🪷 Mahābhārata · Anuśāsana-Parva · Chapter 143
The Book of the Final Teaching · Parva 13 · 44 unique Sanskrit addresses · pinned Critical Edition-derived witness
The Devanāgarī Yathārtha · 44 Shlokas
MBh 13.143.1
युधिष्ठिर उवाच
ब्राह्मणानर्चसे राजन्सततं संशितव्रतान्
कं तु कर्मोदयं दृष्ट्वा तानर्चसि नराधिप
MBh 13.143.2
कां वा ब्राह्मणपूजायां व्युष्टिं दृष्ट्वा महाव्रत
तानर्चसि महाबाहो सर्वमेतद्वदस्व मे
MBh 13.143.3
भीष्म उवाच
एष ते केशवः सर्वमाख्यास्यति महामतिः
व्युष्टिं ब्राह्मणपूजायां दृष्टव्युष्टिर्महाव्रतः
MBh 13.143.4
बलं श्रोत्रे वाङ्मनश्चक्षुषी च; ज्ञानं तथा न विशुद्धं ममाद्य
देहन्यासो नातिचिरान्मतो मे; न चातितूर्णं सविताद्य याति
MBh 13.143.5
उक्ता धर्मा ये पुराणे महान्तो; ब्राह्मणानां क्षत्रियाणां विशां च
पौराणं ये दण्डमुपासते च; शेषं कृष्णादुपशिक्षस्व पार्थ
MBh 13.143.6
अहं ह्येनं वेद्मि तत्त्वेन कृष्णं; योऽयं हि यच्चास्य बलं पुराणम्
अमेयात्मा केशवः कौरवेन्द्र; सोऽयं धर्मं वक्ष्यति संशयेषु
MBh 13.143.7
कृष्णः पृथ्वीमसृजत्खं दिवं च; वराहोऽयं भीमबलः पुराणः
अस्य चाधोऽथान्तरिक्षं दिवं च; दिशश्चतस्रः प्रदिशश्चतस्रः
सृष्टिस्तथैवेयमनुप्रसूता; स निर्ममे विश्वमिदं पुराणम्
MBh 13.143.8
अस्य नाभ्यां पुष्करं संप्रसूतं; यत्रोत्पन्नः स्वयमेवामितौजाः
येनाच्छिन्नं तत्तमः पार्थ घोरं; यत्तत्तिष्ठत्यर्णवं तर्जयानम्
MBh 13.143.9
कृते युगे धर्म आसीत्समग्र;स्त्रेताकाले ज्ञानमनुप्रपन्नः
बलं त्वासीद्द्वापरे पार्थ कृष्णः; कलावधर्मः क्षितिमाजगाम
MBh 13.143.10
स पूर्वदेवो निजघान दैत्या;न्स पूर्वदेवश्च बभूव सम्राट्
स भूतानां भावनो भूतभव्यः; स विश्वस्यास्य जगतश्चापि गोप्ता
MBh 13.143.11
यदा धर्मो ग्लायति वै सुराणां; तदा कृष्णो जायते मानुषेषु
धर्मे स्थित्वा स तु वै भावितात्मा; परांश्च लोकानपरांश्च याति
MBh 13.143.12
त्याज्यांस्त्यक्त्वाथासुराणां वधाय; कार्याकार्ये कारणं चैव पार्थ
कृतं करिष्यत्क्रियते च देवो; मुहुः सोमं विद्धि च शक्रमेतम्
MBh 13.143.13
स विश्वकर्मा स च विश्वरूपः; स विश्वभृद्विश्वसृग्विश्वजिच्च
स शूलभृच्छोणितभृत्कराल;स्तं कर्मभिर्विदितं वै स्तुवन्ति
MBh 13.143.14
तं गन्धर्वा अप्सरसश्च नित्य;मुपतिष्ठन्ते विबुधानां शतानि
तं राक्षसाश्च परिसंवहन्ते; रायस्पोषः स विजिगीषुरेकः
MBh 13.143.15
तमध्वरे शंसितारः स्तुवन्ति; रथंतरे सामगाश्च स्तुवन्ति
तं ब्राह्मणा ब्रह्ममन्त्रैः स्तुवन्ति; तस्मै हविरध्वर्यवः कल्पयन्ति
MBh 13.143.16
स पौराणीं ब्रह्मगुहां प्रविष्टो; महीसत्रं भारताग्रे ददर्श
स चैव गामुद्दधाराग्र्यकर्मा; विक्षोभ्य दैत्यानुरगान्दानवांश्च
MBh 13.143.17
तस्य भक्षान्विविधान्वेदयन्ति; तमेवाजौ वाहनं वेदयन्ति
तस्यान्तरिक्षं पृथिवी दिवं च; सर्वं वशे तिष्ठति शाश्वतस्य
MBh 13.143.18
स कुम्भरेताः ससृजे पुराणं; यत्रोत्पन्नमृषिमाहुर्वसिष्ठम्
स मातरिश्वा विभुरश्ववाजी; स रश्मिमान्सविता चादिदेवः
MBh 13.143.19
तेनासुरा विजिताः सर्व एव; तस्य विक्रान्तैर्विजितानीह त्रीणि
स देवानां मानुषाणां पितॄणां; तमेवाहुर्यज्ञविदां वितानम्
MBh 13.143.20
स एव कालं विभजन्नुदेति; तस्योत्तरं दक्षिणं चायने द्वे
तस्यैवोर्ध्वं तिर्यगधश्चरन्ति; गभस्तयो मेदिनीं तापयन्तः
MBh 13.143.21
तं ब्राह्मणा वेदविदो जुषन्ति; तस्यादित्यो भामुपयुज्य भाति
स मासि मास्यध्वरकृद्विधत्ते; तमध्वरे वेदविदः पठन्ति
MBh 13.143.22
स एकयुक्चक्रमिदं त्रिनाभि; सप्ताश्वयुक्तं वहते वै त्रिधामा
महातेजाः सर्वगः सर्वसिंहः; कृष्णो लोकान्धारयते तथैकः
अश्नन्ननश्नंश्च तथैव धीरः; कृष्णं सदा पार्थ कर्तारमेहि
MBh 13.143.23
स एकदा कक्षगतो महात्मा; तृप्तो विभुः खाण्डवे धूमकेतुः
स राक्षसानुरगांश्चावजित्य; सर्वत्रगः सर्वमग्नौ जुहोति
MBh 13.143.24
स एवाश्वः श्वेतमश्वं प्रयच्छ;त्स एवाश्वानथ सर्वांश्चकार
त्रिवन्धुरस्तस्य रथस्त्रिचक्र;स्त्रिवृच्छिराश्चतुरस्रश्च तस्य
MBh 13.143.25
स विहायो व्यदधात्पञ्चनाभिः; स निर्ममे गां दिवमन्तरिक्षम्
एवं रम्यानसृजत्पर्वतांश्च; हृषीकेशोऽमितदीप्ताग्नितेजाः
MBh 13.143.26
स लङ्घयन्वै सरितो जिघांस;न्स तं वज्रं प्रहरन्तं निरास
स महेन्द्रः स्तूयते वै महाध्वरे; विप्रैरेको ऋक्सहस्रैः पुराणैः
MBh 13.143.27
दुर्वासा वै तेन नान्येन शक्यो; गृहे राजन्वासयितुं महौजाः
तमेवाहुरृषिमेकं पुराणं; स विश्वकृद्विदधात्यात्मभावान्
MBh 13.143.28
वेदांश्च यो वेदयतेऽधिदेवो; विधींश्च यश्चाश्रयते पुराणान्
कामे वेदे लौकिके यत्फलं च; विष्वक्सेने सर्वमेतत्प्रतीहि
MBh 13.143.29
ज्योतींषि शुक्लानि च सर्वलोके; त्रयो लोका लोकपालास्त्रयश्च
त्रयोऽग्नयो व्याहृतयश्च तिस्रः; सर्वे देवा देवकीपुत्र एव
MBh 13.143.30
संवत्सरः स ऋतुः सोऽर्धमासः; सोऽहोरात्रः स कला वै स काष्ठाः
मात्रा मुहूर्ताश्च लवाः क्षणाश्च; विष्वक्सेने सर्वमेतत्प्रतीहि
MBh 13.143.31
चन्द्रादित्यौ ग्रहनक्षत्रताराः; सर्वाणि दर्शान्यथ पौर्णमास्यः
नक्षत्रयोगा ऋतवश्च पार्थ; विष्वक्सेनात्सर्वमेतत्प्रसूतम्
MBh 13.143.32
रुद्रादित्या वसवोऽथाश्विनौ च; साध्या विश्वे मरुतां षड्गणाश्च
प्रजापतिर्देवमातादितिश्च; सर्वे कृष्णादृषयश्चैव सप्त
MBh 13.143.33
वायुर्भूत्वा विक्षिपते च विश्व;मग्निर्भूत्वा दहते विश्वरूपः
आपो भूत्वा मज्जयते च सर्वं; ब्रह्मा भूत्वा सृजते विश्वसंघान्
MBh 13.143.34
वेद्यं च यद्वेदयते च वेदा;न्विधिश्च यश्चाश्रयते विधेयान्
धर्मे च वेदे च बले च सर्वं; चराचरं केशवं त्वं प्रतीहि
MBh 13.143.35
ज्योतिर्भूतः परमोऽसौ पुरस्ता;त्प्रकाशयन्प्रभया विश्वरूपः
अपः सृष्ट्वा ह्यात्मभूरात्मयोनिः; पुराकरोत्सर्वमेवाथ विश्वम्
MBh 13.143.36
ऋतूनुत्पातान्विविधान्यद्भुतानि; मेघान्विद्युत्सर्वमैरावतं च
सर्वं कृष्णात्स्थावरं जङ्गमं च; विश्वाख्याताद्विष्णुमेनं प्रतीहि
MBh 13.143.37
विश्वावासं निर्गुणं वासुदेवं; संकर्षणं जीवभूतं वदन्ति
ततः प्रद्युम्नमनिरुद्धं चतुर्थ;माज्ञापयत्यात्मयोनिर्महात्मा
MBh 13.143.38
स पञ्चधा पञ्चजनोपपन्नं; संचोदयन्विश्वमिदं सिसृक्षुः
ततश्चकारावनिमारुतौ च; खं ज्योतिरापश्च तथैव पार्थ
MBh 13.143.39
स स्थावरं जङ्गमं चैवमेत;च्चतुर्विधं लोकमिमं च कृत्वा
ततो भूमिं व्यदधात्पञ्चबीजां; द्यौः पृथिव्यां धास्यति भूरि वारि
तेन विश्वं कृतमेतद्धि राज;न्स जीवयत्यात्मनैवात्मयोनिः
MBh 13.143.40
ततो देवानसुरान्मानुषांश्च; लोकानृषींश्चाथ पितॄन्प्रजाश्च
समासेन विविधान्प्राणिलोका;न्सर्वान्सदा भूतपतिः सिसृक्षुः
MBh 13.143.41
शुभाशुभं स्थावरं जङ्गमं च; विष्वक्सेनात्सर्वमेतत्प्रतीहि
यद्वर्तते यच्च भविष्यतीह; सर्वमेतत्केशवं त्वं प्रतीहि
MBh 13.143.42
मृत्युश्चैव प्राणिनामन्तकाले; साक्षात्कृष्णः शाश्वतो धर्मवाहः
भूतं च यच्चेह न विद्म किंचि;द्विष्वक्सेनात्सर्वमेतत्प्रतीहि
MBh 13.143.43
यत्प्रशस्तं च लोकेषु पुण्यं यच्च शुभाशुभम्
तत्सर्वं केशवोऽचिन्त्यो विपरीतमतो भवेत्
MBh 13.143.44
एतादृशः केशवोऽयं स्वयंभू;र्नारायणः परमश्चाव्ययश्च
मध्यं चास्य जगतस्तस्थुषश्च; सर्वेषां भूतानां प्रभवश्चाप्ययश्च
🪷 The Honest Framing
This chapter belongs to the source-pinned BORI Critical Edition-derived digital witness. Its unique addresses are publicly readable and indexable; this remains a digital-witness claim, not a claim that every Mahābhārata recension agrees word-for-word or that the traditional 100,000-verse extent is represented here.
Navigation
- ← Anuśāsana-Parva chapter-index (154 chapters)
- ← Mahābhārata master-index (all 18 Parvas)
- ← Previous chapter · Anuśāsana-Parva Ch 142
- Next chapter · Anuśāsana-Parva Ch 144 →
Sources and Connected Readings
Continue from these 44 source-pinned Devanāgarī addresses to Anuśāsana-Parva, the Mahābhārata reading map, and any exact Bhagavad-Gītā correspondence.
MBh 13.143local chapter route · Anuśāsana-ParvaAnuśāsana-Parvaparent Parva chapter index/mahabharata18-parva Sanskrit reading index with edition and address notesBhīṣma-ParvaMahābhārata Parva 6 · the Gītā lives in chapters 23-40MBh 6.23Bhagavad-Gītā chapter 1 in its Itihāsa homeMBh 6.40Bhagavad-Gītā chapter 18 in its Itihāsa homeRāmopākhyānaVana-Parva 258 · Vyāsa narrates the Rāma-kathā inside Krishna's epicNārāyaṇīyamŚānti-Parva 335 · Nārāyaṇa/Krishna/Viṣṇu/Vāsudeva unity witness/bhagavad-gitadeep Gītā corpus with translations, commentaries, and verse-level anchorsBG 1.1Dharma-kṣetra opening cross-anchored to MBh 6.23.1BG 18.66Carama-Śloka surrender seal inside the Bhīṣma-Parva arcVyāsa vibhūtiBG 10.37 · Krishna names Vyāsa among munisBG 10.37Vyāsa and Dhanañjaya as Krishna-vibhūti source routeŚB 1.2.11Brahman · Paramātmā · Bhagavān as one advaya-tattvaŚB 1.3.28kṛṣṇas tu bhagavān svayam · Vyāsa corpus source seal/binduDiamond of Darśanas · Itihāsa as one Bindu aperture/philosophyKrishna = Paramaatma = Parabrahman constitutional foundation
🪷 जय व्यास भगवान् 🪷