🪷 Mahābhārata · Anuśāsana-Parva · Chapter 146

The Book of the Final Teaching · Parva 13 · 29 unique Sanskrit addresses · pinned Critical Edition-derived witness

The Devanāgarī Yathārtha · 29 Shlokas

MBh 13.146.1
वासुदेव उवाच युधिष्ठिर महाबाहो महाभाग्यं महात्मनः रुद्राय बहुरूपाय बहुनाम्ने निबोध मे
MBh 13.146.2
वदन्त्यग्निं महादेवं तथा स्थाणुं महेश्वरम् एकाक्षं त्र्यम्बकं चैव विश्वरूपं शिवं तथा
MBh 13.146.3
द्वे तनू तस्य देवस्य वेदज्ञा ब्राह्मणा विदुः घोरामन्यां शिवामन्यां ते तनू बहुधा पुनः
MBh 13.146.4
उग्रा घोरा तनूर्यास्य सोऽग्निर्विद्युत्स भास्करः शिवा सौम्या च या तस्य धर्मस्त्वापोऽथ चन्द्रमाः
MBh 13.146.5
आत्मनोऽर्धं तु तस्याग्निरुच्यते भरतर्षभ ब्रह्मचर्यं चरत्येष शिवा यास्य तनुस्तथा
MBh 13.146.6
यास्य घोरतमा मूर्तिर्जगत्संहरते तया ईश्वरत्वान्महत्त्वाच्च महेश्वर इति स्मृतः
MBh 13.146.7
यन्निर्दहति यत्तीक्ष्णो यदुग्रो यत्प्रतापवान् मांसशोणितमज्जादो यत्ततो रुद्र उच्यते
MBh 13.146.8
देवानां सुमहान्यच्च यच्चास्य विषयो महान् यच्च विश्वं महत्पाति महादेवस्ततः स्मृतः
MBh 13.146.9
समेधयति यन्नित्यं सर्वार्थान्सर्वकर्मभिः शिवमिच्छन्मनुष्याणां तस्मादेष शिवः स्मृतः
MBh 13.146.10
दहत्यूर्ध्वं स्थितो यच्च प्राणोत्पत्तिः स्थितिश्च यत् स्थिरलिङ्गश्च यन्नित्यं तस्मात्स्थाणुरिति स्मृतः
MBh 13.146.11
यदस्य बहुधा रूपं भूतं भव्यं भवत्तथा स्थावरं जङ्गमं चैव बहुरूपस्ततः स्मृतः
MBh 13.146.12
धूम्रं रूपं च यत्तस्य धूर्जटीत्यत उच्यते विश्वे देवाश्च यत्तस्मिन्विश्वरूपस्ततः स्मृतः
MBh 13.146.13
सहस्राक्षोऽयुताक्षो वा सर्वतोक्षिमयोऽपि वा चक्षुषः प्रभवस्तेजो नास्त्यन्तोऽथास्य चक्षुषाम्
MBh 13.146.14
सर्वथा यत्पशून्पाति तैश्च यद्रमते पुनः तेषामधिपतिर्यच्च तस्मात्पशुपतिः स्मृतः
MBh 13.146.15
नित्येन ब्रह्मचर्येण लिङ्गमस्य यदा स्थितम् महयन्त्यस्य लोकाश्च महेश्वर इति स्मृतः
MBh 13.146.16
विग्रहं पूजयेद्यो वै लिङ्गं वापि महात्मनः लिङ्गं पूजयिता नित्यं महतीं श्रियमश्नुते
MBh 13.146.17
ऋषयश्चापि देवाश्च गन्धर्वाप्सरसस्तथा लिङ्गमेवार्चयन्ति स्म यत्तदूर्ध्वं समास्थितम्
MBh 13.146.18
पूज्यमाने ततस्तस्मिन्मोदते स महेश्वरः सुखं ददाति प्रीतात्मा भक्तानां भक्तवत्सलः
MBh 13.146.19
एष एव श्मशानेषु देवो वसति नित्यशः यजन्ते तं जनास्तत्र वीरस्थाननिषेविणम्
MBh 13.146.20
विषमस्थः शरीरेषु स मृत्युः प्राणिनामिह स च वायुः शरीरेषु प्राणोऽपानः शरीरिणाम्
MBh 13.146.21
तस्य घोराणि रूपाणि दीप्तानि च बहूनि च लोके यान्यस्य पूज्यन्ते विप्रास्तानि विदुर्बुधाः
MBh 13.146.22
नामधेयानि वेदेषु बहून्यस्य यथार्थतः निरुच्यन्ते महत्त्वाच्च विभुत्वात्कर्मभिस्तथा
MBh 13.146.23
वेदे चास्य विदुर्विप्राः शतरुद्रीयमुत्तमम् व्यासादनन्तरं यच्चाप्युपस्थानं महात्मनः
MBh 13.146.24
प्रदाता सर्वलोकानां विश्वं चाप्युच्यते महत् ज्येष्ठभूतं वदन्त्येनं ब्राह्मणा ऋषयोऽपरे
MBh 13.146.25
प्रथमो ह्येष देवानां मुखादग्निरजायत ग्रहैर्बहुविधैः प्राणान्संरुद्धानुत्सृजत्यपि
MBh 13.146.26
स मोचयति पुण्यात्मा शरण्यः शरणागतान् आयुरारोग्यमैश्वर्यं वित्तं कामांश्च पुष्कलान्
MBh 13.146.27
स ददाति मनुष्येभ्यः स एवाक्षिपते पुनः शक्रादिषु च देवेषु तस्य चैश्वर्यमुच्यते
MBh 13.146.28
स एवाभ्यधिको नित्यं त्रैलोक्यस्य शुभाशुभे ऐश्वर्याच्चैव कामानामीश्वरः पुनरुच्यते
MBh 13.146.29
महेश्वरश्च लोकानां महतामीश्वरश्च सः बहुभिर्विविधै रूपैर्विश्वं व्याप्तमिदं जगत् तस्य देवस्य यद्वक्त्रं समुद्रे वडवामुखम्

🪷 The Honest Framing

This chapter belongs to the source-pinned BORI Critical Edition-derived digital witness. Its unique addresses are publicly readable and indexable; this remains a digital-witness claim, not a claim that every Mahābhārata recension agrees word-for-word or that the traditional 100,000-verse extent is represented here.

Navigation

Sources and Connected Readings

Continue from these 29 source-pinned Devanāgarī addresses to Anuśāsana-Parva, the Mahābhārata reading map, and any exact Bhagavad-Gītā correspondence.

MBh 13.146local chapter route · Anuśāsana-ParvaAnuśāsana-Parvaparent Parva chapter index/mahabharata18-parva Sanskrit reading index with edition and address notesBhīṣma-ParvaMahābhārata Parva 6 · the Gītā lives in chapters 23-40MBh 6.23Bhagavad-Gītā chapter 1 in its Itihāsa homeMBh 6.40Bhagavad-Gītā chapter 18 in its Itihāsa homeRāmopākhyānaVana-Parva 258 · Vyāsa narrates the Rāma-kathā inside Krishna's epicNārāyaṇīyamŚānti-Parva 335 · Nārāyaṇa/Krishna/Viṣṇu/Vāsudeva unity witness/bhagavad-gitadeep Gītā corpus with translations, commentaries, and verse-level anchorsBG 1.1Dharma-kṣetra opening cross-anchored to MBh 6.23.1BG 18.66Carama-Śloka surrender seal inside the Bhīṣma-Parva arcVyāsa vibhūtiBG 10.37 · Krishna names Vyāsa among munisBG 10.37Vyāsa and Dhanañjaya as Krishna-vibhūti source routeŚB 1.2.11Brahman · Paramātmā · Bhagavān as one advaya-tattvaŚB 1.3.28kṛṣṇas tu bhagavān svayam · Vyāsa corpus source seal/binduDiamond of Darśanas · Itihāsa as one Bindu aperture/philosophyKrishna = Paramaatma = Parabrahman constitutional foundation

🪷 जय व्यास भगवान् 🪷