🪷 Mahābhārata · Anuśāsana-Parva · Chapter 16

The Book of the Final Teaching · Parva 13 · 75 unique Sanskrit addresses · pinned Critical Edition-derived witness

The Devanāgarī Yathārtha · 75 Shlokas

MBh 13.16.1
कृष्ण उवाच मूर्ध्ना निपत्य नियतस्तेजःसंनिचये ततः परमं हर्षमागम्य भगवन्तमथाब्रुवम्
MBh 13.16.2
धर्मे दृढत्वं युधि शत्रुघातं; यशस्तथाग्र्यं परमं बलं च योगप्रियत्वं तव संनिकर्षं; वृणे सुतानां च शतं शतानि
MBh 13.16.3
एवमस्त्विति तद्वाक्यं मयोक्तः प्राह शंकरः
MBh 13.16.4
ततो मां जगतो माता धरणी सर्वपावनी उवाचोमा प्रणिहिता शर्वाणी तपसां निधिः
MBh 13.16.5
दत्तो भगवता पुत्रः साम्बो नाम तवानघ मत्तोऽप्यष्टौ वरानिष्टान्गृहाण त्वं ददामि ते प्रणम्य शिरसा सा च मयोक्ता पाण्डुनन्दन
MBh 13.16.6
द्विजेष्वकोपं पितृतः प्रसादं; शतं सुतानामुपभोगं परं च कुले प्रीतिं मातृतश्च प्रसादं; शमप्राप्तिं प्रवृणे चापि दाक्ष्यम्
MBh 13.16.7
देव्युवाच एवं भविष्यत्यमरप्रभाव; नाहं मृषा जातु वदे कदाचित् भार्यासहस्राणि च षोडशैव; तासु प्रियत्वं च तथाक्षयत्वम्
MBh 13.16.8
प्रीतिं चाग्र्यां बान्धवानां सकाशा;द्ददामि ते वपुषः काम्यतां च भोक्ष्यन्ते वै सप्ततिर्वै शतानि; गृहे तुभ्यमतिथीनां च नित्यम्
MBh 13.16.9
वासुदेव उवाच एवं दत्त्वा वरान्देवो मम देवी च भारत अन्तर्हितः क्षणे तस्मिन्सगणो भीमपूर्वज
MBh 13.16.10
एतदत्यद्भुतं सर्वं ब्राह्मणायातितेजसे उपमन्यवे मया कृत्स्नमाख्यातं कौरवोत्तम
MBh 13.16.11
नमस्कृत्वा तु स प्राह देवदेवाय सुव्रत नास्ति शर्वसमो दाने नास्ति शर्वसमो रणे नास्ति शर्वसमो देवो नास्ति शर्वसमा गतिः
MBh 13.16.12
ऋषिरासीत्कृते तात तण्डिरित्येव विश्रुतः दश वर्षसहस्राणि तेन देवः समाधिना आराधितोऽभूद्भक्तेन तस्योदर्कं निशामय
MBh 13.16.13
स दृष्टवान्महादेवमस्तौषीच्च स्तवैर्विभुम् पवित्राणां पवित्रस्त्वं गतिर्गतिमतां वर अत्युग्रं तेजसां तेजस्तपसां परमं तपः
MBh 13.16.14
विश्वावसुहिरण्याक्षपुरुहूतनमस्कृत भूरिकल्याणद विभो पुरुसत्य नमोऽस्तु ते
MBh 13.16.15
जातीमरणभीरूणां यतीनां यततां विभो निर्वाणद सहस्रांशो नमस्तेऽस्तु सुखाश्रय
MBh 13.16.16
ब्रह्मा शतक्रतुर्विष्णुर्विश्वेदेवा महर्षयः न विदुस्त्वां तु तत्त्वेन कुतो वेत्स्यामहे वयम्
MBh 13.16.17
त्वत्तः प्रवर्तते कालस्त्वयि कालश्च लीयते कालाख्यः पुरुषाख्यश्च ब्रह्माख्यश्च त्वमेव हि
MBh 13.16.18
तनवस्ते स्मृतास्तिस्रः पुराणज्ञैः सुरर्षिभिः अधिपौरुषमध्यात्ममधिभूताधिदैवतम् अधिलोक्याधिविज्ञानमधियज्ञस्त्वमेव हि
MBh 13.16.19
त्वां विदित्वात्मदेहस्थं दुर्विदं दैवतैरपि विद्वांसो यान्ति निर्मुक्ताः परं भावमनामयम्
MBh 13.16.20
अनिच्छतस्तव विभो जन्ममृत्युरनेकतः द्वारं त्वं स्वर्गमोक्षाणामाक्षेप्ता त्वं ददासि च
MBh 13.16.21
त्वमेव मोक्षः स्वर्गश्च कामः क्रोधस्त्वमेव हि सत्त्वं रजस्तमश्चैव अधश्चोर्ध्वं त्वमेव हि
MBh 13.16.22
ब्रह्मा विष्णुश्च रुद्रश्च स्कन्देन्द्रौ सविता यमः वरुणेन्दू मनुर्धाता विधाता त्वं धनेश्वरः
MBh 13.16.23
भूर्वायुर्ज्योतिरापश्च वाग्बुद्धिस्त्वं मतिर्मनः कर्म सत्यानृते चोभे त्वमेवास्ति च नास्ति च
MBh 13.16.24
इन्द्रियाणीन्द्रियार्थाश्च तत्परं प्रकृतेर्ध्रुवम् विश्वाविश्वपरो भावश्चिन्त्याचिन्त्यस्त्वमेव हि
MBh 13.16.25
यच्चैतत्परमं ब्रह्म यच्च तत्परमं पदम् या गतिः सांख्ययोगानां स भवान्नात्र संशयः
MBh 13.16.26
नूनमद्य कृतार्थाः स्म नूनं प्राप्ताः सतां गतिम् यां गतिं प्राप्नुवन्तीह ज्ञाननिर्मलबुद्धयः
MBh 13.16.27
अहो मूढाः स्म सुचिरमिमं कालमचेतसः यन्न विद्मः परं देवं शाश्वतं यं विदुर्बुधाः
MBh 13.16.28
सोऽयमासादितः साक्षाद्बहुभिर्जन्मभिर्मया भक्तानुग्रहकृद्देवो यं ज्ञात्वामृतमश्नुते
MBh 13.16.29
देवासुरमनुष्याणां यच्च गुह्यं सनातनम् गुहायां निहितं ब्रह्म दुर्विज्ञेयं सुरैरपि
MBh 13.16.30
स एष भगवान्देवः सर्वकृत्सर्वतोमुखः सर्वात्मा सर्वदर्शी च सर्वगः सर्ववेदिता
MBh 13.16.31
प्राणकृत्प्राणभृत्प्राणी प्राणदः प्राणिनां गतिः देहकृद्देहभृद्देही देहभुग्देहिनां गतिः
MBh 13.16.32
अध्यात्मगतिनिष्ठानां ध्यानिनामात्मवेदिनाम् अपुनर्मारकामानां या गतिः सोऽयमीश्वरः
MBh 13.16.33
अयं च सर्वभूतानां शुभाशुभगतिप्रदः अयं च जन्ममरणे विदध्यात्सर्वजन्तुषु
MBh 13.16.34
अयं च सिद्धिकामानामृषीणां सिद्धिदः प्रभुः अयं च मोक्षकामानां द्विजानां मोक्षदः प्रभुः
MBh 13.16.35
भूराद्यान्सर्वभुवनानुत्पाद्य सदिवौकसः विभर्ति देवस्तनुभिरष्टाभिश्च ददाति च
MBh 13.16.36
अतः प्रवर्तते सर्वमस्मिन्सर्वं प्रतिष्ठितम् अस्मिंश्च प्रलयं याति अयमेकः सनातनः
MBh 13.16.37
अयं स सत्यकामानां सत्यलोकः परः सताम् अपवर्गश्च मुक्तानां कैवल्यं चात्मवादिनाम्
MBh 13.16.38
अयं ब्रह्मादिभिः सिद्धैर्गुहायां गोपितः प्रभुः देवासुरमनुष्याणां न प्रकाशो भवेदिति
MBh 13.16.39
तं त्वां देवासुरनरास्तत्त्वेन न विदुर्भवम् मोहिताः खल्वनेनैव हृच्छयेन प्रवेशिताः
MBh 13.16.40
ये चैनं संप्रपद्यन्ते भक्तियोगेन भारत तेषामेवात्मनात्मानं दर्शयत्येष हृच्छयः
MBh 13.16.41
यं ज्ञात्वा न पुनर्जन्म मरणं चापि विद्यते यं विदित्वा परं वेद्यं वेदितव्यं न विद्यते
MBh 13.16.42
यं लब्ध्वा परमं लाभं मन्यते नाधिकं पुनः प्राणसूक्ष्मां परां प्राप्तिमागच्छत्यक्षयावहाम्
MBh 13.16.43
यं सांख्या गुणतत्त्वज्ञाः सांख्यशास्त्रविशारदाः सूक्ष्मज्ञानरताः पूर्वं ज्ञात्वा मुच्यन्ति बन्धनैः
MBh 13.16.44
यं च वेदविदो वेद्यं वेदान्तेषु प्रतिष्ठितम् प्राणायामपरा नित्यं यं विशन्ति जपन्ति च
MBh 13.16.45
अयं स देवयानानामादित्यो द्वारमुच्यते अयं च पितृयानानां चन्द्रमा द्वारमुच्यते
MBh 13.16.46
एष कालगतिश्चित्रा संवत्सरयुगादिषु भावाभावौ तदात्वे च अयने दक्षिणोत्तरे
MBh 13.16.47
एवं प्रजापतिः पूर्वमाराध्य बहुभिः स्तवैः वरयामास पुत्रत्वे नीललोहितसंज्ञितम्
MBh 13.16.48
ऋग्भिर्यमनुशंसन्ति तन्त्रे कर्मणि बह्वृचः यजुर्भिर्यं त्रिधा वेद्यं जुह्वत्यध्वर्यवोऽध्वरे
MBh 13.16.49
सामभिर्यं च गायन्ति सामगाः शुद्धबुद्धयः यज्ञस्य परमा योनिः पतिश्चायं परः स्मृतः
MBh 13.16.50
रात्र्यहःश्रोत्रनयनः पक्षमासशिरोभुजः ऋतुवीर्यस्तपोधैर्यो ह्यब्दगुह्योरुपादवान्
MBh 13.16.51
मृत्युर्यमो हुताशश्च कालः संहारवेगवान् कालस्य परमा योनिः कालश्चायं सनातनः
MBh 13.16.52
चन्द्रादित्यौ सनक्षत्रौ सग्रहौ सह वायुना ध्रुवः सप्तर्षयश्चैव भुवनाः सप्त एव च
MBh 13.16.53
प्रधानं महदव्यक्तं विशेषान्तं सवैकृतम् ब्रह्मादि स्तम्बपर्यन्तं भूतादि सदसच्च यत्
MBh 13.16.54
अष्टौ प्रकृतयश्चैव प्रकृतिभ्यश्च यत्परम् अस्य देवस्य यद्भागं कृत्स्नं संपरिवर्तते
MBh 13.16.55
एतत्परममानन्दं यत्तच्छाश्वतमेव च एषा गतिर्विरक्तानामेष भावः परः सताम्
MBh 13.16.56
एतत्पदमनुद्विग्नमेतद्ब्रह्म सनातनम् शास्त्रवेदाङ्गविदुषामेतद्ध्यानं परं पदम्
MBh 13.16.57
इयं सा परमा काष्ठा इयं सा परमा कला इयं सा परमा सिद्धिरियं सा परमा गतिः
MBh 13.16.58
इयं सा परमा शान्तिरियं सा निर्वृतिः परा यं प्राप्य कृतकृत्याः स्म इत्यमन्यन्त वेधसः
MBh 13.16.59
इयं तुष्टिरियं सिद्धिरियं श्रुतिरियं स्मृतिः अध्यात्मगतिनिष्ठानां विदुषां प्राप्तिरव्यया
MBh 13.16.60
यजतां यज्ञकामानां यज्ञैर्विपुलदक्षिणैः या गतिर्दैवतैर्दिव्या सा गतिस्त्वं सनातन
MBh 13.16.61
जप्यहोमव्रतैः कृच्छ्रैर्नियमैर्देहपातनैः तप्यतां या गतिर्देव वैराजे सा गतिर्भवान्
MBh 13.16.62
कर्मन्यासकृतानां च विरक्तानां ततस्ततः या गतिर्ब्रह्मभवने सा गतिस्त्वं सनातन
MBh 13.16.63
अपुनर्मारकामानां वैराग्ये वर्ततां परे विकृतीनां लयानां च सा गतिस्त्वं सनातन
MBh 13.16.64
ज्ञानविज्ञाननिष्ठानां निरुपाख्या निरञ्जना कैवल्या या गतिर्देव परमा सा गतिर्भवान्
MBh 13.16.65
वेदशास्त्रपुराणोक्ताः पञ्चैता गतयः स्मृताः त्वत्प्रसादाद्धि लभ्यन्ते न लभ्यन्तेऽन्यथा विभो
MBh 13.16.66
इति तण्डिस्तपोयोगात्तुष्टावेशानमव्ययम् जगौ च परमं ब्रह्म यत्पुरा लोककृज्जगौ
MBh 13.16.67
ब्रह्मा शतक्रतुर्विष्णुर्विश्वेदेवा महर्षयः न विदुस्त्वामिति ततस्तुष्टः प्रोवाच तं शिवः
MBh 13.16.68
अक्षयश्चाव्ययश्चैव भविता दुःखवर्जितः यशस्वी तेजसा युक्तो दिव्यज्ञानसमन्वितः
MBh 13.16.69
ऋषीणामभिगम्यश्च सूत्रकर्ता सुतस्तव मत्प्रसादाद्द्विजश्रेष्ठ भविष्यति न संशयः
MBh 13.16.70
कं वा कामं ददाम्यद्य ब्रूहि यद्वत्स काङ्क्षसे प्राञ्जलिः स उवाचेदं त्वयि भक्तिर्दृढास्तु मे
MBh 13.16.71
एवं दत्त्वा वरं देवो वन्द्यमानः सुरर्षिभिः स्तूयमानश्च विबुधैस्तत्रैवान्तरधीयत
MBh 13.16.72
अन्तर्हिते भगवति सानुगे यादवेश्वर ऋषिराश्रममागम्य ममैतत्प्रोक्तवानिह
MBh 13.16.73
यानि च प्रथितान्यादौ तण्डिराख्यातवान्मम नामानि मानवश्रेष्ठ तानि त्वं शृणु सिद्धये
MBh 13.16.74
दश नामसहस्राणि वेदेष्वाह पितामहः शर्वस्य शास्त्रेषु तथा दश नामशतानि वै
MBh 13.16.75
गुह्यानीमानि नामानि तण्डिर्भगवतोऽच्युत देवप्रसादाद्देवेश पुरा प्राह महात्मने

🪷 The Honest Framing

This chapter belongs to the source-pinned BORI Critical Edition-derived digital witness. Its unique addresses are publicly readable and indexable; this remains a digital-witness claim, not a claim that every Mahābhārata recension agrees word-for-word or that the traditional 100,000-verse extent is represented here.

Navigation

Sources and Connected Readings

Continue from these 75 source-pinned Devanāgarī addresses to Anuśāsana-Parva, the Mahābhārata reading map, and any exact Bhagavad-Gītā correspondence.

MBh 13.16local chapter route · Anuśāsana-ParvaAnuśāsana-Parvaparent Parva chapter index/mahabharata18-parva Sanskrit reading index with edition and address notesBhīṣma-ParvaMahābhārata Parva 6 · the Gītā lives in chapters 23-40MBh 6.23Bhagavad-Gītā chapter 1 in its Itihāsa homeMBh 6.40Bhagavad-Gītā chapter 18 in its Itihāsa homeRāmopākhyānaVana-Parva 258 · Vyāsa narrates the Rāma-kathā inside Krishna's epicNārāyaṇīyamŚānti-Parva 335 · Nārāyaṇa/Krishna/Viṣṇu/Vāsudeva unity witness/bhagavad-gitadeep Gītā corpus with translations, commentaries, and verse-level anchorsBG 1.1Dharma-kṣetra opening cross-anchored to MBh 6.23.1BG 18.66Carama-Śloka surrender seal inside the Bhīṣma-Parva arcVyāsa vibhūtiBG 10.37 · Krishna names Vyāsa among munisBG 10.37Vyāsa and Dhanañjaya as Krishna-vibhūti source routeŚB 1.2.11Brahman · Paramātmā · Bhagavān as one advaya-tattvaŚB 1.3.28kṛṣṇas tu bhagavān svayam · Vyāsa corpus source seal/binduDiamond of Darśanas · Itihāsa as one Bindu aperture/philosophyKrishna = Paramaatma = Parabrahman constitutional foundation

🪷 जय व्यास भगवान् 🪷