🪷 Mahābhārata · Anuśāsana-Parva · Chapter 140

The Book of the Final Teaching · Parva 13 · 26 unique Sanskrit addresses · pinned Critical Edition-derived witness

The Devanāgarī Yathārtha · 26 Shlokas

MBh 13.140.1
भीष्म उवाच इत्युक्तः स तदा तूष्णीमभूद्वायुस्ततोऽब्रवीत् शृणु राजन्नगस्त्यस्य माहात्म्यं ब्राह्मणस्य ह
MBh 13.140.2
असुरैर्निर्जिता देवा निरुत्साहाश्च ते कृताः यज्ञाश्चैषां हृताः सर्वे पितृभ्यश्च स्वधा तथा
MBh 13.140.3
कर्मेज्या मानवानां च दानवैर्हैहयर्षभ भ्रष्टैश्वर्यास्ततो देवाश्चेरुः पृथ्वीमिति श्रुतिः
MBh 13.140.4
ततः कदाचित्ते राजन्दीप्तमादित्यवर्चसम् ददृशुस्तेजसा युक्तमगस्त्यं विपुलव्रतम्
MBh 13.140.5
अभिवाद्य च तं देवा दृष्ट्वा च यशसा वृतम् इदमूचुर्महात्मानं वाक्यं काले जनाधिप
MBh 13.140.6
दानवैर्युधि भग्नाः स्म तथैश्वर्याच्च भ्रंशिताः तदस्मान्नो भयात्तीव्रात्त्राहि त्वं मुनिपुंगव
MBh 13.140.7
इत्युक्तः स तदा देवैरगस्त्यः कुपितोऽभवत् प्रजज्वाल च तेजस्वी कालाग्निरिव संक्षये
MBh 13.140.8
तेन दीप्तांशुजालेन निर्दग्धा दानवास्तदा अन्तरिक्षान्महाराज न्यपतन्त सहस्रशः
MBh 13.140.9
दह्यमानास्तु ते दैत्यास्तस्यागस्त्यस्य तेजसा उभौ लोकौ परित्यज्य ययुः काष्ठां स्म दक्षिणाम्
MBh 13.140.10
बलिस्तु यजते यज्ञमश्वमेधं महीं गतः येऽन्ये स्वस्था महीस्थाश्च ते न दग्धा महासुराः
MBh 13.140.11
ततो लोकाः पुनः प्राप्ताः सुरैः शान्तं च तद्रजः अथैनमब्रुवन्देवा भूमिष्ठानसुराञ्जहि
MBh 13.140.12
इत्युक्त आह देवान्स न शक्नोमि महीगतान् दग्धुं तपो हि क्षीयेन्मे धक्ष्यामीति च पार्थिव
MBh 13.140.13
एवं दग्धा भगवता दानवाः स्वेन तेजसा अगस्त्येन तदा राजंस्तपसा भावितात्मना
MBh 13.140.14
ईदृशश्चाप्यगस्त्यो हि कथितस्ते मयानघ ब्रवीम्यहं ब्रूहि वा त्वमगस्त्यात्क्षत्रियं वरम्
MBh 13.140.15
इत्युक्तः स तदा तूष्णीमभूद्वायुस्ततोऽब्रवीत् शृणु राजन्वसिष्ठस्य मुख्यं कर्म यशस्विनः
MBh 13.140.16
आदित्याः सत्रमासन्त सरो वै मानसं प्रति वसिष्ठं मनसा गत्वा श्रुत्वा तत्रास्य गोचरम्
MBh 13.140.17
यजमानांस्तु तान्दृष्ट्वा व्यग्रान्दीक्षानुकर्शितान् हन्तुमिच्छन्ति शैलाभाः खलिनो नाम दानवाः
MBh 13.140.18
अदूरात्तु ततस्तेषां ब्रह्मदत्तवरं सरः हता हता वै ते तत्र जीवन्त्याप्लुत्य दानवाः
MBh 13.140.19
ते प्रगृह्य महाघोरान्पर्वतान्परिघान्द्रुमान् विक्षोभयन्तः सलिलमुत्थिताः शतयोजनम्
MBh 13.140.20
अभ्यद्रवन्त देवांस्ते सहस्राणि दशैव ह ततस्तैरर्दिता देवाः शरणं वासवं ययुः
MBh 13.140.21
स च तैर्व्यथितः शक्रो वसिष्ठं शरणं ययौ ततोऽभयं ददौ तेभ्यो वसिष्ठो भगवानृषिः
MBh 13.140.22
तथा तान्दुःखिताञ्जानन्नानृशंस्यपरो मुनिः अयत्नेनादहत्सर्वान्खलिनः स्वेन तेजसा
MBh 13.140.23
कैलासं प्रस्थितां चापि नदीं गङ्गां महातपाः आनयत्तत्सरो दिव्यं तया भिन्नं च तत्सरः
MBh 13.140.24
सरो भिन्नं तया नद्या सरयूः सा ततोऽभवत् हताश्च खलिनो यत्र स देशः खलिनोऽभवत्
MBh 13.140.25
एवं सेन्द्रा वसिष्ठेन रक्षितास्त्रिदिवौकसः ब्रह्मदत्तवराश्चैव हता दैत्या महात्मना
MBh 13.140.26
एतत्कर्म वसिष्ठस्य कथितं ते मयानघ ब्रवीम्यहं ब्रूहि वा त्वं वसिष्ठात्क्षत्रियं वरम्

🪷 The Honest Framing

This chapter belongs to the source-pinned BORI Critical Edition-derived digital witness. Its unique addresses are publicly readable and indexable; this remains a digital-witness claim, not a claim that every Mahābhārata recension agrees word-for-word or that the traditional 100,000-verse extent is represented here.

Navigation

Sources and Connected Readings

Continue from these 26 source-pinned Devanāgarī addresses to Anuśāsana-Parva, the Mahābhārata reading map, and any exact Bhagavad-Gītā correspondence.

MBh 13.140local chapter route · Anuśāsana-ParvaAnuśāsana-Parvaparent Parva chapter index/mahabharata18-parva Sanskrit reading index with edition and address notesBhīṣma-ParvaMahābhārata Parva 6 · the Gītā lives in chapters 23-40MBh 6.23Bhagavad-Gītā chapter 1 in its Itihāsa homeMBh 6.40Bhagavad-Gītā chapter 18 in its Itihāsa homeRāmopākhyānaVana-Parva 258 · Vyāsa narrates the Rāma-kathā inside Krishna's epicNārāyaṇīyamŚānti-Parva 335 · Nārāyaṇa/Krishna/Viṣṇu/Vāsudeva unity witness/bhagavad-gitadeep Gītā corpus with translations, commentaries, and verse-level anchorsBG 1.1Dharma-kṣetra opening cross-anchored to MBh 6.23.1BG 18.66Carama-Śloka surrender seal inside the Bhīṣma-Parva arcVyāsa vibhūtiBG 10.37 · Krishna names Vyāsa among munisBG 10.37Vyāsa and Dhanañjaya as Krishna-vibhūti source routeŚB 1.2.11Brahman · Paramātmā · Bhagavān as one advaya-tattvaŚB 1.3.28kṛṣṇas tu bhagavān svayam · Vyāsa corpus source seal/binduDiamond of Darśanas · Itihāsa as one Bindu aperture/philosophyKrishna = Paramaatma = Parabrahman constitutional foundation

🪷 जय व्यास भगवान् 🪷