🪷 Mahābhārata · Anuśāsana-Parva · Chapter 14
The Book of the Final Teaching · Parva 13 · 199 unique Sanskrit addresses · pinned Critical Edition-derived witness
The Devanāgarī Yathārtha · 199 Shlokas
MBh 13.14.1
युधिष्ठिर उवाच
पितामहेशाय विभो नामान्याचक्ष्व शंभवे
बभ्रवे विश्वमायाय महाभाग्यं च तत्त्वतः
MBh 13.14.2
भीष्म उवाच
सुरासुरगुरो देव विष्णो त्वं वक्तुमर्हसि
शिवाय विश्वरूपाय यन्मां पृच्छद्युधिष्ठिरः
MBh 13.14.3
नाम्नां सहस्रं देवस्य तण्डिना ब्रह्मयोनिना
निवेदितं ब्रह्मलोके ब्रह्मणो यत्पुराभवत्
MBh 13.14.4
द्वैपायनप्रभृतयस्तथैवेमे तपोधनाः
ऋषयः सुव्रता दान्ताः शृण्वन्तु गदतस्तव
MBh 13.14.5
ध्रुवाय नन्दिने होत्रे गोप्त्रे विश्वसृजेऽग्नये
महाभाग्यं विभो ब्रूहि मुण्डिनेऽथ कपर्दिने
MBh 13.14.6
वासुदेव उवाच
न गतिः कर्मणां शक्या वेत्तुमीशस्य तत्त्वतः
MBh 13.14.7
हिरण्यगर्भप्रमुखा देवाः सेन्द्रा महर्षयः
न विदुर्यस्य निधनमादिं वा सूक्ष्मदर्शिनः
स कथं नरमात्रेण शक्यो ज्ञातुं सतां गतिः
MBh 13.14.8
तस्याहमसुरघ्नस्य कांश्चिद्भगवतो गुणान्
भवतां कीर्तयिष्यामि व्रतेशाय यथातथम्
MBh 13.14.9
वैशंपायन उवाच
एवमुक्त्वा तु भगवान्गुणांस्तस्य महात्मनः
उपस्पृश्य शुचिर्भूत्वा कथयामास धीमतः
MBh 13.14.10
वासुदेव उवाच
शुश्रूषध्वं ब्राह्मणेन्द्रास्त्वं च तात युधिष्ठिर
त्वं चापगेय नामानि निशामय जगत्पतेः
MBh 13.14.11
यदवाप्तं च मे पूर्वं साम्बहेतोः सुदुष्करम्
यथा च भगवान्दृष्टो मया पूर्वं समाधिना
MBh 13.14.12
शम्बरे निहते पूर्वं रौक्मिणेयेन धीमता
अतीते द्वादशे वर्षे जाम्बवत्यब्रवीद्धि माम्
MBh 13.14.13
प्रद्युम्नचारुदेष्णादीन्रुक्मिण्या वीक्ष्य पुत्रकान्
पुत्रार्थिनी मामुपेत्य वाक्यमाह युधिष्ठिर
MBh 13.14.14
शूरं बलवतां श्रेष्ठं कान्तरूपमकल्मषम्
आत्मतुल्यं मम सुतं प्रयच्छाच्युत माचिरम्
MBh 13.14.15
न हि तेऽप्राप्यमस्तीह त्रिषु लोकेषु किंचन
लोकान्सृजेस्त्वमपरानिच्छन्यदुकुलोद्वह
MBh 13.14.16
त्वया द्वादश वर्षाणि वायुभूतेन शुष्यता
आराध्य पशुभर्तारं रुक्मिण्या जनिताः सुताः
MBh 13.14.17
चारुदेष्णः सुचारुश्च चारुवेषो यशोधरः
चारुश्रवाश्चारुयशाः प्रद्युम्नः शंभुरेव च
MBh 13.14.18
यथा ते जनिताः पुत्रा रुक्मिण्याश्चारुविक्रमाः
तथा ममापि तनयं प्रयच्छ बलशालिनम्
MBh 13.14.19
इत्येवं चोदितो देव्या तामवोचं सुमध्यमाम्
अनुजानीहि मां राज्ञि करिष्ये वचनं तव
सा च मामब्रवीद्गच्छ विजयाय शिवाय च
MBh 13.14.20
ब्रह्मा शिवः काश्यपश्च नद्यो देवा मनोनुगाः
क्षेत्रौषध्यो यज्ञवाहाच्छन्दांस्यृषिगणा धरा
MBh 13.14.21
समुद्रा दक्षिणा स्तोभा ऋक्षाणि पितरो ग्रहाः
देवपत्न्यो देवकन्या देवमातर एव च
MBh 13.14.22
मन्वन्तराणि गावश्च चन्द्रमाः सविता हरिः
सावित्री ब्रह्मविद्या च ऋतवो वत्सराः क्षपाः
MBh 13.14.23
क्षणा लवा मुहूर्ताश्च निमेषा युगपर्ययाः
रक्षन्तु सर्वत्र गतं त्वां यादव सुखावहम्
अरिष्टं गच्छ पन्थानमप्रमत्तो भवानघ
MBh 13.14.24
एवं कृतस्वस्त्ययनस्तयाहं; तामभ्यनुज्ञाय कपीन्द्रपुत्रीम्
पितुः समीपे नरसत्तमस्य; मातुश्च राज्ञश्च तथाहुकस्य
MBh 13.14.25
तमर्थमावेद्य यदब्रवीन्मां; विद्याधरेन्द्रस्य सुता भृशार्ता
तानभ्यनुज्ञाय तदातिदुःखा;द्गदं तथैवातिबलं च रामम्
MBh 13.14.26
प्राप्यानुज्ञां गुरुजनादहं तार्क्ष्यमचिन्तयम्
सोऽवहद्धिमवन्तं मां प्राप्य चैनं व्यसर्जयम्
MBh 13.14.27
तत्राहमद्भुतान्भावानपश्यं गिरिसत्तमे
क्षेत्रं च तपसां श्रेष्ठं पश्याम्याश्रममुत्तमम्
MBh 13.14.28
दिव्यं वैयाघ्रपद्यस्य उपमन्योर्महात्मनः
पूजितं देवगन्धर्वैर्ब्राह्म्या लक्ष्म्या समन्वितम्
MBh 13.14.29
धवककुभकदम्बनारिकेलैः; कुरबककेतकजम्बुपाटलाभिः
वटवरुणकवत्सनाभबिल्वैः; सरलकपित्थप्रियालसालतालैः
MBh 13.14.30
बदरीकुन्दपुन्नागैरशोकाम्रातिमुक्तकैः
भल्लातकैर्मधूकैश्च चम्पकैः पनसैस्तथा
MBh 13.14.31
वन्यैर्बहुविधैर्वृक्षैः फलपुष्पप्रदैर्युतम्
पुष्पगुल्मलताकीर्णं कदलीषण्डशोभितम्
MBh 13.14.32
नानाशकुनिसंभोज्यैः फलैर्वृक्षैरलंकृतम्
यथास्थानविनिक्षिप्तैर्भूषितं वनराजिभिः
MBh 13.14.33
रुरुवारणशार्दूलसिंहद्वीपिसमाकुलम्
कुरङ्गबर्हिणाकीर्णं मार्जारभुजगावृतम्
पूगैश्च मृगजातीनां महिषर्क्षनिषेवितम्
MBh 13.14.34
नानापुष्परजोमिश्रो गजदानाधिवासितः
दिव्यस्त्रीगीतबहुलो मारुतोऽत्र सुखो ववौ
MBh 13.14.35
धारानिनादैर्विहगप्रणादैः; शुभैस्तथा बृंहितैः कुञ्जराणाम्
गीतैस्तथा किंनराणामुदारैः; शुभैः स्वनैः सामगानां च वीर
MBh 13.14.36
अचिन्त्यं मनसाप्यन्यैः सरोभिः समलंकृतम्
विशालैश्चाग्निशरणैर्भूषितं कुशसंवृतम्
MBh 13.14.37
विभूषितं पुण्यपवित्रतोयया; सदा च जुष्टं नृप जह्नुकन्यया
महात्मभिर्धर्मभृतां वरिष्ठै;र्महर्षिभिर्भूषितमग्निकल्पैः
MBh 13.14.38
वाय्वाहारैरम्बुपैर्जप्यनित्यैः; संप्रक्षालैर्यतिभिर्ध्याननित्यैः
धूमाशनैरूष्मपैः क्षीरपैश्च; विभूषितं ब्राह्मणेन्द्रैः समन्तात्
MBh 13.14.39
गोचारिणोऽथाश्मकुट्टा दन्तोलूखलिनस्तथा
मरीचिपाः फेनपाश्च तथैव मृगचारिणः
MBh 13.14.40
सुदुःखान्नियमांस्तांस्तान्वहतः सुतपोन्वितान्
पश्यन्नुत्फुल्लनयनः प्रवेष्टुमुपचक्रमे
MBh 13.14.41
सुपूजितं देवगणैर्महात्मभिः; शिवादिभिर्भारत पुण्यकर्मभिः
रराज तच्चाश्रममण्डलं सदा; दिवीव राजन्रविमण्डलं यथा
MBh 13.14.42
क्रीडन्ति सर्पैर्नकुला मृगैर्व्याघ्राश्च मित्रवत्
प्रभावाद्दीप्ततपसः संनिकर्षगुणान्विताः
MBh 13.14.43
तत्राश्रमपदे श्रेष्ठे सर्वभूतमनोरमे
सेविते द्विजशार्दूलैर्वेदवेदाङ्गपारगैः
MBh 13.14.44
नानानियमविख्यातैरृषिभिश्च महात्मभिः
प्रविशन्नेव चापश्यं जटाचीरधरं प्रभुम्
MBh 13.14.45
तेजसा तपसा चैव दीप्यमानं यथानलम्
शिष्यमध्यगतं शान्तं युवानं ब्राह्मणर्षभम्
शिरसा वन्दमानं मामुपमन्युरभाषत
MBh 13.14.46
स्वागतं पुण्डरीकाक्ष सफलानि तपांसि नः
यत्पूज्यः पूजयसि नो द्रष्टव्यो द्रष्टुमिच्छसि
MBh 13.14.47
तमहं प्राञ्जलिर्भूत्वा मृगपक्षिष्वथाग्निषु
धर्मे च शिष्यवर्गे च समपृच्छमनामयम्
MBh 13.14.48
ततो मां भगवानाह साम्ना परमवल्गुना
लप्स्यसे तनयं कृष्ण आत्मतुल्यमसंशयम्
MBh 13.14.49
तपः सुमहदास्थाय तोषयेशानमीश्वरम्
इह देवः सपत्नीकः समाक्रीडत्यधोक्षज
MBh 13.14.50
इहैव देवताश्रेष्ठं देवाः सर्षिगणाः पुरा
तपसा ब्रह्मचर्येण सत्येन च दमेन च
तोषयित्वा शुभान्कामान्प्राप्नुवंस्ते जनार्दन
MBh 13.14.51
तेजसां तपसां चैव निधिः स भगवानिह
शुभाशुभान्वितान्भावान्विसृजन्संक्षिपन्नपि
आस्ते देव्या सहाचिन्त्यो यं प्रार्थयसि शत्रुहन्
MBh 13.14.52
हिरण्यकशिपुर्योऽभूद्दानवो मेरुकम्पनः
तेन सर्वामरैश्वर्यं शर्वात्प्राप्तं समार्बुदम्
MBh 13.14.53
तस्यैव पुत्रप्रवरो मन्दरो नाम विश्रुतः
महादेववराच्छक्रं वर्षार्बुदमयोधयत्
MBh 13.14.54
विष्णोश्चक्रं च तद्घोरं वज्रमाखण्डलस्य च
शीर्णं पुराभवत्तात ग्रहस्याङ्गेषु केशव
MBh 13.14.55
अर्द्यमानाश्च विबुधा ग्रहेण सुबलीयसा
शिवदत्तवराञ्जघ्नुरसुरेन्द्रान्सुरा भृशम्
MBh 13.14.56
तुष्टो विद्युत्प्रभस्यापि त्रिलोकेश्वरतामदात्
शतं वर्षसहस्राणां सर्वलोकेश्वरोऽभवत्
ममैवानुचरो नित्यं भवितासीति चाब्रवीत्
MBh 13.14.57
तथा पुत्रसहस्राणामयुतं च ददौ प्रभुः
कुशद्वीपं च स ददौ राज्येन भगवानजः
MBh 13.14.58
तथा शतमुखो नाम धात्रा सृष्टो महासुरः
येन वर्षशतं साग्रमात्ममांसैर्हुतोऽनलः
तं प्राह भगवांस्तुष्टः किं करोमीति शंकरः
MBh 13.14.59
तं वै शतमुखः प्राह योगो भवतु मेऽद्भुतः
बलं च दैवतश्रेष्ठ शाश्वतं संप्रयच्छ मे
MBh 13.14.60
स्वायंभुवः क्रतुश्चापि पुत्रार्थमभवत्पुरा
आविश्य योगेनात्मानं त्रीणि वर्षशतान्यपि
MBh 13.14.61
तस्य देवोऽददत्पुत्रान्सहस्रं क्रतुसंमितान्
योगेश्वरं देवगीतं वेत्थ कृष्ण न संशयः
MBh 13.14.62
वालखिल्या मघवता अवज्ञाताः पुरा किल
तैः क्रुद्धैर्भगवान्रुद्रस्तपसा तोषितो ह्यभूत्
MBh 13.14.63
तांश्चापि दैवतश्रेष्ठः प्राह प्रीतो जगत्पतिः
सुपर्णं सोमहर्तारं तपसोत्पादयिष्यथ
MBh 13.14.64
महादेवस्य रोषाच्च आपो नष्टाः पुराभवन्
ताश्च सप्तकपालेन देवैरन्याः प्रवर्तिताः
MBh 13.14.65
अत्रेर्भार्यापि भर्तारं संत्यज्य ब्रह्मवादिनी
नाहं तस्य मुनेर्भूयो वशगा स्यां कथंचन
इत्युक्त्वा सा महादेवमगच्छच्छरणं किल
MBh 13.14.66
निराहारा भयादत्रेस्त्रीणि वर्षशतान्यपि
अशेत मुसलेष्वेव प्रसादार्थं भवस्य सा
MBh 13.14.67
तामब्रवीद्धसन्देवो भविता वै सुतस्तव
वंशे तवैव नाम्ना तु ख्यातिं यास्यति चेप्सिताम्
MBh 13.14.68
शाकल्यः संशितात्मा वै नव वर्षशतान्यपि
आराधयामास भवं मनोयज्ञेन केशव
MBh 13.14.69
तं चाह भगवांस्तुष्टो ग्रन्थकारो भविष्यसि
वत्साक्षया च ते कीर्तिस्त्रैलोक्ये वै भविष्यति
अक्षयं च कुलं तेऽस्तु महर्षिभिरलंकृतम्
MBh 13.14.70
सावर्णिश्चापि विख्यात ऋषिरासीत्कृते युगे
इह तेन तपस्तप्तं षष्टिं वर्षशतान्यथ
MBh 13.14.71
तमाह भगवान्रुद्रः साक्षात्तुष्टोऽस्मि तेऽनघ
ग्रन्थकृल्लोकविख्यातो भवितास्यजरामरः
MBh 13.14.72
मयापि च यथा दृष्टो देवदेवः पुरा विभुः
साक्षात्पशुपतिस्तात तच्चापि शृणु माधव
MBh 13.14.73
यदर्थं च महादेवः प्रयतेन मया पुरा
आराधितो महातेजास्तच्चापि शृणु विस्तरम्
MBh 13.14.74
यदवाप्तं च मे पूर्वं देवदेवान्महेश्वरात्
तत्सर्वमखिलेनाद्य कथयिष्यामि तेऽनघ
MBh 13.14.75
पुरा कृतयुगे तात ऋषिरासीन्महायशाः
व्याघ्रपाद इति ख्यातो वेदवेदाङ्गपारगः
तस्याहमभवं पुत्रो धौम्यश्चापि ममानुजः
MBh 13.14.76
कस्यचित्त्वथ कालस्य धौम्येन सह माधव
आगच्छमाश्रमं क्रीडन्मुनीनां भावितात्मनाम्
MBh 13.14.77
तत्रापि च मया दृष्टा दुह्यमाना पयस्विनी
लक्षितं च मया क्षीरं स्वादुतो ह्यमृतोपमम्
MBh 13.14.78
ततः पिष्टं समालोड्य तोयेन सह माधव
आवयोः क्षीरमित्येव पानार्थमुपनीयते
MBh 13.14.79
अथ गव्यं पयस्तात कदाचित्प्राशितं मया
ततः पिष्टरसं तात न मे प्रीतिमुदावहत्
MBh 13.14.80
ततोऽहमब्रुवं बाल्याज्जननीमात्मनस्तदा
क्षीरोदनसमायुक्तं भोजनं च प्रयच्छ मे
MBh 13.14.81
ततो मामब्रवीन्माता दुःखशोकसमन्विता
पुत्रस्नेहात्परिष्वज्य मूर्ध्नि चाघ्राय माधव
MBh 13.14.82
कुतः क्षीरोदनं वत्स मुनीनां भावितात्मनाम्
वने निवसतां नित्यं कन्दमूलफलाशिनाम्
MBh 13.14.83
अप्रसाद्य विरूपाक्षं वरदं स्थाणुमव्ययम्
कुतः क्षीरोदनं वत्स सुखानि वसनानि च
MBh 13.14.84
तं प्रपद्य सदा वत्स सर्वभावेन शंकरम्
तत्प्रसादाच्च कामेभ्यः फलं प्राप्स्यसि पुत्रक
MBh 13.14.85
जनन्यास्तद्वचः श्रुत्वा तदाप्रभृति शत्रुहन्
मम भक्तिर्महादेवे नैष्ठिकी समपद्यत
MBh 13.14.86
ततोऽहं तप आस्थाय तोषयामास शंकरम्
दिव्यं वर्षसहस्रं तु पादाङ्गुष्ठाग्रविष्ठितः
MBh 13.14.87
एकं वर्षशतं चैव फलाहारस्तदाभवम्
द्वितीयं शीर्णपर्णाशी तृतीयं चाम्बुभोजनः
शतानि सप्त चैवाहं वायुभक्षस्तदाभवम्
MBh 13.14.88
ततः प्रीतो महादेवः सर्वलोकेश्वरः प्रभुः
शक्ररूपं स कृत्वा तु सर्वैर्देवगणैर्वृतः
सहस्राक्षस्तदा भूत्वा वज्रपाणिर्महायशाः
MBh 13.14.89
सुधावदातं रक्ताक्षं स्तब्धकर्णं मदोत्कटम्
आवेष्टितकरं रौद्रं चतुर्दंष्ट्रं महागजम्
MBh 13.14.90
समास्थितश्च भगवान्दीप्यमानः स्वतेजसा
आजगाम किरीटी तु हारकेयूरभूषितः
MBh 13.14.91
पाण्डुरेणातपत्रेण ध्रियमाणेन मूर्धनि
सेव्यमानोऽप्सरोभिश्च दिव्यगन्धर्वनादितः
MBh 13.14.92
ततो मामाह देवेन्द्रः प्रीतस्तेऽहं द्विजोत्तम
वरं वृणीष्व मत्तस्त्वं यत्ते मनसि वर्तते
MBh 13.14.93
शक्रस्य तु वचः श्रुत्वा नाहं प्रीतमनाभवम्
अब्रुवं च तदा कृष्ण देवराजमिदं वचः
MBh 13.14.94
नाहं त्वत्तो वरं काङ्क्षे नान्यस्मादपि दैवतात्
महादेवादृते सौम्य सत्यमेतद्ब्रवीमि ते
MBh 13.14.95
पशुपतिवचनाद्भवामि सद्यः; कृमिरथ वा तरुरप्यनेकशाखः
अपशुपतिवरप्रसादजा मे; त्रिभुवनराज्यविभूतिरप्यनिष्टा
MBh 13.14.96
अपि कीटः पतंगो वा भवेयं शंकराज्ञया
न तु शक्र त्वया दत्तं त्रैलोक्यमपि कामये
MBh 13.14.97
यावच्छशाङ्कशकलामलबद्धमौलि;र्न प्रीयते पशुपतिर्भगवान्ममेशः
तावज्जरामरणजन्मशताभिघातै;र्दुःखानि देहविहितानि समुद्वहामि
MBh 13.14.98
दिवसकरशशाङ्कवह्निदीप्तं; त्रिभुवनसारमपारमाद्यमेकम्
अजरममरमप्रसाद्य रुद्रं; जगति पुमानिह को लभेत शान्तिम्
MBh 13.14.99
शक्र उवाच
कः पुनस्तव हेतुर्वै ईशे कारणकारणे
येन देवादृतेऽन्यस्मात्प्रसादं नाभिकाङ्क्षसि
MBh 13.14.100
उपमन्युरुवाच
हेतुभिर्वा किमन्यैस्ते ईशः कारणकारणम्
न शुश्रुम यदन्यस्य लिङ्गमभ्यर्च्यते सुरैः
MBh 13.14.101
कस्यान्यस्य सुरैः सर्वैर्लिङ्गं मुक्त्वा महेश्वरम्
अर्च्यतेऽर्चितपूर्वं वा ब्रूहि यद्यस्ति ते श्रुतिः
MBh 13.14.102
यस्य ब्रह्मा च विष्णुश्च त्वं चापि सह दैवतैः
अर्चयध्वं सदा लिङ्गं तस्माच्छ्रेष्ठतमो हि सः
MBh 13.14.103
तस्माद्वरमहं काङ्क्षे निधनं वापि कौशिक
गच्छ वा तिष्ठ वा शक्र यथेष्टं बलसूदन
MBh 13.14.104
काममेष वरो मेऽस्तु शापो वापि महेश्वरात्
न चान्यां देवतां काङ्क्षे सर्वकामफलान्यपि
MBh 13.14.105
एवमुक्त्वा तु देवेन्द्रं दुःखादाकुलितेन्द्रियः
न प्रसीदति मे रुद्रः किमेतदिति चिन्तयन्
अथापश्यं क्षणेनैव तमेवैरावतं पुनः
MBh 13.14.106
हंसकुन्देन्दुसदृशं मृणालकुमुदप्रभम्
वृषरूपधरं साक्षात्क्षीरोदमिव सागरम्
MBh 13.14.107
कृष्णपुच्छं महाकायं मधुपिङ्गललोचनम्
जाम्बूनदेन दाम्ना च सर्वतः समलंकृतम्
MBh 13.14.108
रक्ताक्षं सुमहानासं सुकर्णं सुकटीतटम्
सुपार्श्वं विपुलस्कन्धं सुरूपं चारुदर्शनम्
MBh 13.14.109
ककुदं तस्य चाभाति स्कन्धमापूर्य विष्ठितम्
तुषारगिरिकूटाभं सिताभ्रशिखरोपमम्
MBh 13.14.110
तमास्थितश्च भगवान्देवदेवः सहोमया
अशोभत महादेवः पौर्णमास्यामिवोडुराट्
MBh 13.14.111
तस्य तेजोभवो वह्निः समेघः स्तनयित्नुमान्
सहस्रमिव सूर्याणां सर्वमावृत्य तिष्ठति
MBh 13.14.112
ईश्वरः सुमहातेजाः संवर्तक इवानलः
युगान्ते सर्वभूतानि दिधक्षुरिव चोद्यतः
MBh 13.14.113
तेजसा तु तदा व्याप्ते दुर्निरीक्ष्ये समन्ततः
पुनरुद्विग्नहृदयः किमेतदिति चिन्तयम्
MBh 13.14.114
मुहूर्तमिव तत्तेजो व्याप्य सर्वा दिशो दश
प्रशान्तं च क्षणेनैव देवदेवस्य मायया
MBh 13.14.115
अथापश्यं स्थितं स्थाणुं भगवन्तं महेश्वरम्
सौरभेयगतं सौम्यं विधूममिव पावकम्
सहितं चारुसर्वाङ्ग्या पार्वत्या परमेश्वरम्
MBh 13.14.116
नीलकण्ठं महात्मानमसक्तं तेजसां निधिम्
अष्टादशभुजं स्थाणुं सर्वाभरणभूषितम्
MBh 13.14.117
शुक्लाम्बरधरं देवं शुक्लमाल्यानुलेपनम्
शुक्लध्वजमनाधृष्यं शुक्लयज्ञोपवीतिनम्
MBh 13.14.118
गायद्भिर्नृत्यमानैश्च उत्पतद्भिरितस्ततः
वृतं पारिषदैर्दिव्यैरात्मतुल्यपराक्रमैः
MBh 13.14.119
बालेन्दुमुकुटं पाण्डुं शरच्चन्द्रमिवोदितम्
त्रिभिर्नेत्रैः कृतोद्द्योतं त्रिभिः सूर्यैरिवोदितैः
MBh 13.14.120
अशोभत च देवस्य माला गात्रे सितप्रभे
जातरूपमयैः पद्मैर्ग्रथिता रत्नभूषिता
MBh 13.14.121
मूर्तिमन्ति तथास्त्राणि सर्वतेजोमयानि च
मया दृष्टानि गोविन्द भवस्यामिततेजसः
MBh 13.14.122
इन्द्रायुधसहस्राभं धनुस्तस्य महात्मनः
पिनाकमिति विख्यातं स च वै पन्नगो महान्
MBh 13.14.123
सप्तशीर्षो महाकायस्तीक्ष्णदंष्ट्रो विषोल्बणः
ज्यावेष्टितमहाग्रीवः स्थितः पुरुषविग्रहः
MBh 13.14.124
शरश्च सूर्यसंकाशः कालानलसमद्युतिः
यत्तदस्त्रं महाघोरं दिव्यं पाशुपतं महत्
MBh 13.14.125
अद्वितीयमनिर्देश्यं सर्वभूतभयावहम्
सस्फुलिङ्गं महाकायं विसृजन्तमिवानलम्
MBh 13.14.126
एकपादं महादंष्ट्रं सहस्रशिरसोदरम्
सहस्रभुजजिह्वाक्षमुद्गिरन्तमिवानलम्
MBh 13.14.127
ब्राह्मान्नारायणादैन्द्रादाग्नेयादपि वारुणात्
यद्विशिष्टं महाबाहो सर्वशस्त्रविघातनम्
MBh 13.14.128
येन तत्त्रिपुरं दग्ध्वा क्षणाद्भस्मीकृतं पुरा
शरेणैकेन गोविन्द महादेवेन लीलया
MBh 13.14.129
निर्ददाह जगत्कृत्स्नं त्रैलोक्यं सचराचरम्
महेश्वरभुजोत्सृष्टं निमेषार्धान्न संशयः
MBh 13.14.130
नावध्यो यस्य लोकेऽस्मिन्ब्रह्मविष्णुसुरेष्वपि
तदहं दृष्टवांस्तात आश्चर्याद्भुतमुत्तमम्
MBh 13.14.131
गुह्यमस्त्रं परं चापि तत्तुल्याधिकमेव वा
यत्तच्छूलमिति ख्यातं सर्वलोकेषु शूलिनः
MBh 13.14.132
दारयेद्यन्महीं कृत्स्नां शोषयेद्वा महोदधिम्
संहरेद्वा जगत्कृत्स्नं विसृष्टं शूलपाणिना
MBh 13.14.133
यौवनाश्वो हतो येन मांधाता सबलः पुरा
चक्रवर्ती महातेजास्त्रिलोकविजयी नृपः
MBh 13.14.134
महाबलो महावीर्यः शक्रतुल्यपराक्रमः
करस्थेनैव गोविन्द लवणस्येह रक्षसः
MBh 13.14.135
तच्छूलमतितीक्ष्णाग्रं सुभीमं लोमहर्षणम्
त्रिशिखां भ्रुकुटीं कृत्वा तर्जमानमिव स्थितम्
MBh 13.14.136
विधूमं सार्चिषं कृष्णं कालसूर्यमिवोदितम्
सर्पहस्तमनिर्देश्यं पाशहस्तमिवान्तकम्
दृष्टवानस्मि गोविन्द तदस्त्रं रुद्रसंनिधौ
MBh 13.14.137
परशुस्तीक्ष्णधारश्च दत्तो रामस्य यः पुरा
महादेवेन तुष्टेन क्षत्रियाणां क्षयंकरः
कार्तवीर्यो हतो येन चक्रवर्ती महामृधे
MBh 13.14.138
त्रिःसप्तकृत्वः पृथिवी येन निःक्षत्रिया कृता
जामदग्न्येन गोविन्द रामेणाक्लिष्टकर्मणा
MBh 13.14.139
दीप्तधारः सुरौद्रास्यः सर्पकण्ठाग्रवेष्टितः
अभवच्छूलिनोऽभ्याशे दीप्तवह्निशिखोपमः
MBh 13.14.140
असंख्येयानि चास्त्राणि तस्य दिव्यानि धीमतः
प्राधान्यतो मयैतानि कीर्तितानि तवानघ
MBh 13.14.141
सव्यदेशे तु देवस्य ब्रह्मा लोकपितामहः
दिव्यं विमानमास्थाय हंसयुक्तं मनोजवम्
MBh 13.14.142
वामपार्श्वगतश्चैव तथा नारायणः स्थितः
वैनतेयं समास्थाय शङ्खचक्रगदाधरः
MBh 13.14.143
स्कन्दो मयूरमास्थाय स्थितो देव्याः समीपतः
शक्तिं कण्ठे समादाय द्वितीय इव पावकः
MBh 13.14.144
पुरस्ताच्चैव देवस्य नन्दिं पश्याम्यवस्थितम्
शूलं विष्टभ्य तिष्ठन्तं द्वितीयमिव शंकरम्
MBh 13.14.145
स्वायंभुवाद्या मनवो भृग्वाद्या ऋषयस्तथा
शक्राद्या देवताश्चैव सर्व एव समभ्ययुः
MBh 13.14.146
तेऽभिवाद्य महात्मानं परिवार्य समन्ततः
अस्तुवन्विविधैः स्तोत्रैर्महादेवं सुरास्तदा
MBh 13.14.147
ब्रह्मा भवं तदा स्तुन्वन्रथन्तरमुदीरयन्
ज्येष्ठसाम्ना च देवेशं जगौ नारायणस्तदा
गृणञ्शक्रः परं ब्रह्म शतरुद्रीयमुत्तमम्
MBh 13.14.148
ब्रह्मा नारायणश्चैव देवराजश्च कौशिकः
अशोभन्त महात्मानस्त्रयस्त्रय इवाग्नयः
MBh 13.14.149
तेषां मध्यगतो देवो रराज भगवाञ्शिवः
शरद्घनविनिर्मुक्तः परिविष्ट इवांशुमान्
ततोऽहमस्तुवं देवं स्तवेनानेन सुव्रतम्
MBh 13.14.150
नमो देवाधिदेवाय महादेवाय वै नमः
शक्राय शक्ररूपाय शक्रवेषधराय च
MBh 13.14.151
नमस्ते वज्रहस्ताय पिङ्गलायारुणाय च
पिनाकपाणये नित्यं खड्गशूलधराय च
MBh 13.14.152
नमस्ते कृष्णवासाय कृष्णकुञ्चितमूर्धजे
कृष्णाजिनोत्तरीयाय कृष्णाष्टमिरताय च
MBh 13.14.153
शुक्लवर्णाय शुक्लाय शुक्लाम्बरधराय च
शुक्लभस्मावलिप्ताय शुक्लकर्मरताय च
MBh 13.14.154
त्वं ब्रह्मा सर्वदेवानां रुद्राणां नीललोहितः
आत्मा च सर्वभूतानां सांख्ये पुरुष उच्यसे
MBh 13.14.155
ऋषभस्त्वं पवित्राणां योगिनां निष्कलः शिवः
आश्रमाणां गृहस्थस्त्वमीश्वराणां महेश्वरः
कुबेरः सर्वयक्षाणां क्रतूनां विष्णुरुच्यसे
MBh 13.14.156
पर्वतानां महामेरुर्नक्षत्राणां च चन्द्रमाः
वसिष्ठस्त्वमृषीणां च ग्रहाणां सूर्य उच्यसे
MBh 13.14.157
आरण्यानां पशूनां च सिंहस्त्वं परमेश्वरः
ग्राम्याणां गोवृषश्चासि भगवाँल्लोकपूजितः
MBh 13.14.158
आदित्यानां भवान्विष्णुर्वसूनां चैव पावकः
पक्षिणां वैनतेयश्च अनन्तो भुजगेषु च
MBh 13.14.159
सामवेदश्च वेदानां यजुषां शतरुद्रियम्
सनत्कुमारो योगीनां सांख्यानां कपिलो ह्यसि
MBh 13.14.160
शक्रोऽसि मरुतां देव पितॄणां धर्मराडसि
ब्रह्मलोकश्च लोकानां गतीनां मोक्ष उच्यसे
MBh 13.14.161
क्षीरोदः सागराणां च शैलानां हिमवान्गिरिः
वर्णानां ब्राह्मणश्चासि विप्राणां दीक्षितो द्विजः
आदिस्त्वमसि लोकानां संहर्ता काल एव च
MBh 13.14.162
यच्चान्यदपि लोकेषु सत्त्वं तेजोधिकं स्मृतम्
तत्सर्वं भगवानेव इति मे निश्चिता मतिः
MBh 13.14.163
नमस्ते भगवन्देव नमस्ते भक्तवत्सल
योगेश्वर नमस्तेऽस्तु नमस्ते विश्वसंभव
MBh 13.14.164
प्रसीद मम भक्तस्य दीनस्य कृपणस्य च
अनैश्वर्येण युक्तस्य गतिर्भव सनातन
MBh 13.14.165
यं चापराधं कृतवानज्ञानात्परमेश्वर
मद्भक्त इति देवेश तत्सर्वं क्षन्तुमर्हसि
MBh 13.14.166
मोहितश्चास्मि देवेश तुभ्यं रूपविपर्ययात्
तेन नार्घ्यं मया दत्तं पाद्यं चापि सुरेश्वर
MBh 13.14.167
एवं स्तुत्वाहमीशानं पाद्यमर्घ्यं च भक्तितः
कृताञ्जलिपुटो भूत्वा सर्वं तस्मै न्यवेदयम्
MBh 13.14.168
ततः शीताम्बुसंयुक्ता दिव्यगन्धसमन्विता
पुष्पवृष्टिः शुभा तात पपात मम मूर्धनि
MBh 13.14.169
दुन्दुभिश्च ततो दिव्यस्ताडितो देवकिंकरैः
ववौ च मारुतः पुण्यः शुचिगन्धः सुखावहः
MBh 13.14.170
ततः प्रीतो महादेवः सपत्नीको वृषध्वजः
अब्रवीत्त्रिदशांस्तत्र हर्षयन्निव मां तदा
MBh 13.14.171
पश्यध्वं त्रिदशाः सर्वे उपमन्योर्महात्मनः
मयि भक्तिं परां दिव्यामेकभावादवस्थिताम्
MBh 13.14.172
एवमुक्तास्ततः कृष्ण सुरास्ते शूलपाणिना
ऊचुः प्राञ्जलयः सर्वे नमस्कृत्वा वृषध्वजम्
MBh 13.14.173
भगवन्देवदेवेश लोकनाथ जगत्पते
लभतां सर्वकामेभ्यः फलं त्वत्तो द्विजोत्तमः
MBh 13.14.174
एवमुक्तस्ततः शर्वः सुरैर्ब्रह्मादिभिस्तथा
आह मां भगवानीशः प्रहसन्निव शंकरः
MBh 13.14.175
वत्सोपमन्यो प्रीतोऽस्मि पश्य मां मुनिपुंगव
दृढभक्तोऽसि विप्रर्षे मया जिज्ञासितो ह्यसि
MBh 13.14.176
अनया चैव भक्त्या ते अत्यर्थं प्रीतिमानहम्
तस्मात्सर्वान्ददाम्यद्य कामांस्तव यथेप्शितान्
MBh 13.14.177
एवमुक्तस्य चैवाथ महादेवेन मे विभो
हर्षादश्रूण्यवर्तन्त लोमहर्षश्च जायते
MBh 13.14.178
अब्रुवं च तदा देवं हर्षगद्गदया गिरा
जानुभ्यामवनिं गत्वा प्रणम्य च पुनः पुनः
MBh 13.14.179
अद्य जातो ह्यहं देव अद्य मे सफलं तपः
यन्मे साक्षान्महादेवः प्रसन्नस्तिष्ठतेऽग्रतः
MBh 13.14.180
यं न पश्यन्ति चाराध्य देवा ह्यमितविक्रमम्
तमहं दृष्टवान्देवं कोऽन्यो धन्यतरो मया
MBh 13.14.181
एवं ध्यायन्ति विद्वांसः परं तत्त्वं सनातनम्
षड्विंशकमिति ख्यातं यत्परात्परमक्षरम्
MBh 13.14.182
स एष भगवान्देवः सर्वतत्त्वादिरव्ययः
सर्वतत्त्वविधानज्ञः प्रधानपुरुषेश्वरः
MBh 13.14.183
योऽसृजद्दक्षिणादङ्गाद्ब्रह्माणं लोकसंभवम्
वामपार्श्वात्तथा विष्णुं लोकरक्षार्थमीश्वरः
युगान्ते चैव संप्राप्ते रुद्रमङ्गात्सृजत्प्रभुः
MBh 13.14.184
स रुद्रः संहरन्कृत्स्नं जगत्स्थावरजङ्गमम्
कालो भूत्वा महातेजाः संवर्तक इवानलः
MBh 13.14.185
एष देवो महादेवो जगत्सृष्ट्वा चराचरम्
कल्पान्ते चैव सर्वेषां स्मृतिमाक्षिप्य तिष्ठति
MBh 13.14.186
सर्वगः सर्वभूतात्मा सर्वभूतभवोद्भवः
आस्ते सर्वगतो नित्यमदृश्यः सर्वदैवतैः
MBh 13.14.187
यदि देयो वरो मह्यं यदि तुष्टश्च मे प्रभुः
भक्तिर्भवतु मे नित्यं शाश्वती त्वयि शंकर
MBh 13.14.188
अतीतानागतं चैव वर्तमानं च यद्विभो
जानीयामिति मे बुद्धिस्त्वत्प्रसादात्सुरोत्तम
MBh 13.14.189
क्षीरोदनं च भुञ्जीयामक्षयं सह बान्धवैः
आश्रमे च सदा मह्यं सांनिध्यं परमस्तु ते
MBh 13.14.190
एवमुक्तः स मां प्राह भगवाँल्लोकपूजितः
महेश्वरो महातेजाश्चराचरगुरुः प्रभुः
MBh 13.14.191
अजरश्चामरश्चैव भव दुःखविवर्जितः
शीलवान्गुणसंपन्नः सर्वज्ञः प्रियदर्शनः
MBh 13.14.192
अक्षयं यौवनं तेऽस्तु तेजश्चैवानलोपमम्
क्षीरोदः सागरश्चैव यत्र यत्रेच्छसे मुने
MBh 13.14.193
तत्र ते भविता कामं सांनिध्यं पयसो निधेः
क्षीरोदनं च भुङ्क्ष्व त्वममृतेन समन्वितम्
MBh 13.14.194
बन्धुभिः सहितः कल्पं ततो मामुपयास्यसि
सांनिध्यमाश्रमे नित्यं करिष्यामि द्विजोत्तम
MBh 13.14.195
तिष्ठ वत्स यथाकामं नोत्कण्ठां कर्तुमर्हसि
स्मृतः स्मृतश्च ते विप्र सदा दास्यामि दर्शनम्
MBh 13.14.196
एवमुक्त्वा स भगवान्सूर्यकोटिसमप्रभः
ममेशानो वरं दत्त्वा तत्रैवान्तरधीयत
MBh 13.14.197
एवं दृष्टो मया कृष्ण देवदेवः समाधिना
तदवाप्तं च मे सर्वं यदुक्तं तेन धीमता
MBh 13.14.198
प्रत्यक्षं चैव ते कृष्ण पश्य सिद्धान्व्यवस्थितान्
ऋषीन्विद्याधरान्यक्षान्गन्धर्वाप्सरसस्तथा
MBh 13.14.199
पश्य वृक्षान्मनोरम्यान्सदा पुष्पफलान्वितान्
सर्वर्तुकुसुमैर्युक्तान्स्निग्धपत्रान्सुशाखिनः
सर्वमेतन्महाबाहो दिव्यभावसमन्वितम्
🪷 The Honest Framing
This chapter belongs to the source-pinned BORI Critical Edition-derived digital witness. Its unique addresses are publicly readable and indexable; this remains a digital-witness claim, not a claim that every Mahābhārata recension agrees word-for-word or that the traditional 100,000-verse extent is represented here.
Navigation
- ← Anuśāsana-Parva chapter-index (154 chapters)
- ← Mahābhārata master-index (all 18 Parvas)
- ← Previous chapter · Anuśāsana-Parva Ch 13
- Next chapter · Anuśāsana-Parva Ch 15 →
Sources and Connected Readings
Continue from these 199 source-pinned Devanāgarī addresses to Anuśāsana-Parva, the Mahābhārata reading map, and any exact Bhagavad-Gītā correspondence.
MBh 13.14local chapter route · Anuśāsana-ParvaAnuśāsana-Parvaparent Parva chapter index/mahabharata18-parva Sanskrit reading index with edition and address notesBhīṣma-ParvaMahābhārata Parva 6 · the Gītā lives in chapters 23-40MBh 6.23Bhagavad-Gītā chapter 1 in its Itihāsa homeMBh 6.40Bhagavad-Gītā chapter 18 in its Itihāsa homeRāmopākhyānaVana-Parva 258 · Vyāsa narrates the Rāma-kathā inside Krishna's epicNārāyaṇīyamŚānti-Parva 335 · Nārāyaṇa/Krishna/Viṣṇu/Vāsudeva unity witness/bhagavad-gitadeep Gītā corpus with translations, commentaries, and verse-level anchorsBG 1.1Dharma-kṣetra opening cross-anchored to MBh 6.23.1BG 18.66Carama-Śloka surrender seal inside the Bhīṣma-Parva arcVyāsa vibhūtiBG 10.37 · Krishna names Vyāsa among munisBG 10.37Vyāsa and Dhanañjaya as Krishna-vibhūti source routeŚB 1.2.11Brahman · Paramātmā · Bhagavān as one advaya-tattvaŚB 1.3.28kṛṣṇas tu bhagavān svayam · Vyāsa corpus source seal/binduDiamond of Darśanas · Itihāsa as one Bindu aperture/philosophyKrishna = Paramaatma = Parabrahman constitutional foundation
🪷 जय व्यास भगवान् 🪷