🪷 Mahābhārata · Anuśāsana-Parva · Chapter 147

The Book of the Final Teaching · Parva 13 · 25 unique Sanskrit addresses · pinned Critical Edition-derived witness

The Devanāgarī Yathārtha · 25 Shlokas

MBh 13.147.1
वैशंपायन उवाच इत्युक्तवति वाक्यं तु कृष्णे देवकिनन्दने भीष्मं शांतनवं भूयः पर्यपृच्छद्युधिष्ठिरः
MBh 13.147.2
निर्णये वा महाबुद्धे सर्वधर्मभृतां वर प्रत्यक्षमागमो वेति किं तयोः कारणं भवेत्
MBh 13.147.3
भीष्म उवाच नास्त्यत्र संशयः कश्चिदिति मे वर्तते मतिः शृणु वक्ष्यामि ते प्राज्ञ सम्यक्त्वमनुपृच्छसि
MBh 13.147.4
संशयः सुगमो राजन्निर्णयस्त्वत्र दुर्गमः दृष्टं श्रुतमनन्तं हि यत्र संशयदर्शनम्
MBh 13.147.5
प्रत्यक्षं कारणं दृष्टं हेतुकाः प्राज्ञमानिनः नास्तीत्येवं व्यवस्यन्ति सत्यं संशयमेव च तदयुक्तं व्यवस्यन्ति बालाः पण्डितमानिनः
MBh 13.147.6
अथ चेन्मन्यसे चैकं कारणं किं भवेदिति शक्यं दीर्घेण कालेन युक्तेनातन्द्रितेन च प्राणयात्रामनेकां च कल्पयानेन भारत
MBh 13.147.7
तत्परेणैव नान्येन शक्यं ह्येतत्तु कारणम् हेतूनामन्तमासाद्य विपुलं ज्ञानमुत्तमम् ज्योतिः सर्वस्य लोकस्य विपुलं प्रतिपद्यते
MBh 13.147.8
तत्त्वेनागमनं राजन्हेत्वन्तगमनं तथा अग्राह्यमनिबद्धं च वाचः संपरिवर्जनम्
MBh 13.147.9
युधिष्ठिर उवाच प्रत्यक्षं लोकतः सिद्धं लोकाश्चागमपूर्वकाः शिष्टाचारो बहुविधो ब्रूहि तन्मे पितामह
MBh 13.147.10
भीष्म उवाच धर्मस्य ह्रियमाणस्य बलवद्भिर्दुरात्मभिः संस्था यत्नैरपि कृता कालेन परिभिद्यते
MBh 13.147.11
अधर्मा धर्मरूपेण तृणैः कूपा इवावृताः ततस्तैर्भिद्यते वृत्तं शृणु चैव युधिष्ठिर
MBh 13.147.12
अवृत्त्या ये च भिन्दन्ति श्रुतत्यागपरायणाः धर्मविद्वेषिणो मन्दा इत्युक्तस्तेषु संशयः
MBh 13.147.13
अतृप्यन्तस्तु साधूनां य एवागमबुद्धयः परमित्येव संतुष्टास्तानुपास्स्व च पृच्छ च
MBh 13.147.14
कामार्थौ पृष्ठतः कृत्वा लोभमोहानुसारिणौ धर्म इत्येव संबुद्धास्तानुपास्स्व च पृच्छ च
MBh 13.147.15
न तेषां भिद्यते वृत्तं यज्ञस्वाध्यायकर्मभिः आचारः कारणं चैव धर्मश्चैव त्रयं पुनः
MBh 13.147.16
युधिष्ठिर उवाच पुनरेवेह मे बुद्धिः संशये परिमुह्यते अपारे मार्गमाणस्य परं तीरमपश्यतः
MBh 13.147.17
वेदाः प्रत्यक्षमाचारः प्रमाणं तत्त्रयं यदि पृथक्त्वं लभ्यते चैषां धर्मश्चैकस्त्रयं कथम्
MBh 13.147.18
भीष्म उवाच धर्मस्य ह्रियमाणस्य बलवद्भिर्दुरात्मभिः यद्येवं मन्यसे राजंस्त्रिधा धर्मविचारणा
MBh 13.147.19
एक एवेति जानीहि त्रिधा तस्य प्रदर्शनम् पृथक्त्वे चैव मे बुद्धिस्त्रयाणामपि वै तथा
MBh 13.147.20
उक्तो मार्गस्त्रयाणां च तत्तथैव समाचर जिज्ञासा तु न कर्तव्या धर्मस्य परितर्कणात्
MBh 13.147.21
सदैव भरतश्रेष्ठ मा ते भूदत्र संशयः अन्धो जड इवाशङ्को यद्ब्रवीमि तदाचर
MBh 13.147.22
अहिंसा सत्यमक्रोधो दानमेतच्चतुष्टयम् अजातशत्रो सेवस्व धर्म एष सनातनः
MBh 13.147.23
ब्राह्मणेषु च वृत्तिर्या पितृपैतामहोचिता तामन्वेहि महाबाहो स्वर्गस्यैते हि देशिकाः
MBh 13.147.24
प्रमाणमप्रमाणं वै यः कुर्यादबुधो नरः न स प्रमाणतामर्हो विवादजननो हि सः
MBh 13.147.25
ब्राह्मणानेव सेवस्व सत्कृत्य बहुमन्य च एतेष्वेव त्विमे लोकाः कृत्स्ना इति निबोध तान्

🪷 The Honest Framing

This chapter belongs to the source-pinned BORI Critical Edition-derived digital witness. Its unique addresses are publicly readable and indexable; this remains a digital-witness claim, not a claim that every Mahābhārata recension agrees word-for-word or that the traditional 100,000-verse extent is represented here.

Navigation

Sources and Connected Readings

Continue from these 25 source-pinned Devanāgarī addresses to Anuśāsana-Parva, the Mahābhārata reading map, and any exact Bhagavad-Gītā correspondence.

MBh 13.147local chapter route · Anuśāsana-ParvaAnuśāsana-Parvaparent Parva chapter index/mahabharata18-parva Sanskrit reading index with edition and address notesBhīṣma-ParvaMahābhārata Parva 6 · the Gītā lives in chapters 23-40MBh 6.23Bhagavad-Gītā chapter 1 in its Itihāsa homeMBh 6.40Bhagavad-Gītā chapter 18 in its Itihāsa homeRāmopākhyānaVana-Parva 258 · Vyāsa narrates the Rāma-kathā inside Krishna's epicNārāyaṇīyamŚānti-Parva 335 · Nārāyaṇa/Krishna/Viṣṇu/Vāsudeva unity witness/bhagavad-gitadeep Gītā corpus with translations, commentaries, and verse-level anchorsBG 1.1Dharma-kṣetra opening cross-anchored to MBh 6.23.1BG 18.66Carama-Śloka surrender seal inside the Bhīṣma-Parva arcVyāsa vibhūtiBG 10.37 · Krishna names Vyāsa among munisBG 10.37Vyāsa and Dhanañjaya as Krishna-vibhūti source routeŚB 1.2.11Brahman · Paramātmā · Bhagavān as one advaya-tattvaŚB 1.3.28kṛṣṇas tu bhagavān svayam · Vyāsa corpus source seal/binduDiamond of Darśanas · Itihāsa as one Bindu aperture/philosophyKrishna = Paramaatma = Parabrahman constitutional foundation

🪷 जय व्यास भगवान् 🪷