🪷 Mahābhārata · Anuśāsana-Parva · Chapter 139

The Book of the Final Teaching · Parva 13 · 31 unique Sanskrit addresses · pinned Critical Edition-derived witness

The Devanāgarī Yathārtha · 31 Shlokas

MBh 13.139.1
वायुरुवाच इमां भूमिं ब्राह्मणेभ्यो दित्सुर्वै दक्षिणां पुरा अङ्गो नाम नृपो राजंस्ततश्चिन्तां मही ययौ
MBh 13.139.2
धारणीं सर्वभूतानामयं प्राप्य वरो नृपः कथमिच्छति मां दातुं द्विजेभ्यो ब्रह्मणः सुताम्
MBh 13.139.3
साहं त्यक्त्वा गमिष्यामि भूमित्वं ब्रह्मणः पदम् अयं सराष्ट्रो नृपतिर्मा भूदिति ततोऽगमत्
MBh 13.139.4
ततस्तां कश्यपो दृष्ट्वा व्रजन्तीं पृथिवीं तदा प्रविवेश महीं सद्यो मुक्त्वात्मानं समाहितः
MBh 13.139.5
रुद्धा सा सर्वतो जज्ञे तृणौषधिसमन्विता धर्मोत्तरा नष्टभया भूमिरासीत्ततो नृप
MBh 13.139.6
एवं वर्षसहस्राणि दिव्यानि विपुलव्रतः त्रिंशतं कश्यपो राजन्भूमिरासीदतन्द्रितः
MBh 13.139.7
अथागम्य महाराज नमस्कृत्य च कश्यपम् पृथिवी काश्यपी जज्ञे सुता तस्य महात्मनः
MBh 13.139.8
एष राजन्नीदृशो वै ब्राह्मणः कश्यपोऽभवत् अन्यं प्रब्रूहि वापि त्वं कश्यपात्क्षत्रियं वरम्
MBh 13.139.9
तूष्णीं बभूव नृपतिः पवनस्त्वब्रवीत्पुनः शृणु राजन्नुतथ्यस्य जातस्याङ्गिरसे कुले
MBh 13.139.10
भद्रा सोमस्य दुहिता रूपेण परमा मता तस्यास्तुल्यं पतिं सोम उतथ्यं समपश्यत
MBh 13.139.11
सा च तीव्रं तपस्तेपे महाभागा यशस्विनी उतथ्यं तु महाभागं तत्कृतेऽवरयत्तदा
MBh 13.139.12
तत आहूय सोतथ्यं ददावत्र यशस्विनीम् भार्यार्थे स च जग्राह विधिवद्भूरिदक्षिण
MBh 13.139.13
तां त्वकामयत श्रीमान्वरुणः पूर्वमेव ह स चागम्य वनप्रस्थं यमुनायां जहार ताम्
MBh 13.139.14
जलेश्वरस्तु हृत्वा तामनयत्स्वपुरं प्रति परमाद्भुतसंकाशं षट्सहस्रशतह्रदम्
MBh 13.139.15
न हि रम्यतरं किंचित्तस्मादन्यत्पुरोत्तमम् प्रासादैरप्सरोभिश्च दिव्यैः कामैश्च शोभितम् तत्र देवस्तया सार्धं रेमे राजञ्जलेश्वरः
MBh 13.139.16
अथाख्यातमुतथ्याय ततः पत्न्यवमर्दनम्
MBh 13.139.17
तच्छ्रुत्वा नारदात्सर्वमुतथ्यो नारदं तदा प्रोवाच गच्छ ब्रूहि त्वं वरुणं परुषं वचः मद्वाक्यान्मुञ्च मे भार्यां कस्माद्वा हृतवानसि
MBh 13.139.18
लोकपालोऽसि लोकानां न लोकस्य विलोपकः सोमेन दत्ता भार्या मे त्वया चापहृताद्य वै
MBh 13.139.19
इत्युक्तो वचनात्तस्य नारदेन जलेश्वरः मुञ्च भार्यामुतथ्यस्येत्यथ तं वरुणोऽब्रवीत् ममैषा सुप्रिया भार्या नैनामुत्स्रष्टुमुत्सहे
MBh 13.139.20
इत्युक्तो वरुणेनाथ नारदः प्राप्य तं मुनिम् उतथ्यमब्रवीद्वाक्यं नातिहृष्टमना इव
MBh 13.139.21
गले गृहीत्वा क्षिप्तोऽस्मि वरुणेन महामुने न प्रयच्छति ते भार्यां यत्ते कार्यं कुरुष्व तत्
MBh 13.139.22
नारदस्य वचः श्रुत्वा क्रुद्धः प्राज्वलदङ्गिराः अपिबत्तेजसा वारि विष्टभ्य सुमहातपाः
MBh 13.139.23
पीयमाने च सर्वस्मिंस्तोये वै सलिलेश्वरः सुहृद्भिः क्षिप्यमाणोऽपि नैवामुञ्चत तां तदा
MBh 13.139.24
ततः क्रुद्धोऽब्रवीद्भूमिमुतथ्यो ब्राह्मणोत्तमः दर्शयस्व स्थलं भद्रे षट्सहस्रशतह्रदम्
MBh 13.139.25
ततस्तदिरिणं जातं समुद्रश्चापसर्पितः तस्माद्देशान्नदीं चैव प्रोवाचासौ द्विजोत्तमः
MBh 13.139.26
अदृश्या गच्छ भीरु त्वं सरस्वति मरुं प्रति अपुण्य एष भवतु देशस्त्यक्तस्त्वया शुभे
MBh 13.139.27
तस्मिन्संचूर्णिते देशे भद्रामादाय वारिपः अददाच्छरणं गत्वा भार्यामाङ्गिरसाय वै
MBh 13.139.28
प्रतिगृह्य तु तां भार्यामुतथ्यः सुमनाभवत् मुमोच च जगद्दुःखाद्वरुणं चैव हैहय
MBh 13.139.29
ततः स लब्ध्वा तां भार्यां वरुणं प्राह धर्मवित् उतथ्यः सुमहातेजा यत्तच्छृणु नराधिप
MBh 13.139.30
मयैषा तपसा प्राप्ता क्रोशतस्ते जलाधिप इत्युक्त्वा तामुपादाय स्वमेव भवनं ययौ
MBh 13.139.31
एष राजन्नीदृशो वै उतथ्यो ब्राह्मणर्षभः ब्रवीम्यहं ब्रूहि वा त्वमुतथ्यात्क्षत्रियं वरम्

🪷 The Honest Framing

This chapter belongs to the source-pinned BORI Critical Edition-derived digital witness. Its unique addresses are publicly readable and indexable; this remains a digital-witness claim, not a claim that every Mahābhārata recension agrees word-for-word or that the traditional 100,000-verse extent is represented here.

Navigation

Sources and Connected Readings

Continue from these 31 source-pinned Devanāgarī addresses to Anuśāsana-Parva, the Mahābhārata reading map, and any exact Bhagavad-Gītā correspondence.

MBh 13.139local chapter route · Anuśāsana-ParvaAnuśāsana-Parvaparent Parva chapter index/mahabharata18-parva Sanskrit reading index with edition and address notesBhīṣma-ParvaMahābhārata Parva 6 · the Gītā lives in chapters 23-40MBh 6.23Bhagavad-Gītā chapter 1 in its Itihāsa homeMBh 6.40Bhagavad-Gītā chapter 18 in its Itihāsa homeRāmopākhyānaVana-Parva 258 · Vyāsa narrates the Rāma-kathā inside Krishna's epicNārāyaṇīyamŚānti-Parva 335 · Nārāyaṇa/Krishna/Viṣṇu/Vāsudeva unity witness/bhagavad-gitadeep Gītā corpus with translations, commentaries, and verse-level anchorsBG 1.1Dharma-kṣetra opening cross-anchored to MBh 6.23.1BG 18.66Carama-Śloka surrender seal inside the Bhīṣma-Parva arcVyāsa vibhūtiBG 10.37 · Krishna names Vyāsa among munisBG 10.37Vyāsa and Dhanañjaya as Krishna-vibhūti source routeŚB 1.2.11Brahman · Paramātmā · Bhagavān as one advaya-tattvaŚB 1.3.28kṛṣṇas tu bhagavān svayam · Vyāsa corpus source seal/binduDiamond of Darśanas · Itihāsa as one Bindu aperture/philosophyKrishna = Paramaatma = Parabrahman constitutional foundation

🪷 जय व्यास भगवान् 🪷