🪷 Mahābhārata · Anuśāsana-Parva · Chapter 15
The Book of the Final Teaching · Parva 13 · 51 unique Sanskrit addresses · pinned Critical Edition-derived witness
The Devanāgarī Yathārtha · 51 Shlokas
MBh 13.15.1
उपमन्युरुवाच
एतान्सहस्रशश्चान्यान्समनुध्यातवान्हरः
कस्मात्प्रसादं भगवान्न कुर्यात्तव माधव
MBh 13.15.2
त्वादृशेन हि देवानां श्लाघनीयः समागमः
ब्रह्मण्येनानृशंसेन श्रद्दधानेन चाप्युत
जप्यं च ते प्रदास्यामि येन द्रक्ष्यसि शंकरम्
MBh 13.15.3
कृष्ण उवाच
अब्रुवं तमहं ब्रह्मंस्त्वत्प्रसादान्महामुने
द्रक्ष्ये दितिजसंघानां मर्दनं त्रिदशेश्वरम्
MBh 13.15.4
दिनेऽष्टमे च विप्रेण दीक्षितोऽहं यथाविधि
दण्डी मुण्डी कुशी चीरी घृताक्तो मेखली तथा
MBh 13.15.5
मासमेकं फलाहारो द्वितीयं सलिलाशनः
तृतीयं च चतुर्थं च पञ्चमं चानिलाशनः
MBh 13.15.6
एकपादेन तिष्ठंश्च ऊर्ध्वबाहुरतन्द्रितः
तेजः सूर्यसहस्रस्य अपश्यं दिवि भारत
MBh 13.15.7
तस्य मध्यगतं चापि तेजसः पाण्डुनन्दन
इन्द्रायुधपिनद्धाङ्गं विद्युन्मालागवाक्षकम्
नीलशैलचयप्रख्यं बलाकाभूषितं घनम्
MBh 13.15.8
तमास्थितश्च भगवान्देव्या सह महाद्युतिः
तपसा तेजसा कान्त्या दीप्तया सह भार्यया
MBh 13.15.9
रराज भगवांस्तत्र देव्या सह महेश्वरः
सोमेन सहितः सूर्यो यथा मेघस्थितस्तथा
MBh 13.15.10
संहृष्टरोमा कौन्तेय विस्मयोत्फुल्ललोचनः
अपश्यं देवसंघानां गतिमार्तिहरं हरम्
MBh 13.15.11
किरीटिनं गदिनं शूलपाणिं; व्याघ्राजिनं जटिलं दण्डपाणिम्
पिनाकिनं वज्रिणं तीक्ष्णदंष्ट्रं; शुभाङ्गदं व्यालयज्ञोपवीतम्
MBh 13.15.12
दिव्यां मालामुरसानेकवर्णां; समुद्वहन्तं गुल्फदेशावलम्बाम्
चन्द्रं यथा परिविष्टं ससंध्यं; वर्षात्यये तद्वदपश्यमेनम्
MBh 13.15.13
प्रमथानां गणैश्चैव समन्तात्परिवारितम्
शरदीव सुदुष्प्रेक्ष्यं परिविष्टं दिवाकरम्
MBh 13.15.14
एकादश तथा चैनं रुद्राणां वृषवाहनम्
अस्तुवन्नियतात्मानः कर्मभिः शुभकर्मिणम्
MBh 13.15.15
आदित्या वसवः साध्या विश्वेदेवास्तथाश्विनौ
विश्वाभिः स्तुतिभिर्देवं विश्वदेवं समस्तुवन्
MBh 13.15.16
शतक्रतुश्च भगवान्विष्णुश्चादितिनन्दनौ
ब्रह्मा रथन्तरं साम ईरयन्ति भवान्तिके
MBh 13.15.17
योगीश्वराः सुबहवो योगदं पितरं गुरुम्
ब्रह्मर्षयश्च ससुतास्तथा देवर्षयश्च वै
MBh 13.15.18
पृथिवी चान्तरिक्षं च नक्षत्राणि ग्रहास्तथा
मासार्धमासा ऋतवो रात्र्यः संवत्सराः क्षणाः
MBh 13.15.19
मुहूर्ताश्च निमेषाश्च तथैव युगपर्ययाः
दिव्या राजन्नमस्यन्ति विद्याः सर्वा दिशस्तथा
MBh 13.15.20
सनत्कुमारो वेदाश्च इतिहासास्तथैव च
मरीचिरङ्गिरा अत्रिः पुलस्त्यः पुलहः क्रतुः
MBh 13.15.21
मनवः सप्तसोमश्च अथर्वा सबृहस्पतिः
भृगुर्दक्षः कश्यपश्च वसिष्ठः काश्य एव च
MBh 13.15.22
छन्दांसि दीक्षा यज्ञाश्च दक्षिणाः पावको हविः
यज्ञोपगानि द्रव्याणि मूर्तिमन्ति युधिष्ठिर
MBh 13.15.23
प्रजानां पतयः सर्वे सरितः पन्नगा नगाः
देवानां मातरः सर्वा देवपत्न्यः सकन्यकाः
MBh 13.15.24
सहस्राणि मुनीनां च अयुतान्यर्बुदानि च
नमस्यन्ति प्रभुं शान्तं पर्वताः सागरा दिशः
MBh 13.15.25
गन्धर्वाप्सरसश्चैव गीतवादित्रकोविदाः
दिव्यतानेन गायन्तः स्तुवन्ति भवमद्भुतम्
विद्याधरा दानवाश्च गुह्यका राक्षसास्तथा
MBh 13.15.26
सर्वाणि चैव भूतानि स्थावराणि चराणि च
नमस्यन्ति महाराज वाङ्मनःकर्मभिर्विभुम्
पुरस्ताद्विष्ठितः शर्वो ममासीत्त्रिदशेश्वरः
MBh 13.15.27
पुरस्ताद्विष्ठितं दृष्ट्वा ममेशानं च भारत
सप्रजापतिशक्रान्तं जगन्मामभ्युदैक्षत
MBh 13.15.28
ईक्षितुं च महादेवं न मे शक्तिरभूत्तदा
ततो मामब्रवीद्देवः पश्य कृष्ण वदस्व च
MBh 13.15.29
शिरसा वन्दिते देवे देवी प्रीता उमाभवत्
ततोऽहमस्तुवं स्थाणुं स्तुतं ब्रह्मादिभिः सुरैः
MBh 13.15.30
नमोऽस्तु ते शाश्वत सर्वयोने; ब्रह्माधिपं त्वामृषयो वदन्ति
तपश्च सत्त्वं च रजस्तमश्च; त्वामेव सत्यं च वदन्ति सन्तः
MBh 13.15.31
त्वं वै ब्रह्मा च रुद्रश्च वरुणोऽग्निर्मनुर्भवः
धाता त्वष्टा विधाता च त्वं प्रभुः सर्वतोमुखः
MBh 13.15.32
त्वत्तो जातानि भूतानि स्थावराणि चराणि च
त्वमादिः सर्वभूतानां संहारश्च त्वमेव हि
MBh 13.15.33
ये चेन्द्रियार्थाश्च मनश्च कृत्स्नं; ये वायवः सप्त तथैव चाग्निः
ये वा दिविस्था देवताश्चापि पुंसां; तस्मात्परं त्वामृषयो वदन्ति
MBh 13.15.34
वेदा यज्ञाश्च सोमश्च दक्षिणा पावको हविः
यज्ञोपगं च यत्किंचिद्भगवांस्तदसंशयम्
MBh 13.15.35
इष्टं दत्तमधीतं च व्रतानि नियमाश्च ये
ह्रीः कीर्तिः श्रीर्द्युतिस्तुष्टिः सिद्धिश्चैव त्वदर्पणा
MBh 13.15.36
कामः क्रोधो भयं लोभो मदः स्तम्भोऽथ मत्सरः
आधयो व्याधयश्चैव भगवंस्तनयास्तव
MBh 13.15.37
कृतिर्विकारः प्रलयः प्रधानं प्रभवोऽव्ययः
मनसः परमा योनिः स्वभावश्चापि शाश्वतः
अव्यक्तः पावन विभो सहस्रांशो हिरण्मयः
MBh 13.15.38
आदिर्गुणानां सर्वेषां भवान्वै जीवनाश्रयः
महानात्मा मतिर्ब्रह्मा विश्वः शंभुः स्वयंभुवः
MBh 13.15.39
बुद्धिः प्रज्ञोपलब्धिश्च संवित्ख्यातिर्धृतिः स्मृतिः
पर्यायवाचकैः शब्दैर्महानात्मा विभाव्यसे
MBh 13.15.40
त्वां बुद्ध्वा ब्राह्मणो विद्वान्न प्रमोहं निगच्छति
हृदयं सर्वभूतानां क्षेत्रज्ञस्त्वमृषिष्टुतः
MBh 13.15.41
सर्वतःपाणिपादस्त्वं सर्वतोक्षिशिरोमुखः
सर्वतःश्रुतिमाँल्लोके सर्वमावृत्य तिष्ठसि
MBh 13.15.42
फलं त्वमसि तिग्मांशो निमेषादिषु कर्मसु
त्वं वै प्रभार्चिः पुरुषः सर्वस्य हृदि संस्थितः
अणिमा लघिमा प्राप्तिरीशानो ज्योतिरव्ययः
MBh 13.15.43
त्वयि बुद्धिर्मतिर्लोकाः प्रपन्नाः संश्रिताश्च ये
ध्यानिनो नित्ययोगाश्च सत्यसंधा जितेन्द्रियाः
MBh 13.15.44
यस्त्वां ध्रुवं वेदयते गुहाशयं; प्रभुं पुराणं पुरुषं विश्वरूपम्
हिरण्मयं बुद्धिमतां परां गतिं; स बुद्धिमान्बुद्धिमतीत्य तिष्ठति
MBh 13.15.45
विदित्वा सप्त सूक्ष्माणि षडङ्गं त्वां च मूर्तितः
प्रधानविधियोगस्थस्त्वामेव विशते बुधः
MBh 13.15.46
एवमुक्ते मया पार्थ भवे चार्तिविनाशने
चराचरं जगत्सर्वं सिंहनादमथाकरोत्
MBh 13.15.47
सविप्रसंघाश्च सुरासुराश्च; नागाः पिशाचाः पितरो वयांसि
रक्षोगणा भूतगणाश्च सर्वे; महर्षयश्चैव तथा प्रणेमुः
MBh 13.15.48
मम मूर्ध्नि च दिव्यानां कुसुमानां सुगन्धिनाम्
राशयो निपतन्ति स्म वायुश्च सुसुखो ववौ
MBh 13.15.49
निरीक्ष्य भगवान्देवीमुमां मां च जगद्धितः
शतक्रतुं चाभिवीक्ष्य स्वयं मामाह शंकरः
MBh 13.15.50
विद्मः कृष्ण परां भक्तिमस्मासु तव शत्रुहन्
क्रियतामात्मनः श्रेयः प्रीतिर्हि परमा त्वयि
MBh 13.15.51
वृणीष्वाष्टौ वरान्कृष्ण दातास्मि तव सत्तम
ब्रूहि यादवशार्दूल यानिच्छसि सुदुर्लभान्
🪷 The Honest Framing
This chapter belongs to the source-pinned BORI Critical Edition-derived digital witness. Its unique addresses are publicly readable and indexable; this remains a digital-witness claim, not a claim that every Mahābhārata recension agrees word-for-word or that the traditional 100,000-verse extent is represented here.
Navigation
- ← Anuśāsana-Parva chapter-index (154 chapters)
- ← Mahābhārata master-index (all 18 Parvas)
- ← Previous chapter · Anuśāsana-Parva Ch 14
- Next chapter · Anuśāsana-Parva Ch 16 →
Sources and Connected Readings
Continue from these 51 source-pinned Devanāgarī addresses to Anuśāsana-Parva, the Mahābhārata reading map, and any exact Bhagavad-Gītā correspondence.
MBh 13.15local chapter route · Anuśāsana-ParvaAnuśāsana-Parvaparent Parva chapter index/mahabharata18-parva Sanskrit reading index with edition and address notesBhīṣma-ParvaMahābhārata Parva 6 · the Gītā lives in chapters 23-40MBh 6.23Bhagavad-Gītā chapter 1 in its Itihāsa homeMBh 6.40Bhagavad-Gītā chapter 18 in its Itihāsa homeRāmopākhyānaVana-Parva 258 · Vyāsa narrates the Rāma-kathā inside Krishna's epicNārāyaṇīyamŚānti-Parva 335 · Nārāyaṇa/Krishna/Viṣṇu/Vāsudeva unity witness/bhagavad-gitadeep Gītā corpus with translations, commentaries, and verse-level anchorsBG 1.1Dharma-kṣetra opening cross-anchored to MBh 6.23.1BG 18.66Carama-Śloka surrender seal inside the Bhīṣma-Parva arcVyāsa vibhūtiBG 10.37 · Krishna names Vyāsa among munisBG 10.37Vyāsa and Dhanañjaya as Krishna-vibhūti source routeŚB 1.2.11Brahman · Paramātmā · Bhagavān as one advaya-tattvaŚB 1.3.28kṛṣṇas tu bhagavān svayam · Vyāsa corpus source seal/binduDiamond of Darśanas · Itihāsa as one Bindu aperture/philosophyKrishna = Paramaatma = Parabrahman constitutional foundation
🪷 जय व्यास भगवान् 🪷