेनाकल्पो महाकल्पो युगायुगकरो हरिः
युगरूपो महारूपः पवनो गहनो नगः
MBh 13.17.123
न्यायनिर्वापणः पादः पण्डितो ह्यचलोपमः
बहुमालो महामालः सुमालो बहुलोचनः
MBh 13.17.124
विस्तारो लवणः कूपः कुसुमः सफलोदयः
वृषभो वृषभाङ्काङ्गो मणिबिल्वो जटाधरः
MBh 13.17.125
इन्दुर्विसर्गः सुमुखः सुरः सर्वायुधः सहः
निवेदनः सुधाजातः सुगन्धारो महाधनुः
MBh 13.17.126
गन्धमाली च भगवानुत्थानः सर्वकर्मणाम्
मन्थानो बहुलो बाहुः सकलः सर्वलोचनः
MBh 13.17.127
तरस्ताली करस्ताली ऊर्ध्वसंहननो वहः
छत्रं सुच्छत्रो विख्यातः सर्वलोकाश्रयो महान्
MBh 13.17.128
मुण्डो विरूपो विकृतो दण्डिमुण्डो विकुर्वणः
हर्यक्षः ककुभो वज्री दीप्तजिह्वः सहस्रपात्
MBh 13.17.129
सहस्रमूर्धा देवेन्द्रः सर्वदेवमयो गुरुः
सहस्रबाहुः सर्वाङ्गः शरण्यः सर्वलोककृत्
MBh 13.17.130
पवित्रं त्रिमधुर्मन्त्रः कनिष्ठः कृष्णपिङ्गलः
ब्रह्मदण्डविनिर्माता शतघ्नी शतपाशधृक्
MBh 13.17.131
पद्मगर्भो महागर्भो ब्रह्मगर्भो जलोद्भवः
गभस्तिर्ब्रह्मकृद्ब्रह्मा ब्रह्मविद्ब्राह्मणो गतिः
MBh 13.17.132
अनन्तरूपो नैकात्मा तिग्मतेजाः स्वयंभुवः
ऊर्ध्वगात्मा पशुपतिर्वातरंहा मनोजवः
MBh 13.17.133
चन्दनी पद्ममालाग्र्यः सुरभ्युत्तरणो नरः
कर्णिकारमहास्रग्वी नीलमौलिः पिनाकधृक्
MBh 13.17.134
उमापतिरुमाकान्तो जाह्नवीधृगुमाधवः
वरो वराहो वरदो वरेशः सुमहास्वनः
MBh 13.17.135
महाप्रसादो दमनः शत्रुहा श्वेतपिङ्गलः
प्रीतात्मा प्रयतात्मा च संयतात्मा प्रधानधृक्
MBh 13.17.136
सर्वपार्श्वसुतस्तार्क्ष्यो धर्मसाधारणो वरः
चराचरात्मा सूक्ष्मात्मा सुवृषो गोवृषेश्वरः
MBh 13.17.137
साध्यर्षिर्वसुरादित्यो विवस्वान्सविता मृडः
व्यासः सर्वस्य संक्षेपो विस्तरः पर्ययो नयः
MBh 13.17.138
ऋतुः संवत्सरो मासः पक्षः संख्यासमापनः
कला काष्ठा लवो मात्रा मुहूर्तोऽहः क्षपाः क्षणाः
MBh 13.17.139
विश्वक्षेत्रं प्रजाबीजं लिङ्गमाद्यस्त्वनिन्दितः
सदसद्व्यक्तमव्यक्तं पिता माता पितामहः
MBh 13.17.140
स्वर्गद्वारं प्रजाद्वारं मोक्षद्वारं त्रिविष्टपम्
निर्वाणं ह्लादनं चैव ब्रह्मलोकः परा गतिः
MBh 13.17.141
देवासुरविनिर्माता देवासुरपरायणः
देवासुरगुरुर्देवो देवासुरनमस्कृतः
MBh 13.17.142
देवासुरमहामात्रो देवासुरगणाश्रयः
देवासुरगणाध्यक्षो देवासुरगणाग्रणीः
MBh 13.17.143
देवातिदेवो देवर्षिर्देवासुरवरप्रदः
देवासुरेश्वरो देवो देवासुरमहेश्वरः
MBh 13.17.144
सर्वदेवमयोऽचिन्त्यो देवतात्मात्मसंभवः
उद्भिदस्त्रिक्रमो वैद्यो विरजो विरजोम्बरः
MBh 13.17.145
ईड्यो हस्ती सुरव्याघ्रो देवसिंहो नरर्षभः
विबुधाग्रवरः श्रेष्ठः सर्वदेवोत्तमोत्तमः
MBh 13.17.146
प्रयुक्तः शोभनो वज्र ईशानः प्रभुरव्ययः
गुरुः कान्तो निजः सर्गः पवित्रः सर्ववाहनः
MBh 13.17.147
शृङ्गी शृङ्गप्रियो बभ्रू राजराजो निरामयः
अभिरामः सुरगणो विरामः सर्वसाधनः
MBh 13.17.148
ललाटाक्षो विश्वदेहो हरिणो ब्रह्मवर्चसः
स्थावराणां पतिश्चैव नियमेन्द्रियवर्धनः
MBh 13.17.149
सिद्धार्थः सर्वभूतार्थोऽचिन्त्यः सत्यव्रतः शुचिः
व्रताधिपः परं ब्रह्म मुक्तानां परमा गतिः
MBh 13.17.150
विमुक्तो मुक्ततेजाश्च श्रीमाञ्श्रीवर्धनो जगत्
यथाप्रधानं भगवानिति भक्त्या स्तुतो मया
MBh 13.17.151
यं न ब्रह्मादयो देवा विदुर्यं न महर्षयः
तं स्तव्यमर्च्यं वन्द्यं च कः स्तोष्यति जगत्पतिम्
MBh 13.17.152
भक्तिमेव पुरस्कृत्य मया यज्ञपतिर्वसुः
ततोऽभ्यनुज्ञां प्राप्यैव स्तुतो मतिमतां वरः
MBh 13.17.153
शिवमेभिः स्तुवन्देवं नामभिः पुष्टिवर्धनैः
नित्ययुक्तः शुचिर्भूत्वा प्राप्नोत्यात्मानमात्मना
MBh 13.17.154
एतद्धि परमं ब्रह्म स्वयं गीतं स्वयंभुवा
ऋषयश्चैव देवाश्च स्तुवन्त्येतेन तत्परम्
MBh 13.17.155
स्तूयमानो महादेवः प्रीयते चात्मनामभिः
भक्तानुकम्पी भगवानात्मसंस्थान्करोति तान्
MBh 13.17.156
तथैव च मनुष्येषु ये मनुष्याः प्रधानतः
आस्तिकाः श्रद्दधानाश्च बहुभिर्जन्मभिः स्तवैः
MBh 13.17.157
जाग्रतश्च स्वपन्तश्च व्रजन्तः पथि संस्थिताः
स्तुवन्ति स्तूयमानाश्च तुष्यन्ति च रमन्ति च
जन्मकोटिसहस्रेषु नानासंसारयोनिषु
MBh 13.17.158
जन्तोर्विशुद्धपापस्य भवे भक्तिः प्रजायते
उत्पन्ना च भवे भक्तिरनन्या सर्वभावतः
MBh 13.17.159
कारणं भावितं तस्य सर्वमुक्तस्य सर्वतः
एतद्देवेषु दुष्प्रापं मनुष्येषु न लभ्यते
MBh 13.17.160
निर्विघ्ना निश्चला रुद्रे भक्तिरव्यभिचारिणी
तस्यैव च प्रसादेन भक्तिरुत्पद्यते नृणाम्
यया यान्ति परां सिद्धिं तद्भावगतचेतसः
MBh 13.17.161
ये सर्वभावोपगताः परत्वेनाभवन्नराः
प्रपन्नवत्सलो देवः संसारात्तान्समुद्धरेत्
MBh 13.17.162
एवमन्ये न कुर्वन्ति देवाः संसारमोचनम्
मनुष्याणां महादेवादन्यत्रापि तपोबलात्
MBh 13.17.163
इति तेनेन्द्रकल्पेन भगवान्सदसत्पतिः
कृत्तिवासाः स्तुतः कृष्ण तण्डिना शुद्धबुद्धिना
MBh 13.17.164
स्तवमेतं भगवतो ब्रह्मा स्वयमधारयत्
ब्रह्मा प्रोवाच शक्राय शक्रः प्रोवाच मृत्यवे
MBh 13.17.165
मृत्युः प्रोवाच रुद्राणां रुद्रेभ्यस्तण्डिमागमत्
महता तपसा प्राप्तस्तण्डिना ब्रह्मसद्मनि
MBh 13.17.166
तण्डिः प्रोवाच शुक्राय गौतमायाह भार्गवः
वैवस्वताय मनवे गौतमः प्राह माधव
MBh 13.17.167
नारायणाय साध्याय मनुरिष्टाय धीमते
यमाय प्राह भगवान्साध्यो नारायणोऽच्युतः
MBh 13.17.168
नाचिकेताय भगवानाह वैवस्वतो यमः
मार्कण्डेयाय वार्ष्णेय नाचिकेतोऽभ्यभाषत
MBh 13.17.169
मार्कण्डेयान्मया प्राप्तं नियमेन जनार्दन
तवाप्यहममित्रघ्न स्तवं दद्म्यद्य विश्रुतम्
स्वर्ग्यमारोग्यमायुष्यं धन्यं बल्यं तथैव च
MBh 13.17.170
न तस्य विघ्नं कुर्वन्ति दानवा यक्षराक्षसाः
पिशाचा यातुधानाश्च गुह्यका भुजगा अपि
MBh 13.17.171
यः पठेत शुचिर्भूत्वा ब्रह्मचारी जितेन्द्रियः
अभग्नयोगो वर्षं तु सोऽश्वमेधफलं लभेत्
🪷 The Honest Framing
This chapter belongs to the source-pinned BORI Critical Edition-derived digital witness. Its unique addresses are publicly readable and indexable; this remains a digital-witness claim, not a claim that every Mahābhārata recension agrees word-for-word or that the traditional 100,000-verse extent is represented here.
Navigation
- ← Anuśāsana-Parva chapter-index (154 chapters)
- ← Mahābhārata master-index (all 18 Parvas)
- ← Previous chapter · Anuśāsana-Parva Ch 16
- Next chapter · Anuśāsana-Parva Ch 18 →
Sources and Connected Readings
Continue from these 171 source-pinned Devanāgarī addresses to Anuśāsana-Parva, the Mahābhārata reading map, and any exact Bhagavad-Gītā correspondence.
MBh 13.17local chapter route · Anuśāsana-ParvaAnuśāsana-Parvaparent Parva chapter index/mahabharata18-parva Sanskrit reading index with edition and address notesBhīṣma-ParvaMahābhārata Parva 6 · the Gītā lives in chapters 23-40MBh 6.23Bhagavad-Gītā chapter 1 in its Itihāsa homeMBh 6.40Bhagavad-Gītā chapter 18 in its Itihāsa homeRāmopākhyānaVana-Parva 258 · Vyāsa narrates the Rāma-kathā inside Krishna's epicNārāyaṇīyamŚānti-Parva 335 · Nārāyaṇa/Krishna/Viṣṇu/Vāsudeva unity witness/bhagavad-gitadeep Gītā corpus with translations, commentaries, and verse-level anchorsBG 1.1Dharma-kṣetra opening cross-anchored to MBh 6.23.1BG 18.66Carama-Śloka surrender seal inside the Bhīṣma-Parva arcVyāsa vibhūtiBG 10.37 · Krishna names Vyāsa among munisBG 10.37Vyāsa and Dhanañjaya as Krishna-vibhūti source routeŚB 1.2.11Brahman · Paramātmā · Bhagavān as one advaya-tattvaŚB 1.3.28kṛṣṇas tu bhagavān svayam · Vyāsa corpus source seal/binduDiamond of Darśanas · Itihāsa as one Bindu aperture/philosophyKrishna = Paramaatma = Parabrahman constitutional foundation
🪷 जय व्यास भगवान् 🪷