🪷 Mahābhārata · Anuśāsana-Parva · Chapter 148

The Book of the Final Teaching · Parva 13 · 36 unique Sanskrit addresses · pinned Critical Edition-derived witness

The Devanāgarī Yathārtha · 36 Shlokas

MBh 13.148.1
युधिष्ठिर उवाच ये च धर्ममसूयन्ति ये चैनं पर्युपासते ब्रवीतु भगवानेतत्क्व ते गच्छन्ति तादृशाः
MBh 13.148.2
भीष्म उवाच रजसा तमसा चैव समवस्तीर्णचेतसः नरकं प्रतिपद्यन्ते धर्मविद्वेषिणो नराः
MBh 13.148.3
ये तु धर्मं महाराज सततं पर्युपासते सत्यार्जवपराः सन्तस्ते वै स्वर्गभुजो नराः
MBh 13.148.4
धर्म एव रतिस्तेषामाचार्योपासनाद्भवेत् देवलोकं प्रपद्यन्ते ये धर्मं पर्युपासते
MBh 13.148.5
मनुष्या यदि वा देवाः शरीरमुपताप्य वै धर्मिणः सुखमेधन्ते लोभद्वेषविवर्जिताः
MBh 13.148.6
प्रथमं ब्रह्मणः पुत्रं धर्ममाहुर्मनीषिणः धर्मिणः पर्युपासन्ते फलं पक्वमिवाशयः
MBh 13.148.7
युधिष्ठिर उवाच असतां कीदृशं रूपं साधवः किं च कुर्वते ब्रवीतु मे भवानेतत्सन्तोऽसन्तश्च कीदृशाः
MBh 13.148.8
भीष्म उवाच दुराचाराश्च दुर्धर्षा दुर्मुखाश्चाप्यसाधवः साधवः शीलसंपन्नाः शिष्टाचारस्य लक्षणम्
MBh 13.148.9
राजमार्गे गवां मध्ये गोष्ठमध्ये च धर्मिणः नोपसेवन्ति राजेन्द्र सर्गं मूत्रपुरीषयोः
MBh 13.148.10
पञ्चानामशनं दत्त्वा शेषमश्नन्ति साधवः न जल्पन्ति च भुञ्जाना न निद्रान्त्यार्द्रपाणयः
MBh 13.148.11
चित्रभानुमनड्वाहं देवं गोष्ठं चतुष्पथम् ब्राह्मणं धार्मिकं चैत्यं ते कुर्वन्ति प्रदक्षिणम्
MBh 13.148.12
वृद्धानां भारतप्तानां स्त्रीणां बालातुरस्य च ब्राह्मणानां गवां राज्ञां पन्थानं ददते च ते
MBh 13.148.13
अतिथीनां च सर्वेषां प्रेष्याणां स्वजनस्य च तथा शरणकामानां गोप्ता स्यात्स्वागतप्रदः
MBh 13.148.14
सायं प्रातर्मनुष्याणामशनं देवनिर्मितम् नान्तरा भोजनं दृष्टमुपवासविधिर्हि सः
MBh 13.148.15
होमकाले यथा वह्निः कालमेव प्रतीक्षते ऋतुकाले तथा नारी ऋतुमेव प्रतीक्षते न चान्यां गच्छते यस्तु ब्रह्मचर्यं हि तत्स्मृतम्
MBh 13.148.16
अमृतं ब्राह्मणा गाव इत्येतत्त्रयमेकतः तस्माद्गोब्राह्मणं नित्यमर्चयेत यथाविधि
MBh 13.148.17
यजुषा संस्कृतं मांसमुपभुञ्जन्न दुष्यति पृष्ठमांसं वृथामांसं पुत्रमांसं च तत्समम्
MBh 13.148.18
स्वदेशे परदेशे वाप्यतिथिं नोपवासयेत् कर्म वै सफलं कृत्वा गुरूणां प्रतिपादयेत्
MBh 13.148.19
गुरुभ्य आसनं देयमभिवाद्याभिपूज्य च गुरूनभ्यर्च्य वर्धन्ते आयुषा यशसा श्रिया
MBh 13.148.20
वृद्धान्नातिवदेज्जातु न च संप्रेषयेदपि नासीनः स्यात्स्थितेष्वेवमायुरस्य न रिष्यते
MBh 13.148.21
न नग्नामीक्षते नारीं न विद्वान्पुरुषानपि मैथुनं सततं गुप्तमाहारं च समाचरेत्
MBh 13.148.22
तीर्थानां गुरवस्तीर्थं शुचीनां हृदयं शुचि दर्शनानां परं ज्ञानं संतोषः परमं सुखम्
MBh 13.148.23
सायं प्रातश्च वृद्धानां शृणुयात्पुष्कला गिरः श्रुतमाप्नोति हि नरः सततं वृद्धसेवया
MBh 13.148.24
स्वाध्याये भोजने चैव दक्षिणं पाणिमुद्धरेत् यच्छेद्वाङ्मनसी नित्यमिन्द्रियाणां च विभ्रमम्
MBh 13.148.25
संस्कृतं पायसं नित्यं यवागूं कृसरं हविः अष्टकाः पितृदैवत्या वृद्धानामभिपूजनम्
MBh 13.148.26
श्मश्रुकर्मणि मङ्गल्यं क्षुतानामभिनन्दनम् व्याधितानां च सर्वेषामायुषः प्रतिनन्दनम्
MBh 13.148.27
न जातु त्वमिति ब्रूयादापन्नोऽपि महत्तरम् त्वंकारो वा वधो वेति विद्वत्सु न विशिष्यते अवराणां समानानां शिष्याणां च समाचरेत्
MBh 13.148.28
पापमाचक्षते नित्यं हृदयं पापकर्मिणाम् ज्ञानपूर्वं विनश्यन्ति गूहमाना महाजने
MBh 13.148.29
ज्ञानपूर्वं कृतं कर्म च्छादयन्ते ह्यसाधवः न मां मनुष्याः पश्यन्ति न मां पश्यन्ति देवताः पापेनाभिहतः पापः पापमेवाभिजायते
MBh 13.148.30
यथा वार्धुषिको वृद्धिं देहभेदे प्रतीक्षते धर्मेणापिहितं पापं धर्ममेवाभिवर्धयेत्
MBh 13.148.31
यथा लवणमम्भोभिराप्लुतं प्रविलीयते प्रायश्चित्तहतं पापं तथा सद्यः प्रणश्यति
MBh 13.148.32
तस्मात्पापं न गूहेत गूहमानं विवर्धते कृत्वा तु साधुष्वाख्येयं ते तत्प्रशमयन्त्युत
MBh 13.148.33
आशया संचितं द्रव्यं यत्काले नोपभुज्यते अन्ये चैतत्प्रपद्यन्ते वियोगे तस्य देहिनः
MBh 13.148.34
मानसं सर्वभूतानां धर्ममाहुर्मनीषिणः तस्मात्सर्वाणि भूतानि धर्ममेव समासते
MBh 13.148.35
एक एव चरेद्धर्मं न धर्मध्वजिको भवेत् धर्मवाणिजका ह्येते ये धर्ममुपभुञ्जते
MBh 13.148.36
अर्चेद्देवानदम्भेन सेवेतामायया गुरून् निधिं निदध्यात्पारत्र्यं यात्रार्थं दानशब्दितम्

🪷 The Honest Framing

This chapter belongs to the source-pinned BORI Critical Edition-derived digital witness. Its unique addresses are publicly readable and indexable; this remains a digital-witness claim, not a claim that every Mahābhārata recension agrees word-for-word or that the traditional 100,000-verse extent is represented here.

Navigation

Sources and Connected Readings

Continue from these 36 source-pinned Devanāgarī addresses to Anuśāsana-Parva, the Mahābhārata reading map, and any exact Bhagavad-Gītā correspondence.

MBh 13.148local chapter route · Anuśāsana-ParvaAnuśāsana-Parvaparent Parva chapter index/mahabharata18-parva Sanskrit reading index with edition and address notesBhīṣma-ParvaMahābhārata Parva 6 · the Gītā lives in chapters 23-40MBh 6.23Bhagavad-Gītā chapter 1 in its Itihāsa homeMBh 6.40Bhagavad-Gītā chapter 18 in its Itihāsa homeRāmopākhyānaVana-Parva 258 · Vyāsa narrates the Rāma-kathā inside Krishna's epicNārāyaṇīyamŚānti-Parva 335 · Nārāyaṇa/Krishna/Viṣṇu/Vāsudeva unity witness/bhagavad-gitadeep Gītā corpus with translations, commentaries, and verse-level anchorsBG 1.1Dharma-kṣetra opening cross-anchored to MBh 6.23.1BG 18.66Carama-Śloka surrender seal inside the Bhīṣma-Parva arcVyāsa vibhūtiBG 10.37 · Krishna names Vyāsa among munisBG 10.37Vyāsa and Dhanañjaya as Krishna-vibhūti source routeŚB 1.2.11Brahman · Paramātmā · Bhagavān as one advaya-tattvaŚB 1.3.28kṛṣṇas tu bhagavān svayam · Vyāsa corpus source seal/binduDiamond of Darśanas · Itihāsa as one Bindu aperture/philosophyKrishna = Paramaatma = Parabrahman constitutional foundation

🪷 जय व्यास भगवान् 🪷