🪷 Mahābhārata · Anuśāsana-Parva · Chapter 14

The Book of the Final Teaching · Parva 13 · 199 shlokas in canonical Devanāgarī Sanskrit

Mahābhārata Detail Source-Anchor Spine

This chapter page keeps the local Devanāgarī chapter tied to its Parva, the Mahābhārata master route, any exact Gītā cross-anchor, and the wider Vyāsa source spine.

MBh 13.14local chapter route · Anuśāsana-ParvaAnuśāsana-Parvaparent Parva chapter index/mahabharatamaster index for all 18 Parvas and 73,821 ślokasBhīṣma-ParvaMahābhārata Parva 6 · the Gītā lives in chapters 23-40MBh 6.23Bhagavad-Gītā chapter 1 in its Itihāsa homeMBh 6.40Bhagavad-Gītā chapter 18 in its Itihāsa homeRāmopākhyānaVana-Parva 258 · Vyāsa narrates the Rāma-kathā inside Krishna's epicNārāyaṇīyamŚānti-Parva 335 · Nārāyaṇa/Krishna/Viṣṇu/Vāsudeva unity witness/bhagavad-gitadeep Gītā corpus with translations, commentaries, and verse-level anchorsBG 1.1Dharma-kṣetra opening cross-anchored to MBh 6.23.1BG 18.66Carama-Śloka surrender seal inside the Bhīṣma-Parva arcVyāsa vibhūtiBG 10.37 · Krishna names Vyāsa among munisBG 10.37Vyāsa and Dhanañjaya as Krishna-vibhūti source routeŚB 1.2.11Brahman · Paramātmā · Bhagavān as one advaya-tattvaŚB 1.3.28kṛṣṇas tu bhagavān svayam · Vyāsa corpus source seal/binduDiamond of Darśanas · Itihāsa as one Bindu aperture/philosophyKrishna = Paramaatma = Parabrahman constitutional foundation

The Devanāgarī Yathārtha · 199 Shlokas

MBh 13.14.1
[य] पितामहेशाय विभॊ नामान्य आचक्ष्व शम्भवे बभ्रवे विश्वमायाय महाभाग्यं च तत्त्वतः
MBh 13.14.2
[भ] सुरासुरगुरॊ देव विष्णॊ तवं वक्तुम अर्हसि शिवाय विश्वरूपाय यन मां पृच्छद युधिष्ठिरः
MBh 13.14.3
नाम्नां सहस्रं देवस्य तण्डिना बरह्मयॊनिना निवेदितं बरह्मलॊके बरह्मणॊ यत पुराभवत
MBh 13.14.4
दवैपायनप्रभृतयस तथैवेमे तपॊधनाः ऋषयः सुव्रता दान्ताः शृण्वन्तु गदतस तव
MBh 13.14.5
धरुवाय नन्दिने हॊत्रे गॊप्त्रे विश्वसृजे ऽगनये महाभाग्यं विभॊ बरूहि मुण्डिने ऽथ कपर्दिने
MBh 13.14.6
[वासुदेव] न गतिः कर्मणां शक्या वेत्तुम ईशस्य तत्त्वतः
MBh 13.14.7
हिरण्यगर्भप्रमुखा देवाः सेन्द्रा महर्षयः न विदुर यस्य निधनम आधिं वा सूक्ष्मदर्शिनः स कथं नरमात्रेण शक्यॊ जञातुं सतां गतिः
MBh 13.14.8
तस्याहम असुरघ्नस्य कांश चिद भगवतॊ गुणान भवतां कीर्तयिष्यामि वरतेशाय यथातथम
MBh 13.14.9
[व] एवम उक्त्वा तु भगवान गुणांस तस्य महात्मनः उपस्पृश्य शुचिर भूवा कथयाम आस धीमतः
MBh 13.14.10
[व] शुश्रूषध्वं बराह्मणेन्द्रास तवं च तात युधिष्ठिर तवं चापगेय नामानि निशामय जगत्पतेः
MBh 13.14.11
यद अवाप्तं च मे पूर्वं साम्ब हेतॊः सुदुष्करम यथा च भगवान दृष्टॊ मया पूर्वं समाधिना
MBh 13.14.12
शम्बरे निहते पूर्वं रौक्मिणेयेन धीमता अतीते दवादशे वर्षे जाम्बवत्य अब्रवीद धि माम
MBh 13.14.13
परद्युम्न चारुदेष्णादीन रुक्मिण्या वीक्ष्य पुत्रकान पुत्रार्थिनी माम उपेत्य वाक्यम आह युधिष्ठिर
MBh 13.14.14
शूरं बलवतां शरेष्ठं कान्त रूपम अलक्मषम आत्मतुल्यं मम सुतं परयच्छाच्युत माचिरम
MBh 13.14.15
न हि ते ऽपराप्यम अस्तीह तरिषु लॊकेषु किं चन लॊकान सृजेस तवम अपरान इच्छन यदुकुलॊद्वह
MBh 13.14.16
तवया दवादश वर्षाणि वायुभूतेन शुष्यता आराध्य पशुभर्तारं रुक्मिण्या जनिताः सुताः
MBh 13.14.17
चारुदेष्णः सुचारुश च चारुवेषॊ यशॊधरः चारु शवराश चारु यशाः परद्युम्नः शम्भुर एव च
MBh 13.14.18
यथा ते जनिताः पुत्रा रुक्मिण्याश चारु विक्रमाः तथा ममापि तनयं परयच्छ बलशालिनम
MBh 13.14.19
इत्य एवं चॊदितॊ देव्या ताम अवॊचं सुमध्यमाम अनुजानीहि मां राज्ञि करिष्ये वचनं तव सा च माम अब्रवीद गच्छ विजयाय शिवाय च
MBh 13.14.20
बरह्मा शिवः काश्यपश च नद्यॊ देवा मनॊऽनुगाः कषेत्रौषध्यॊ यज्ञवाहाच छन्दांस्य ऋषिगणा धरा
MBh 13.14.21
समुद्रा दक्षिणा सतॊभा ऋक्षाणि पितरॊ गरहाः देवपत्न्यॊ देवकन्या देव मातर एव च
MBh 13.14.22
मन्वन्तराणि गावश च चन्द्रमाः सविता हरिः सावित्री बरह्म विद्या च ऋतवॊ वत्सराः कषपाः
MBh 13.14.23
कषणा लवा मुहूर्ताश च निमेषा युगपर्ययाः रक्षन्तु सर्वत्रगतं तवां यादव सुखावहम अरिष्टं गच्छ पन्थानम अप्रमत्तॊ भवानघ
MBh 13.14.24
एवं कृतस्वस्त्ययनस तयाहं; ताम अभ्यनुज्ञाय कपीन्द्र पुत्रीम पितुः समीपे नरसत्तमस्य; मातुश च राज्ञश च तथाहुकस्य
MBh 13.14.25
तम अर्थम आवेद्य यद अब्रवीन मां; विद्याधरेन्द्रस्य सुता भृशार्ता तान अभ्यनुज्ञाय तदाति दुःखाद; गदं तथैवातिबलं च रामम
MBh 13.14.26
पराप्यानुनां गुरुजनाद अहं तार्क्ष्यम अचिन्तयम सॊ ऽवहद धिमवन्तं मां पराप्य चैनं वयसर्जयम
MBh 13.14.27
तत्राहम अद्भुतान भावान अपश्यं गिरिसत्तमे कषेत्रं च तपसां शरेष्ठं पश्याम्य आश्रमम उत्तमम
MBh 13.14.28
दिव्यं वैयाघ्रपद्यस्य उपमन्यॊर महात्मनः पुजितं देवगन्धर्वैर बराह्म्या लक्ष्म्या समन्वितम
MBh 13.14.29
धव ककुभ कदम्बनारिकेलैः; कुर बककेतकजम्बुपाटलाभिः वट वरुणक वत्स नाभबिल्वैः; सरलकपित्थ परियालसाल तालैः
MBh 13.14.30
बदरी कुन्दपुन्नागैर अशॊकाम्रातिमुक्तकैः भल्लातकैर मधूकैश च चम्पकैः पनसैस तथा
MBh 13.14.31
वन्यैर बहुविधैर वृक्षैः फलपुष्पप्रदैर युतम पुष्पगुल्म लताकीर्णं कदली षण्डशॊभितम
MBh 13.14.32
नानाशकुनिसंभॊज्यैः फलैर वृक्षैर अलं कृतम यथास्थानविनिक्षिप्तैर भूषितं वनराजिभिः
MBh 13.14.33
रुरुवारणशार्दूल सिंहद्वीपिसमाकुलम कुरङ्ग बर्हिणाकीर्णं मार्जारभुजगावृतम पूगैश च मृगजातीनां महिषर्क्ष निषेवितम
MBh 13.14.34
नानापुष्परजॊ मिश्रॊ गजदानाधिवासितः दिव्यस्त्री गीतबहुलॊ मारुतॊ ऽतर सुखॊ ववौ
MBh 13.14.35
धारा निनादैर विहगप्रणादैः; शुभैस तथा बृंहितैः कुञ्जराणाम गीतैस तथा किं नराणाम उदारैः; शुभैः सवनैः सामगानां च वीर
MBh 13.14.36
अचिन्त्यं मनसाप्य अन्यैः सरॊभिः समलं कृतम विशालैश चाग्निशरणैर भूषितं कुश संवृतम
MBh 13.14.37
विभूषितं पुण्यपवित्र तॊयया; सदा च जुष्पं नृप जह्नुकन्यया महात्मभिर धर्मभृतां वरिष्ठैर; महर्षिभिर भूषितम अग्निकल्पैः
MBh 13.14.38
वाय्वाहारैर अम्बुपैर जप्यनित्यैः; संप्रक्षालैर यतिभिर धयाननित्यैः धूमाशनैर ऊष्मपैः कषीरपैश च; विभूषितं बराह्मणेन्द्रैः समन्तात
MBh 13.14.39
गॊचारिणॊ ऽथाश्म कुट्टा दन्तॊलूखलिनस तथा मरीचिपाः फेनपाश च तथैव मृगचारिणः
MBh 13.14.40
सुदुःखान नियमांस तांस तान वहतः सुतपॊऽनवितान पश्यन उत्फुल्लनयनः परवेष्टुम उपचक्रमे
MBh 13.14.41
सुपूजितं देवगणैर महात्मभिः; शिवादिभिर भारत पुण्यकर्मभिः रराज तच चाश्रममण्डलं सदा; दिवीव राजन रविमण्डलं यथा
MBh 13.14.42
करीडन्ति सर्पैर नकुला मृगैर वयाघ्राश च मित्रवत परभावाद दीप्ततपसः संनिकर्ष गुणान्विताः
MBh 13.14.43
तत्राश्रमपदे शरेष्ठे सर्वभूतमनॊरमे सेविते दविज शार्दूलैर वेदवेदाङ्गपारगैः
MBh 13.14.44
नाना नियमविख्यातैर ऋषिभिश च महात्मभिः परविशन्न एव चापश्यं जटाचीरधरं परभुम
MBh 13.14.45
तेजसा तपसा चैव दीप्यमानं यथानलम शिष्यमध्य गतं शान्तं युवानं बराह्मणर्षभम शिरसा वन्दमानं माम उपमन्युर अभाषत
MBh 13.14.46
सवागतं पुण्डरीकाक्ष सफलानि तपांसि नः यत पूज्यः पूजयसि नॊ दरष्टव्यॊ दरष्टुम इच्छसि
MBh 13.14.47
तम अहं पराञ्जलिर भूत्वा मृगपक्षिष्व अथाग्निषु धर्मे च शिष्यवर्गे च समपृच्छम अनामयम
MBh 13.14.48
ततॊ मां भगवान आह साम्ना परमवल्गुना लप्स्यसे तनयं कृष्ण आत्मतुल्यम असंशयम
MBh 13.14.49
तपः सुमहद आस्थाय तॊषयेशानम ईश्वरम इह देवः स पत्नीकः समाक्रीडत्य अधिक्षज
MBh 13.14.50
इहैव देवता शरेष्ठं देवाः सर्षिगणा पुरा तपसा बरह्मचर्येण सत्येन च दमेन च तॊषयित्वा शुभान कामान पराप्नुवंस ते जनार्दन
MBh 13.14.51
तेजसां तपसां चैव निधिः स भगवान इह शुभाशुभान्वितान भावान विसृजन संक्षिपन्न अपि आस्ते देव्या सहाचिन्त्यॊ यं परार्थयसि शत्रुहन
MBh 13.14.52
हिरण्यकशिपुर यॊ ऽभूद दानवॊ मेरुकम्पनः तेन सर्वामरैश्वर्यं शर्वात पराप्तं समार्बुदम
MBh 13.14.53
तस्यैव पुत्र परवरॊ मन्दरॊ नाम विश्रुतः महादेववराच छक्रं वर्षार्बुदम अयॊधयत
MBh 13.14.54
विष्णॊश चक्रं च तद घॊरं वज्रम आखण्डलस्य च शीर्णं पुराभवत तात गरहस्याङ्गेषु केशव
MBh 13.14.55
अर्द्यमानाश च विबुधा गरहेण सुबलीयसा शिव दत्तवराञ जघ्नुर असुरेन्द्रान सुरा भृशम
MBh 13.14.56
तुष्टॊ विद्युत्प्रभस्यापि तरिलॊकेश्वरताम अदात शतं वर्षसहस्राणां सर्वलॊकेश्वरॊ ऽभवत ममैवानुचरॊ नित्यं भवितासीति चाब्रवीत
MBh 13.14.57
तथा पुत्रसहस्राणाम अयुतं च ददौ परभुः कुश दवीपं च स ददौ राज्येन भगवान अजः
MBh 13.14.58
तथा शतमुखॊ नाम धात्रा सृष्टॊ महासुरः येन वर्षशतं साग्रम आत्ममांसैर हुतॊ ऽनलः तं पराह भगवांस तुष्टः किं करॊमीति शंकरः
MBh 13.14.59
तं वै शतमुखः पराह यॊगॊ भवतु मे ऽदभुतः बलं च दैवतश्रेष्ठ शाश्वतं संम्प्रयच्छ मे
MBh 13.14.60
सवायम्भुवः करतुश चापि पुत्रार्थम अभवत पुरा आविश्य यॊगेनात्मानं तरीणि वर्षशतान्य अपि
MBh 13.14.61
तस्य देवॊ ऽददत पुत्रान सहस्रं करतुसंमितान यॊगेश्वरं देव गीतं वेत्थ कृष्ण न संशयः
MBh 13.14.62
वालखिल्या मघवता अवज्ञाताः पुरा किल तैः करुद्धैर भगवान रुद्रस तपसा तॊषितॊ हय अभूत
MBh 13.14.63
तांश चापि दैवतश्रेष्ठः पराह परीतॊ जगत्पतिः सुपर्णं सॊमहर्तारं तपसॊत्पादयिष्यथ
MBh 13.14.64
महादेवस्य रॊषाच च आपॊ नष्टाः पुराभवन तांश च सप्त कपालेन देवैर अन्याः परवर्तिताः
MBh 13.14.65
अत्रेर भार्यापि भर्तारं संत्यज्य बरह्मवादिनी नाहं तस्य मुनेर भूयॊ वशगा सयां कथं चन इत्य उक्त्वा सा महादेवम अगच्छच छरणं किल
MBh 13.14.66
निर आहारा भयाद अत्रेस तरिणि वर्षशतान्य अपि अशेत मुसलेष्व एव परसादार्थं भवस्य सा
MBh 13.14.67
ताम अब्रवीद धसन देवॊ भविता वै सुतस तव वंशे तवैव नाम्ना तु खयातिं यास्यति चेप्सिताम
MBh 13.14.68
शाकल्यः संशितात्मा वै नववर्षशतान्य अपि आराधयाम आस भवं मनॊ यज्ञेन केशव
MBh 13.14.69
तं चाह भगवांस तुष्टॊ गरन्थ कारॊ भविष्यसि वत्साक्षया च ते कीर्तिस तरैलॊक्ये वै भविष्यति अक्षयं च कुलं ते ऽसतु महर्षिभिर अलं कृतम
MBh 13.14.70
सावर्णिश चापि विख्यात ऋषिर आसीत कृते युगे इह तेन तपस तप्तं षष्टिं वर्षशतान्य अथ
MBh 13.14.71
तम आह भगवान रुद्रः साक्षात तुष्टॊ ऽसमि ते ऽनघ गरन्थ कृल लॊकविख्यातॊ भवितास्य अजरामरः
MBh 13.14.72
मयापि च यथादृष्टॊ देवदेवः पुरा विभुः साक्षात पशुपतिस तात तच चापि शृणु माधव
MBh 13.14.73
यदर्थं च महादेवः परयतेन मया पुरा आराधितॊ महातेजास तच चापि शृणु विस्तरम
MBh 13.14.74
यद अवाप्तं च मे पूर्वं देवदेवान महेश्वरात तत सर्वम अखिलेनाद्य कथयिष्यामि ते ऽनघ
MBh 13.14.75
पुरा कृतयुगे तात ऋषिर आसीन महायशाः वयाघ्रपाद इति खयातॊ वेदवेदाङ्गपारगः तस्याहम अभवं पुत्रॊ धौम्यश चापि ममानुजः
MBh 13.14.76
कस्य चित तव अथ कालस्य धौम्येन सहमाधव आगच्छम आश्रमं करीडन मुनीनां भावितात्मनाम
MBh 13.14.77
तत्रापि च मया दृष्टा दुह्यमाना पयस्विनी लक्षितं च मया कषीरं सवादुतॊ हय अमृतॊपमम
MBh 13.14.78
ततः पिष्टं समालॊड्य तॊयेन सहमाधव आवयॊः कषीरम इत्य एव पानार्थम उपनीयते
MBh 13.14.79
अथ गव्यं पयस तात कदा चित पराशितं मया ततः पिष्ट रसं तात न मे परीतिम उदावहत
MBh 13.14.80
ततॊ ऽहम अब्रुवं बाल्याज जननीम आत्मनस तदा कषीरौदन समायुक्तं भॊजनं च परयच्छ मे
MBh 13.14.81
ततॊ माम अब्रवीन माता दुःखशॊकसमन्विता पुत्रस्नेहात परिष्वज्य मूर्ध्नि चाघ्राय माधव
MBh 13.14.82
कुतः कषीरॊदनं वत्स मुनीनां भावितात्मनाम वने निवसतां नित्यं कन्दमूलफलाशिनाम
MBh 13.14.83
अप्रसाद्य विरूपाक्षं वरदं सथाणुम अव्ययम कुतः कषीरॊदनं वत्स सुखानि वसनानि च
MBh 13.14.84
तं परपद्य सदा वत्स सर्वभावेन शंकरम तत्प्रसादाच च कामेभ्यः फलं पराप्स्यसि पुत्रक
MBh 13.14.85
जनन्यास तद वचः शरुत्वा तदा परभृति शत्रुहन मम भक्तिर महादेवे नैष्ठिकी समपद्यत
MBh 13.14.86
ततॊ ऽहं तप आस्थाय तॊषयाम आस शंकरम दिव्यं वर्षसहस्रं तु पादाङ्गुष्ठाग्रविष्ठितः
MBh 13.14.87
एकं वर्षशतं चैव फलाहारस तदाभवम दवितीयं शीर्णपर्णाशी तृतीयं चाम्बुभॊजनः शतानि सप्त चैवाहं वायुभक्षस तदाभवम
MBh 13.14.88
ततः परीतॊ महादेवः सर्वलॊकेश्वरः परभुः शक्र रूपं स कृत्वा तु सर्वैर देवगणैर वृतः सहस्राक्षस तदा भूत्वा वर्ज पाणिर महायशाः
MBh 13.14.89
सुधावदातं रक्ताक्षं सतब्धकर्णं मदॊत्कटम आवेष्टित करं रौद्रं चतुर्दंष्ट्रं महागजम
MBh 13.14.90
समास्थितश च भगवान दीप्यमानः सवतेजसा आजगाम किरीटी तु हारकेयूरभूषितः
MBh 13.14.91
पाण्डुरेणातपत्रेण धरियमाणेन मूर्धनि सेव्यमानॊ ऽपसरॊभिश च दिव्यगन्धर्वनादितः
MBh 13.14.92
ततॊ माम आह देवेन्द्रः परीतस ते ऽहं दविजॊत्तम वरं वृणीष्व मत्तस तव यत ते मनसि वर्तते
MBh 13.14.93
शक्रस्य तु वचः शरुत्वा नाहं परीतमनाभवम अब्रुवं च तदा कृष्ण देवराजम इदं वचः
MBh 13.14.94
नाहं तवत्तॊ वरं काङ्क्षे नान्यस्माद अपि दैवतात महादेवाद ऋते सौम्य सत्यम एतद बरवीमि ते
MBh 13.14.95
पशुपतिवचनाद भवामि सद्यः; कृमिर अथ वा तरुर अप्य अनेकशाखः अपशु पतिवरप्रसादजा मे; तरिभुवन राज्यविभूतिर अप्य अनिष्टा
MBh 13.14.96
अपि कीटः पतंगॊ वा भवेयं शंकराज्ञया न तु शक्र तवया दत्तं तरैलॊक्यम अपि कामये
MBh 13.14.97
यावच छशाङ्क शकलामल बद्धमौलिर; न परीयते पशुपतिर भगवान ममेशः तावज जरामरणजन्म शताभिघातैर; दुःखानि देहविहितानि समुद्वहामि
MBh 13.14.98
दिवसकर शशाङ्कवह्नि दीप्तं; तरिभुवन सारम अपारम आद्यम एकम अजरम अमरम अप्रसाद्य रुद्रं; जगति पुमान इह कॊ लभेत शान्तिम
MBh 13.14.99
[षक्र] कः पुनस तव हेतुर वै ईशे कारणकारणे येन देवाद ऋते ऽनयस्मात परसादं नाभिकाङ्क्षसि
MBh 13.14.100
[उप] हेतुभिर वा किम अन्यैस ते ईशः कारणकारणम न शुश्रुम यद अन्यस्य लिङ्गम अभ्यर्च्यते सुरैः
MBh 13.14.101
कस्यान्यस्य सुरैः सर्वैर लिङ्गं मुक्त्वा महेश्वरम अर्च्यते ऽरचित पूर्वं वा बरूहि यद्य अस्ति ते शरुतिः
MBh 13.14.102
यस्य बरह्मा च विष्णुश च तवं चापि सह दैवतैः अर्चयध्वं सदा लिङ्गं तस्माच छरेष्ठ तमॊ हि सः
MBh 13.14.103
तस्माद वरम अहं काङ्क्षे निधनं वापि कौशिक गच्छ वा तिष्ठ वा शक्र यथेष्टं बलसूदन
MBh 13.14.104
कामम एष वरॊ मे ऽसतु शापॊ वापि महेश्वरात न चान्यां देवतां काङ्क्षे सर्वकामफलान्य अपि
MBh 13.14.105
एवम उक्त्वा तु देवेन्द्रं दुःखाद आकुलितेन्द्रियः न परसीदति मे रुद्रः किम एतद इति चिन्तयन अथापश्यं कषणेनैव तम एवैरावतं पुनः
MBh 13.14.106
हंसकुन्देन्दु सदृशं मृणालकुमुदप्रभम वृषरूपधरं साक्षात कषीरॊदम इव सागरम
MBh 13.14.107
कृष्ण पुच्छं महाकायं मधुपिङ्गल लॊचनम जाम्बूनदेन दाम्ना च सर्वतः समलंकृतम
MBh 13.14.108
रक्ताक्षं सुमहानासं सुकर्णं सुकटी तटम सुपार्श्वं विपुर सकन्धं सुरूपं चारुदर्शनम
MBh 13.14.109
ककुदं तस्य चाभाति सकन्धम आपूर्य विष्ठितम तुषारगिरिकूटाभं सिताभ्रशिखरॊपमम
MBh 13.14.110
तम आस्थितश च भगवान देवदेवः सहॊमया अशॊभत महादेवः पौर्णमास्याम इवॊडुराट
MBh 13.14.111
तस्य तेजॊ भवॊ वह्निः स मेघः सतनयित्नुमान सहस्रम इव सूर्याणां सर्वम आवृत्य तिष्ठति
MBh 13.14.112
ईश्वरः सुमहातेजाः संवर्तक इवानलः युगान्ते सर्वभूतानि दिधक्षुर इव चॊद्यतः
MBh 13.14.113
तेजसा तु तदा वयाप्ते दुर्निरीक्ष्ये समन्ततः पुनर उद्विग्नहृदयः किम एतद इति चिन्तयम
MBh 13.14.114
मुहूर्तम इव तत तेजॊ वयाप्य सर्वा दिशॊ दिश परशान्तं च कषणेनैव देवदेवस्य मायया
MBh 13.14.115
अथापश्यं सथितं सथाणुं भगवन्तं महेश्वरम सौरभेय गतं सौम्यं विधूमम इव पावकम सहितं चारुसर्वाङ्ग्या पार्वत्या परमेश्वरम
MBh 13.14.116
नीलकन्हं महात्मानम असक्तं तेजसां निधिम अष्टादश भुजं सथाणुं सर्वाभरणभूषितम
MBh 13.14.117
शुक्लाम्बर धरं देवं शुक्लमाल्यानुलेपनम शुक्लध्वजम अनाधृष्यं शुक्लयज्ञॊपवीतिनम
MBh 13.14.118
गायद्भिर नृत्यमानैश च उत्पतद्भिर इतस ततः वृत्तं पारिषदैर दिव्यैर आत्मतुल्यपराक्रमैः
MBh 13.14.119
बालेन्दु मुकुटं पाण्डुं शरच चन्द्रम इवॊदितम तरिभिर नेत्रैः कृतॊद्द्यॊतं तरिभिः सूर्यैर इवॊदितैः
MBh 13.14.120
अशॊभत च देवस्य माला गात्रे सितप्रभे जातरूपमयैः पद्मैर गरथिता रत्नभूषिता
MBh 13.14.121
मूर्तिमन्ति तथास्त्राणि सर्वतेजॊमयानि च मया दृष्टानि गॊविन्द भवस्यामित तेजसः
MBh 13.14.122
इन्द्रायुधसहस्राभं धनुस तस्य महात्मनः पिनाकम इति विख्यातं स च वै पन्नगॊ महान
MBh 13.14.123
सप्त शीर्षॊ महाकायस तीक्ष्णदंष्ट्रॊ विषॊल्बणः जया वेष्टितमहाग्रीवः सथितः पुरुषविग्रहः
MBh 13.14.124
शरश च सूर्यसंकाशः कालानलसमद्युतिः यत तद अस्त्रं महाघॊरं दिव्यं पाशुपतं महत
MBh 13.14.125
अद्वितीयम अनिर्देश्यं सर्वभूतभयावहम स सफुलिङ्गं महाकायं विसृजन्तम इवानलम
MBh 13.14.126
एकपादं महादंष्ट्रं सहस्रशिरसॊदरम सहस्रभुज जिह्वाक्षम उद्गिरन्तम इवानलम
MBh 13.14.127
बराह्मान नारायणाद ऐन्द्राद आग्नेयाद अपि वारुणात यद विशिष्टं महाबाहॊ सर्वशस्त्रविघातनम
MBh 13.14.128
येन तत तरिपुरं दग्ध्वा कषणाद भस्मीकृतं पुरा शरेणैकेन गॊविन्द महादेवेन लीलया
MBh 13.14.129
निर्ददाह जगत कृत्स्नं तरैलॊक्यं स चराचरम महेश्वर भुजॊत्सृष्टं निमेषार्धान न संशयः
MBh 13.14.130
नावध्यॊ यस्य लॊके ऽसमिन बरह्म विष्णुसुरेष्व अपि तद अहं दृष्टवांस तात आश्चर्याद भूतम उत्तमम
MBh 13.14.131
गुह्यम अस्त्रं परं चापि तत्तुल्याधिकम एव वा यत तच छूलम इति खयातं सर्वलॊकेषु शूलिनः
MBh 13.14.132
दारयेद यन महीं कृत्स्नां शॊषयेद वा महॊदधिम संहरेद वा जगत कृत्स्नं विसृष्टं शूलपाणिना
MBh 13.14.133
यौवनाश्वॊ हतॊ येन मांधाता सबलः पुरा चक्रवर्ती महातेजास तरिलॊकविजयी नृपः
MBh 13.14.134
महाबलॊ महावीर्यः शक्रतुल्यपराक्रमः करस्थेनैव गॊविन्द लवणस्येह रक्षसः
MBh 13.14.135
तच छूलम अतितीक्ष्णाग्रं सुभीमं लॊमहर्षणम तरिशिखां भरुकुटीं कृत्वा तर्जमानम इव सथितम
MBh 13.14.136
विधूमं सार्चिसं कृष्णं कालसूर्यम इवॊदितम सर्पहस्तम अनिर्देश्यं पाशहस्तम इवान्तकम दृष्टवान अस्मि गॊविन्द तद अस्त्रं रुद्र संनिधौ
MBh 13.14.137
परशुस तीक्ष्णधारश च दत्तॊ रामस्य यः पुरा महादेवेन तुष्टेन कषत्रियाणां कषयं करः कार्तवीर्यॊ हतॊ येन चक्रवर्ती महामृधे
MBh 13.14.138
तरिः सप्तकृत्वः पृथिवी येन निःक्षत्रिया कृता जामदग्न्येन गॊविन्द रामेणाक्लिष्टकर्मणा
MBh 13.14.139
दीप्तधारः सुरौद्रास्यः सर्पकण्ठाग्र वेष्टितः अभवच छूलिनॊ ऽभयाशे दीप्तवह्नि शिखॊपमः
MBh 13.14.140
असंख्येयानि चास्त्राणि तस्य दिव्यानि धीमतः परधान्यतॊ मयैतानि कीर्तितानि तवानघ
MBh 13.14.141
सव्यदेशे तु देवस्य बरह्मा लॊकपितामहः दिव्यं विमानम आस्थाय हंसयुक्तं मनॊजवम
MBh 13.14.142
वामपार्श्व गतश चैव तथा नारायणः सथितः वैनतेयं समास्थाय शङ्खचक्रगदाधरः
MBh 13.14.143
सकन्दॊ मयूरम आस्थाय सथितॊ देव्याः समीपतः शक्तिं कन्हे समाधाय दवितीय इव पावकः
MBh 13.14.144
पुरस्ताच चैव देवस्य नन्दिं पश्याम्य अवस्थितम शूलं विष्टभ्य तिष्ठन्तं दवितीयम इव शंकरम
MBh 13.14.145
सवायम्भुवाद्या मनवॊ भृग्वाद्या ऋषयस तथा शक्राद्या देवताश चैव सर्व एव समभ्ययुः
MBh 13.14.146
ते ऽभिवाद्य महात्मानं परिवार्य समन्ततः अस्तुवन विविधैः सतॊत्रैर महादेवं सुरास तदा
MBh 13.14.147
बरह्मा भवं तदा सतुन्वन रथन्तरम उदीरयन जयेष्ठसाम्ना च देवेशं जगौ नारायणस तदा गृणञ शक्रः परं बरह्म शतरुद्रीयम उत्तमम
MBh 13.14.148
बरह्मा नारायणश चैव देवराजश च कौशिकः अशॊभन्त महात्मानस तरयस तरय इवाग्नयः
MBh 13.14.149
तेषां मध्यगतॊ देवॊ रराज भगवाञ शिवः शरद्घनविनिर्मुक्तः परिविष्ट इवांशुमान ततॊ ऽहम अस्तुवं देवं सतवेनानेन सुव्रतम
MBh 13.14.150
नमॊ देवाधिदेवाय महादेवाय वै नमः शक्राय शक्र रूपाय शक्र वेषधराय च
MBh 13.14.151
नमस ते वर्ज हस्ताय पिङ्गलायारुणाय च पिनाक पाणये नित्यं खड्गशूलधराय च
MBh 13.14.152
नमस ते कृष्ण वासाय कृष्ण कुञ्चितमूर्धजे कृष्णाजिनॊत्तरीयाय कृष्णाष्टम इतराय च
MBh 13.14.153
शुक्लवर्णाय शुक्लाय शुक्लाम्बर धराय च शुक्लभस्मावलिप्ताय शुक्लकर्म रताय च
MBh 13.14.154
तवं बरह्मा सर्वदेवानां रुद्राणां नीललॊहितः आत्मा च सर्वभूतानां सांख्ये पुरुष उच्यसे
MBh 13.14.155
ऋषभस तवं पवित्राणां यॊगिनां निष्कलः शिवः आश्रमाणां गृहस्थस तवम ईश्वराणां महेश्वरः कुबेरः सर्वयक्षाणां करतूनां विष्णुर उच्यसे
MBh 13.14.156
पर्वतानां महामेरुर नक्षत्राणां च चन्द्रमाः वसिष्ठस तवम ऋषीणां च गरहाणां सूर्य उच्यसे
MBh 13.14.157
आरण्यानां पशूनां च सिंहस तवं परमेश्वरः गराह्याणां गॊवृषश चासि भगवाँल लॊकपूजितः
MBh 13.14.158
आदित्यानां भवान विष्णुर वसूनां चैव पावकः पक्षिणां वैनतेयश च अनन्तॊ भुजगेषु च
MBh 13.14.159
सामवेदश च वेदानां यजुषां शतरुद्रियम सनत्कुमारॊ यॊगीनां सांख्यानां कपिलॊ हय असि
MBh 13.14.160
शक्रॊ ऽसि मरुतां देव पितॄणां धर्मराड असि बरह्मलॊकश च लॊकानां गतीनां मॊक्ष उच्यसे
MBh 13.14.161
कषीरॊदः सागराणां च शैलानां हिमवान गिरिः वर्णानां बराह्मणश चासि विप्राणां दीक्षितॊ दविजः आदिस तवम असि लॊकानां संहर्ता काल एव च
MBh 13.14.162
यच चान्यद अपि लॊकेषु सत्त्वं तेजॊ ऽधिकं समृतम तत सर्वं भगवान एव इति मे निश्चिता मतिः
MBh 13.14.163
नमस ते भगवन देव नमस ते भक्त वत्सल यॊगेश्वर नमस ते ऽसतु नमस ते विश्वसंभव
MBh 13.14.164
परसीद मम भक्तस्य दीनस्य कृपणस्य च अनैश्वर्येण युक्तस्य गतिर भव सनातन
MBh 13.14.165
यं चापराधं कृतवान अज्ञानात परमेश्वर मद्भक्त इति देवेश तत सर्वं कषन्तुम अर्हसि
MBh 13.14.166
मॊहितश चास्मि देवेश तुभ्यं रूपविपर्ययात तेन नार्घ्यं मया दत्तं पाद्यं चापि सुरेश्वर
MBh 13.14.167
एवं सतुत्वाहम ईशानं पाद्यम अर्घ्यं च भक्तितः कृताञ्जलिपुटॊ भूत्वा सर्वं तस्मै नयवेदयम
MBh 13.14.168
ततः शीलाम्बुसंयुक्ता दिव्यगन्धसमन्विता पुष्पवृष्टिः शुभा तात पपात मम मूर्धनि
MBh 13.14.169
दुन्दुभिश च ततॊ दिव्यस ताडितॊ देवकिंकरैः ववौ च मारुतः पुण्यः शुचि गन्धः सुखावहः
MBh 13.14.170
ततः परीतॊ महादेवः सपत्नीकॊ वृषध्वजः अब्रवीत तरिदशांस तत्र हर्षयन्न इव मां तदा
MBh 13.14.171
पश्यध्वं तरिदशाः सर्वे उपमन्यॊर महात्मनः मयि भक्तिं परां दिव्याम एकभावाद अवस्थिताम
MBh 13.14.172
एवम उक्तास ततः कृष्ण सुरास ते शूलपाणिना ऊचुः पराञ्जलयः सर्वे नमस्कृत्वा वृषध्वजम
MBh 13.14.173
भगवन देवदेवेश लॊकनाथ जगत्पते लभतां सर्वकामेभ्यः फलं तवत्तॊ दविजॊत्तमः
MBh 13.14.174
एवम उक्तस ततः शर्वः सुरैर बरह्मादिभिस तथा आह मां भगवान ईशः परहसन्न इव शंकरः
MBh 13.14.175
वत्सॊपमन्यॊ परीतॊ ऽसमि पश्य मां मुनिपुंगव दृढभक्तॊ ऽसि विप्रर्षे मया जिज्ञासितॊ हय असि
MBh 13.14.176
अनया चैव भक्त्या ते अत्यर्थं परीतिमान अहम तस्मात सर्वान ददाम्य अद्य कामांस तव यथेप्शितान
MBh 13.14.177
एवम उक्तस्य चैवाथ महादेवेन मे विभॊ हर्षाद अश्रूण्य अवर्तन्त लॊम हर्षश च जायते
MBh 13.14.178
अब्रुवं च तदा देवं हर्षगद्गदया गिरा जानुभ्याम अवनिं गत्वा परणम्य च पुनः पुनः
MBh 13.14.179
अद्य जातॊ हय अहं देव अद्य मे सफलं तपः यन मे साक्षान महादेवः परसन्नस तिष्ठते ऽगरतः
MBh 13.14.180
यं न पश्यन्ति चाराध्य देवा हय अमितविक्रमम तम अहं दृष्टवान देवं कॊ ऽनयॊ धन्यतरॊ मया
MBh 13.14.181
एवं धयायन्ति विद्वांसः परं तत्त्वं सनातनम षड्विंशकम इति खयातं यत परात परम अक्षरम
MBh 13.14.182
स एष भगवान देवः सर्वतत्त्वादिर अव्ययः सर्वतत्त्वविधानज्ञः परधानपुरुषेश्वरः
MBh 13.14.183
यॊ ऽसृजद दक्षिणाद अङ्गाद बरह्माणं लॊकसंभवम वामपार्श्वात तथा विष्णुं लॊकरक्षार्थम ईश्वरः युगान्ते चैव संप्राप्ते रुद्रम अङ्गात सृजत परभुः
MBh 13.14.184
स रुद्रः संहरन कृत्स्नं जगत सथावरजङ्गमम कालॊ भूत्वा महातेजाः संवर्तक इवानलः
MBh 13.14.185
एष देवॊ महादेवॊ जगत सृष्ट्वा चराचरम कल्पान्ते चैव सर्वेषां समृतिम आक्षिप्य तिष्ठति
MBh 13.14.186
सर्वगः सर्वभूतात्मा सर्वभूतभवॊद्भवः आस्ते सर्वगतॊ नित्यम अदृश्यः सर्वदैवतैः
MBh 13.14.187
यदि देयॊ वरॊ मह्यं यदि तुष्टश च मे परभुः भक्तिर भवतु मे नित्यं शाश्वती तवयि शंकर
MBh 13.14.188
अतीतानागतं चैव वर्तमानं च यद विभॊ जानीयाम इति मे बुद्धिस तवत्प्रसादात सुरॊत्तम
MBh 13.14.189
कषीरौदनं च भुञ्जीयाम अक्षयं सह बान्धवैः आश्रमे च सदा मह्यं सामिन्ध्यं परमस तु ते
MBh 13.14.190
एवम उक्तः स मां पराह भगवाँल लॊकपूजितः महेश्वरॊ महातेजाश चराचरगुरुः परभुः
MBh 13.14.191
अजरश चामरश चैव भव दुःखविवर्जितः शीलवान गुणसंपन्नः सर्वज्ञः परियदर्शनः
MBh 13.14.192
अक्षयं यौवनं ते ऽसतु तेजश चैवानलॊपमम कषीरॊदः सागरश चैव यत्र यत्रेच्छसे मुने
MBh 13.14.193
तत्र ते भविता कामं सांनिध्यं पयसॊ निधेः कषीरॊदनं च भुङ्क्ष्व तवम अमृतेन समन्वितम
MBh 13.14.194
बन्धुभिः सहितः कल्पं ततॊ माम उपयास्यसि सांनिध्यम आश्रमे नित्यं करिष्यामि दविजॊत्तम
MBh 13.14.195
तिष्ठ वत्स यथा कामनॊत्कण्ठां कर्तुम अर्हसि समृतः समृतश च ते विप्र सदा दास्यामि दर्शनम
MBh 13.14.196
एवम उक्त्वा स भगवान सूर्यकॊटि समप्रभः ममेशानॊ वरं दत्त्वा तत्रैवान्तरधीयत
MBh 13.14.197
एवं दृष्टॊ मया कृष्ण देवदेवः समाधिना तद अवाप्तं च मे सर्वं यद उक्तं तेन धीमता
MBh 13.14.198
परत्यक्षं चैव ते कृष्ण पश्य सिद्धान वयवस्थितान ऋषीन विद्याधरान यक्षान गन्धर्वाप्सरसस तथा
MBh 13.14.199
पश्य वृक्षान मनॊरम्यान सदा पुष्पफलान्वितान सर्वर्तुकुसुमैर युक्तान सनिग्धपत्रान सुशाखिनः सर्वम एतन महाबाहॊ दिव्यभावसमन्वितम

🪷 The Honest Framing

This is the canonical Devanāgarī Sanskrit yathārtha. English + Hindi translations + classical commentaries arrive in future yajñas. To see the substrate's target-depth (5 English translations + Rāmsukhdās ji Hindi + 5 English commentaries + Sādhaka-Sañjīvanī Hindi vyākhyā per verse), visit any /bhagavad-gita/X/Y page. The Mahābhārata journey starts with the śloka.

Navigation

🪷 जय व्यास भगवान् 🪷