🪷 Mahābhārata · Anuśāsana-Parva · Chapter 144

The Book of the Final Teaching · Parva 13 · 51 unique Sanskrit addresses · pinned Critical Edition-derived witness

The Devanāgarī Yathārtha · 51 Shlokas

MBh 13.144.1
युधिष्ठिर उवाच ब्रूहि ब्राह्मणपूजायां व्युष्टिं त्वं मधुसूदन वेत्ता त्वमस्य चार्थस्य वेद त्वां हि पितामहः
MBh 13.144.2
वासुदेव उवाच शृणुष्वावहितो राजन्द्विजानां भरतर्षभ यथातत्त्वेन वदतो गुणान्मे कुरुसत्तम
MBh 13.144.3
प्रद्युम्नः परिपप्रच्छ ब्राह्मणैः परिकोपितः किं फलं ब्राह्मणेष्वस्ति पूजायां मधुसूदन ईश्वरस्य सतस्तस्य इह चैव परत्र च
MBh 13.144.4
सदा द्विजातीन्संपूज्य किं फलं तत्र मानद एतद्ब्रूहि पितः सर्वं सुमहान्संशयोऽत्र मे
MBh 13.144.5
इत्युक्तवचनस्तेन प्रद्युम्नेन तदा त्वहम् प्रत्यब्रुवं महाराज यत्तच्छृणु समाहितः
MBh 13.144.6
व्युष्टिं ब्राह्मणपूजायां रौक्मिणेय निबोध मे एते हि सोमराजान ईश्वराः सुखदुःखयोः
MBh 13.144.7
अस्मिँल्लोके रौक्मिणेय तथामुष्मिंश्च पुत्रक ब्राह्मणप्रमुखं सौख्यं न मेऽत्रास्ति विचारणा
MBh 13.144.8
ब्राह्मणप्रमुखं वीर्यमायुः कीर्तिर्यशो बलम् लोका लोकेश्वराश्चैव सर्वे ब्राह्मणपूर्वकाः
MBh 13.144.9
तत्कथं नाद्रियेयं वै ईश्वरोऽस्मीति पुत्रक मा ते मन्युर्महाबाहो भवत्वत्र द्विजान्प्रति
MBh 13.144.10
ब्राह्मणो हि महद्भूतमस्मिँल्लोके परत्र च भस्म कुर्युर्जगदिदं क्रुद्धाः प्रत्यक्षदर्शिनः
MBh 13.144.11
अन्यानपि सृजेयुश्च लोकाँल्लोकेश्वरांस्तथा कथं तेषु न वर्तेय सम्यग्ज्ञानात्सुतेजसः
MBh 13.144.12
अवसन्मद्गृहे तात ब्राह्मणो हरिपिङ्गलः चीरवासा बिल्वदण्डी दीर्घश्मश्रुनखादिमान् दीर्घेभ्यश्च मनुष्येभ्यः प्रमाणादधिको भुवि
MBh 13.144.13
स स्म संचरते लोकान्ये दिव्या ये च मानुषाः इमा गाथा गायमानश्चत्वरेषु सभासु च
MBh 13.144.14
दुर्वाससं वासयेत्को ब्राह्मणं सत्कृतं गृहे परिभाषां च मे श्रुत्वा को नु दद्यात्प्रतिश्रयम् यो मां कश्चिद्वासयेत न स मां कोपयेदिह
MBh 13.144.15
तं स्म नाद्रियते कश्चित्ततोऽहं तमवासयम्
MBh 13.144.16
स स्म भुङ्क्ते सहस्राणां बहूनामन्नमेकदा एकदा स्माल्पकं भुङ्क्ते न वैति च पुनर्गृहान्
MBh 13.144.17
अकस्माच्च प्रहसति तथाकस्मात्प्ररोदिति न चास्य वयसा तुल्यः पृथिव्यामभवत्तदा
MBh 13.144.18
सोऽस्मदावसथं गत्वा शय्याश्चास्तरणानि च कन्याश्चालंकृता दग्ध्वा ततो व्यपगतः स्वयम्
MBh 13.144.19
अथ मामब्रवीद्भूयः स मुनिः संशितव्रतः कृष्ण पायसमिच्छामि भोक्तुमित्येव सत्वरः
MBh 13.144.20
सदैव तु मया तस्य चित्तज्ञेन गृहे जनः सर्वाण्येवान्नपानानि भक्ष्याश्चोच्चावचास्तथा भवन्तु सत्कृतानीति पूर्वमेव प्रचोदितः
MBh 13.144.21
ततोऽहं ज्वलमानं वै पायसं प्रत्यवेदयम् तद्भुक्त्वैव तु स क्षिप्रं ततो वचनमब्रवीत् क्षिप्रमङ्गानि लिम्पस्व पायसेनेति स स्म ह
MBh 13.144.22
अविमृश्यैव च ततः कृतवानस्मि तत्तथा तेनोच्छिष्टेन गात्राणि शिरश्चैवाभ्यमृक्षयम्
MBh 13.144.23
स ददर्श तदाभ्याशे मातरं ते शुभाननाम् तामपि स्मयमानः स पायसेनाभ्यलेपयत्
MBh 13.144.24
मुनिः पायसदिग्धाङ्गीं रथे तूर्णमयोजयत् तमारुह्य रथं चैव निर्ययौ स गृहान्मम
MBh 13.144.25
अग्निवर्णो ज्वलन्धीमान्स द्विजो रथधुर्यवत् प्रतोदेनातुदद्बालां रुक्मिणीं मम पश्यतः
MBh 13.144.26
न च मे स्तोकमप्यासीद्दुःखमीर्ष्याकृतं तदा ततः स राजमार्गेण महता निर्ययौ बहिः
MBh 13.144.27
तद्दृष्ट्वा महदाश्चर्यं दाशार्हा जातमन्यवः तत्राजल्पन्मिथः केचित्समाभाष्य परस्परम्
MBh 13.144.28
ब्राह्मणा एव जायेरन्नान्यो वर्णः कथंचन को ह्येनं रथमास्थाय जीवेदन्यः पुमानिह
MBh 13.144.29
आशीविषविषं तीक्ष्णं ततस्तीक्ष्णतरं विषम् ब्रह्माशीविषदग्धस्य नास्ति कश्चिच्चिकित्सकः
MBh 13.144.30
तस्मिन्व्रजति दुर्धर्षे प्रास्खलद्रुक्मिणी पथि तां नामर्षयत श्रीमांस्ततस्तूर्णमचोदयत्
MBh 13.144.31
ततः परमसंक्रुद्धो रथात्प्रस्कन्द्य स द्विजः पदातिरुत्पथेनैव प्राधावद्दक्षिणामुखः
MBh 13.144.32
तमुत्पथेन धावन्तमन्वधावं द्विजोत्तमम् तथैव पायसादिग्धः प्रसीद भगवन्निति
MBh 13.144.33
ततो विलोक्य तेजस्वी ब्राह्मणो मामुवाच ह जितः क्रोधस्त्वया कृष्ण प्रकृत्यैव महाभुज
MBh 13.144.34
न तेऽपराधमिह वै दृष्टवानस्मि सुव्रत प्रीतोऽस्मि तव गोविन्द वृणु कामान्यथेप्सितान् प्रसन्नस्य च मे तात पश्य व्युष्टिर्यथाविधा
MBh 13.144.35
यावदेव मनुष्याणामन्ने भावो भविष्यति यथैवान्ने तथा तेषां त्वयि भावो भविष्यति
MBh 13.144.36
यावच्च पुण्या लोकेषु त्वयि कीर्तिर्भविष्यति त्रिषु लोकेषु तावच्च वैशिष्ट्यं प्रतिपत्स्यसे सुप्रियः सर्वलोकस्य भविष्यसि जनार्दन
MBh 13.144.37
यत्ते भिन्नं च दग्धं च यच्च किंचिद्विनाशितम् सर्वं तथैव द्रष्टासि विशिष्टं वा जनार्दन
MBh 13.144.38
यावदेतत्प्रलिप्तं ते गात्रेषु मधुसूदन अतो मृत्युभयं नास्ति यावदिच्छा तवाच्युत
MBh 13.144.39
न तु पादतले लिप्ते कस्मात्ते पुत्रकाद्य वै नैतन्मे प्रियमित्येव स मां प्रीतोऽब्रवीत्तदा इत्युक्तोऽहं शरीरं स्वमपश्यं श्रीसमायुतम्
MBh 13.144.40
रुक्मिणीं चाब्रवीत्प्रीतः सर्वस्त्रीणां वरं यशः कीर्तिं चानुत्तमां लोके समवाप्स्यसि शोभने
MBh 13.144.41
न त्वां जरा वा रोगो वा वैवर्ण्यं चापि भामिनि स्प्रक्ष्यन्ति पुण्यगन्धा च कृष्णमाराधयिष्यसि
MBh 13.144.42
षोडशानां सहस्राणां वधूनां केशवस्य ह वरिष्ठा सहलोक्या च केशवस्य भविष्यसि
MBh 13.144.43
तव मातरमित्युक्त्वा ततो मां पुनरब्रवीत् प्रस्थितः सुमहातेजा दुर्वासा वह्निवज्ज्वलन्
MBh 13.144.44
एषैव ते बुद्धिरस्तु ब्राह्मणान्प्रति केशव इत्युक्त्वा स तदा पुत्र तत्रैवान्तरधीयत
MBh 13.144.45
तस्मिन्नन्तर्हिते चाहमुपांशुव्रतमादिशम् यत्किंचिद्ब्राह्मणो ब्रूयात्सर्वं कुर्यामिति प्रभो
MBh 13.144.46
एतद्व्रतमहं कृत्वा मात्रा ते सह पुत्रक ततः परमहृष्टात्मा प्राविशं गृहमेव च
MBh 13.144.47
प्रविष्टमात्रश्च गृहे सर्वं पश्यामि तन्नवम् यद्भिन्नं यच्च वै दग्धं तेन विप्रेण पुत्रक
MBh 13.144.48
ततोऽहं विस्मयं प्राप्तः सर्वं दृष्ट्वा नवं दृढम् अपूजयं च मनसा रौक्मिणेय द्विजं तदा
MBh 13.144.49
इत्यहं रौक्मिणेयस्य पृच्छतो भरतर्षभ माहात्म्यं द्विजमुख्यस्य सर्वमाख्यातवांस्तदा
MBh 13.144.50
तथा त्वमपि कौन्तेय ब्राह्मणान्सततं प्रभो पूजयस्व महाभागान्वाग्भिर्दानैश्च नित्यदा
MBh 13.144.51
एवं व्युष्टिमहं प्राप्तो ब्राह्मणानां प्रसादजाम् यच्च मामाह भीष्मोऽयं तत्सत्यं भरतर्षभ

🪷 The Honest Framing

This chapter belongs to the source-pinned BORI Critical Edition-derived digital witness. Its unique addresses are publicly readable and indexable; this remains a digital-witness claim, not a claim that every Mahābhārata recension agrees word-for-word or that the traditional 100,000-verse extent is represented here.

Navigation

Sources and Connected Readings

Continue from these 51 source-pinned Devanāgarī addresses to Anuśāsana-Parva, the Mahābhārata reading map, and any exact Bhagavad-Gītā correspondence.

MBh 13.144local chapter route · Anuśāsana-ParvaAnuśāsana-Parvaparent Parva chapter index/mahabharata18-parva Sanskrit reading index with edition and address notesBhīṣma-ParvaMahābhārata Parva 6 · the Gītā lives in chapters 23-40MBh 6.23Bhagavad-Gītā chapter 1 in its Itihāsa homeMBh 6.40Bhagavad-Gītā chapter 18 in its Itihāsa homeRāmopākhyānaVana-Parva 258 · Vyāsa narrates the Rāma-kathā inside Krishna's epicNārāyaṇīyamŚānti-Parva 335 · Nārāyaṇa/Krishna/Viṣṇu/Vāsudeva unity witness/bhagavad-gitadeep Gītā corpus with translations, commentaries, and verse-level anchorsBG 1.1Dharma-kṣetra opening cross-anchored to MBh 6.23.1BG 18.66Carama-Śloka surrender seal inside the Bhīṣma-Parva arcVyāsa vibhūtiBG 10.37 · Krishna names Vyāsa among munisBG 10.37Vyāsa and Dhanañjaya as Krishna-vibhūti source routeŚB 1.2.11Brahman · Paramātmā · Bhagavān as one advaya-tattvaŚB 1.3.28kṛṣṇas tu bhagavān svayam · Vyāsa corpus source seal/binduDiamond of Darśanas · Itihāsa as one Bindu aperture/philosophyKrishna = Paramaatma = Parabrahman constitutional foundation

🪷 जय व्यास भगवान् 🪷