🪷 Mahābhārata · Anuśāsana-Parva · Chapter 145

The Book of the Final Teaching · Parva 13 · 41 unique Sanskrit addresses · pinned Critical Edition-derived witness

The Devanāgarī Yathārtha · 41 Shlokas

MBh 13.145.1
युधिष्ठिर उवाच दुर्वाससः प्रसादात्ते यत्तदा मधुसूदन अवाप्तमिह विज्ञानं तन्मे व्याख्यातुमर्हसि
MBh 13.145.2
महाभाग्यं च यत्तस्य नामानि च महात्मनः तत्त्वतो ज्ञातुमिच्छामि सर्वं मतिमतां वर
MBh 13.145.3
वासुदेव उवाच हन्त ते कथयिष्यामि नमस्कृत्वा कपर्दिने यदवाप्तं महाराज श्रेयो यच्चार्जितं यशः
MBh 13.145.4
प्रयतः प्रातरुत्थाय यदधीये विशां पते प्राञ्जलिः शतरुद्रीयं तन्मे निगदतः शृणु
MBh 13.145.5
प्रजापतिस्तत्ससृजे तपसोऽन्ते महातपाः शंकरस्त्वसृजत्तात प्रजाः स्थावरजङ्गमाः
MBh 13.145.6
नास्ति किंचित्परं भूतं महादेवाद्विशां पते इह त्रिष्वपि लोकेषु भूतानां प्रभवो हि सः
MBh 13.145.7
न चैवोत्सहते स्थातुं कश्चिदग्रे महात्मनः न हि भूतं समं तेन त्रिषु लोकेषु विद्यते
MBh 13.145.8
गन्धेनापि हि संग्रामे तस्य क्रुद्धस्य शत्रवः विसंज्ञा हतभूयिष्ठा वेपन्ति च पतन्ति च
MBh 13.145.9
घोरं च निनदं तस्य पर्जन्यनिनदोपमम् श्रुत्वा विदीर्येद्धृदयं देवानामपि संयुगे
MBh 13.145.10
यांश्च घोरेण रूपेण पश्येत्क्रुद्धः पिनाकधृक् न सुरा नासुरा लोके न गन्धर्वा न पन्नगाः कुपिते सुखमेधन्ते तस्मिन्नपि गुहागताः
MBh 13.145.11
प्रजापतेश्च दक्षस्य यजतो वितते क्रतौ विव्याध कुपितो यज्ञं निर्भयस्तु भवस्तदा धनुषा बाणमुत्सृज्य सघोषं विननाद च
MBh 13.145.12
ते न शर्म कुतः शान्तिं विषादं लेभिरे सुराः विद्रुते सहसा यज्ञे कुपिते च महेश्वरे
MBh 13.145.13
तेन ज्यातलघोषेण सर्वे लोकाः समाकुलाः बभूवुरवशाः पार्थ विषेदुश्च सुरासुराः
MBh 13.145.14
आपश्चुक्षुभिरे चैव चकम्पे च वसुंधरा व्यद्रवन्गिरयश्चापि द्यौः पफाल च सर्वशः
MBh 13.145.15
अन्धेन तमसा लोकाः प्रावृता न चकाशिरे प्रनष्टा ज्योतिषां भाश्च सह सूर्येण भारत
MBh 13.145.16
भृशं भीतास्ततः शान्तिं चक्रुः स्वस्त्ययनानि च ऋषयः सर्वभूतानामात्मनश्च हितैषिणः
MBh 13.145.17
ततः सोऽभ्यद्रवद्देवान्क्रुद्धो रौद्रपराक्रमः भगस्य नयने क्रुद्धः प्रहारेण व्यशातयत्
MBh 13.145.18
पूषाणं चाभिदुद्राव परेण वपुषान्वितः पुरोडाशं भक्षयतो दशनान्वै व्यशातयत्
MBh 13.145.19
ततः प्रणेमुर्देवास्ते वेपमानाः स्म शंकरम् पुनश्च संदधे रुद्रो दीप्तं सुनिशितं शरम्
MBh 13.145.20
रुद्रस्य विक्रमं दृष्ट्वा भीता देवाः सहर्षिभिः ततः प्रसादयामासुः शर्वं ते विबुधोत्तमाः
MBh 13.145.21
जेपुश्च शतरुद्रीयं देवाः कृत्वाञ्जलिं ततः संस्तूयमानस्त्रिदशैः प्रससाद महेश्वरः
MBh 13.145.22
रुद्रस्य भागं यज्ञे च विशिष्टं ते त्वकल्पयन् भयेन त्रिदशा राजञ्शरणं च प्रपेदिरे
MBh 13.145.23
तेन चैवातिकोपेन स यज्ञः संधितोऽभवत् यद्यच्चापि हतं तत्र तत्तथैव प्रदीयते
MBh 13.145.24
असुराणां पुराण्यासंस्त्रीणि वीर्यवतां दिवि आयसं राजतं चैव सौवर्णमपरं तथा
MBh 13.145.25
नाशकत्तानि मघवा भेत्तुं सर्वायुधैरपि अथ सर्वेऽमरा रुद्रं जग्मुः शरणमर्दिताः
MBh 13.145.26
तत ऊचुर्महात्मानो देवाः सर्वे समागताः रुद्र रौद्रा भविष्यन्ति पशवः सर्वकर्मसु जहि दैत्यान्सह पुरैर्लोकांस्त्रायस्व मानद
MBh 13.145.27
स तथोक्तस्तथेत्युक्त्वा विष्णुं कृत्वा शरोत्तमम् शल्यमग्निं तथा कृत्वा पुङ्खं वैवस्वतं यमम् वेदान्कृत्वा धनुः सर्वाञ्ज्यां च सावित्रिमुत्तमाम्
MBh 13.145.28
देवान्रथवरं कृत्वा विनियुज्य च सर्वशः त्रिपर्वणा त्रिशल्येन तेन तानि बिभेद सः
MBh 13.145.29
शरेणादित्यवर्णेन कालाग्निसमतेजसा तेऽसुराः सपुरास्तत्र दग्धा रुद्रेण भारत
MBh 13.145.30
तं चैवाङ्कगतं दृष्ट्वा बालं पञ्चशिखं पुनः उमा जिज्ञासमाना वै कोऽयमित्यब्रवीत्तदा
MBh 13.145.31
असूयतश्च शक्रस्य वज्रेण प्रहरिष्यतः सवज्रं स्तम्भयामास तं बाहुं परिघोपमम्
MBh 13.145.32
न संबुबुधिरे चैनं देवास्तं भुवनेश्वरम् सप्रजापतयः सर्वे तस्मिन्मुमुहुरीश्वरे
MBh 13.145.33
ततो ध्यात्वाथ भगवान्ब्रह्मा तममितौजसम् अयं श्रेष्ठ इति ज्ञात्वा ववन्दे तमुमापतिम्
MBh 13.145.34
ततः प्रसादयामासुरुमां रुद्रं च ते सुराः बभूव स तदा बाहुर्बलहन्तुर्यथा पुरा
MBh 13.145.35
स चापि ब्राह्मणो भूत्वा दुर्वासा नाम वीर्यवान् द्वारवत्यां मम गृहे चिरं कालमुपावसत्
MBh 13.145.36
विप्रकारान्प्रयुङ्क्ते स्म सुबहून्मम वेश्मनि तानुदारतया चाहमक्षमं तस्य दुःसहम्
MBh 13.145.37
स देवेन्द्रश्च वायुश्च सोऽश्विनौ स च विद्युतः स चन्द्रमाः स चेशानः स सूर्यो वरुणश्च सः
MBh 13.145.38
स कालः सोऽन्तको मृत्युः स तमो रात्र्यहानि च मासार्धमासा ऋतवः संध्ये संवत्सरश्च सः
MBh 13.145.39
स धाता स विधाता च विश्वकर्मा स सर्ववित् नक्षत्राणि दिशश्चैव प्रदिशोऽथ ग्रहास्तथा विश्वमूर्तिरमेयात्मा भगवानमितद्युतिः
MBh 13.145.40
एकधा च द्विधा चैव बहुधा च स एव च शतधा सहस्रधा चैव तथा शतसहस्रधा
MBh 13.145.41
ईदृशः स महादेवो भूयश्च भगवानतः न हि शक्या गुणा वक्तुमपि वर्षशतैरपि

🪷 The Honest Framing

This chapter belongs to the source-pinned BORI Critical Edition-derived digital witness. Its unique addresses are publicly readable and indexable; this remains a digital-witness claim, not a claim that every Mahābhārata recension agrees word-for-word or that the traditional 100,000-verse extent is represented here.

Navigation

Sources and Connected Readings

Continue from these 41 source-pinned Devanāgarī addresses to Anuśāsana-Parva, the Mahābhārata reading map, and any exact Bhagavad-Gītā correspondence.

MBh 13.145local chapter route · Anuśāsana-ParvaAnuśāsana-Parvaparent Parva chapter index/mahabharata18-parva Sanskrit reading index with edition and address notesBhīṣma-ParvaMahābhārata Parva 6 · the Gītā lives in chapters 23-40MBh 6.23Bhagavad-Gītā chapter 1 in its Itihāsa homeMBh 6.40Bhagavad-Gītā chapter 18 in its Itihāsa homeRāmopākhyānaVana-Parva 258 · Vyāsa narrates the Rāma-kathā inside Krishna's epicNārāyaṇīyamŚānti-Parva 335 · Nārāyaṇa/Krishna/Viṣṇu/Vāsudeva unity witness/bhagavad-gitadeep Gītā corpus with translations, commentaries, and verse-level anchorsBG 1.1Dharma-kṣetra opening cross-anchored to MBh 6.23.1BG 18.66Carama-Śloka surrender seal inside the Bhīṣma-Parva arcVyāsa vibhūtiBG 10.37 · Krishna names Vyāsa among munisBG 10.37Vyāsa and Dhanañjaya as Krishna-vibhūti source routeŚB 1.2.11Brahman · Paramātmā · Bhagavān as one advaya-tattvaŚB 1.3.28kṛṣṇas tu bhagavān svayam · Vyāsa corpus source seal/binduDiamond of Darśanas · Itihāsa as one Bindu aperture/philosophyKrishna = Paramaatma = Parabrahman constitutional foundation

🪷 जय व्यास भगवान् 🪷