🪷 Mahābhārata · Anuśāsana-Parva · Chapter 141
The Book of the Final Teaching · Parva 13 · 30 unique Sanskrit addresses · pinned Critical Edition-derived witness
The Devanāgarī Yathārtha · 30 Shlokas
MBh 13.141.1
भीष्म उवाच
इत्युक्तस्त्वर्जुनस्तूष्णीमभूद्वायुस्तमब्रवीत्
शृणु मे हैहयश्रेष्ठ कर्मात्रेः सुमहात्मनः
MBh 13.141.2
घोरे तमस्ययुध्यन्त सहिता देवदानवाः
अविध्यत शरैस्तत्र स्वर्भानुः सोमभास्करौ
MBh 13.141.3
अथ ते तमसा ग्रस्ता निहन्यन्ते स्म दानवैः
देवा नृपतिशार्दूल सहैव बलिभिस्तदा
MBh 13.141.4
असुरैर्वध्यमानास्ते क्षीणप्राणा दिवौकसः
अपश्यन्त तपस्यन्तमत्रिं विप्रं महावने
MBh 13.141.5
अथैनमब्रुवन्देवाः शान्तक्रोधं जितेन्द्रियम्
असुरैरिषुभिर्विद्धौ चन्द्रादित्याविमावुभौ
MBh 13.141.6
वयं वध्यामहे चापि शत्रुभिस्तमसावृते
नाधिगच्छाम शान्तिं च भयात्त्रायस्व नः प्रभो
MBh 13.141.7
कथं रक्षामि भवतस्तेऽब्रुवंश्चन्द्रमा भव
तिमिरघ्नश्च सविता दस्युहा चैव नो भव
MBh 13.141.8
एवमुक्तस्तदात्रिस्तु तमोनुदभवच्छशी
अपश्यत्सौम्यभावं च सूर्यस्य प्रतिदर्शनम्
MBh 13.141.9
दृष्ट्वा नातिप्रभं सोमं तथा सूर्यं च पार्थिव
प्रकाशमकरोदत्रिस्तपसा स्वेन संयुगे
MBh 13.141.10
जगद्वितिमिरं चापि प्रदीप्तमकरोत्तदा
व्यजयच्छत्रुसंघांश्च देवानां स्वेन तेजसा
MBh 13.141.11
अत्रिणा दह्यमानांस्तान्दृष्ट्वा देवा महासुरान्
पराक्रमैस्तेऽपि तदा व्यत्यघ्नन्नत्रिरक्षिताः
MBh 13.141.12
उद्भासितश्च सविता देवास्त्राता हतासुराः
अत्रिणा त्वथ सोमत्वं कृतमुत्तमतेजसा
MBh 13.141.13
अद्वितीयेन मुनिना जपता चर्मवाससा
फलभक्षेण राजर्षे पश्य कर्मात्रिणा कृतम्
MBh 13.141.14
तस्यापि विस्तरेणोक्तं कर्मात्रेः सुमहात्मनः
ब्रवीम्यहं ब्रूहि वा त्वमत्रितः क्षत्रियं वरम्
MBh 13.141.15
इत्युक्तस्त्वर्जुनस्तूष्णीमभूद्वायुस्तमब्रवीत्
शृणु राजन्महत्कर्म च्यवनस्य महात्मनः
MBh 13.141.16
अश्विनोः प्रतिसंश्रुत्य च्यवनः पाकशासनम्
प्रोवाच सहितं देवैः सोमपावश्विनौ कुरु
MBh 13.141.17
इन्द्र उवाच
अस्माभिर्वर्जितावेतौ भवेतां सोमपौ कथम्
देवैर्न संमितावेतौ तस्मान्मैवं वदस्व नः
MBh 13.141.18
अश्विभ्यां सह नेच्छामः पातुं सोमं महाव्रत
पिबन्त्वन्ये यथाकामं नाहं पातुमिहोत्सहे
MBh 13.141.19
च्यवन उवाच
न चेत्करिष्यसि वचो मयोक्तं बलसूदन
मया प्रमथितः सद्यः सोमं पास्यसि वै मखे
MBh 13.141.20
ततः कर्म समारब्धं हिताय सहसाश्विनोः
च्यवनेन ततो मन्त्रैरभिभूताः सुराभवन्
MBh 13.141.21
तत्तु कर्म समारब्धं दृष्ट्वेन्द्रः क्रोधमूर्छितः
उद्यम्य विपुलं शैलं च्यवनं समुपाद्रवत्
तथा वज्रेण भगवानमर्षाकुललोचनः
MBh 13.141.22
तमापतन्तं दृष्ट्वैव च्यवनस्तपसान्वितः
अद्भिः सिक्त्वास्तम्भयत्तं सवज्रं सहपर्वतम्
MBh 13.141.23
अथेन्द्रस्य महाघोरं सोऽसृजच्छत्रुमेव ह
मदं मन्त्राहुतिमयं व्यादितास्यं महामुनिः
MBh 13.141.24
तस्य दन्तसहस्रं तु बभूव शतयोजनम्
द्वियोजनशतास्तस्य दंष्ट्राः परमदारुणाः
हनुस्तस्याभवद्भूमावेकश्चास्यास्पृशद्दिवम्
MBh 13.141.25
जिह्वामूले स्थितास्तस्य सर्वे देवाः सवासवाः
तिमेरास्यमनुप्राप्ता यथा मत्स्या महार्णवे
MBh 13.141.26
ते संमन्त्र्य ततो देवा मदस्यास्यगतास्तदा
अब्रुवन्सहिताः शक्रं प्रणमास्मै द्विजातये
अश्विभ्यां सह सोमं च पिबामो विगतज्वराः
MBh 13.141.27
ततः स प्रणतः शक्रश्चकार च्यवनस्य तत्
च्यवनः कृतवांस्तौ चाप्यश्विनौ सोमपीथिनौ
MBh 13.141.28
ततः प्रत्याहरत्कर्म मदं च व्यभजन्मुनिः
अक्षेषु मृगयायां च पाने स्त्रीषु च वीर्यवान्
MBh 13.141.29
एतैर्दोषैर्नरो राजन्क्षयं याति न संशयः
तस्मादेतान्नरो नित्यं दूरतः परिवर्जयेत्
MBh 13.141.30
एतत्ते च्यवनस्यापि कर्म राजन्प्रकीर्तितम्
ब्रवीम्यहं ब्रूहि वा त्वं च्यवनात्क्षत्रियं वरम्
🪷 The Honest Framing
This chapter belongs to the source-pinned BORI Critical Edition-derived digital witness. Its unique addresses are publicly readable and indexable; this remains a digital-witness claim, not a claim that every Mahābhārata recension agrees word-for-word or that the traditional 100,000-verse extent is represented here.
Navigation
- ← Anuśāsana-Parva chapter-index (154 chapters)
- ← Mahābhārata master-index (all 18 Parvas)
- ← Previous chapter · Anuśāsana-Parva Ch 140
- Next chapter · Anuśāsana-Parva Ch 142 →
Sources and Connected Readings
Continue from these 30 source-pinned Devanāgarī addresses to Anuśāsana-Parva, the Mahābhārata reading map, and any exact Bhagavad-Gītā correspondence.
MBh 13.141local chapter route · Anuśāsana-ParvaAnuśāsana-Parvaparent Parva chapter index/mahabharata18-parva Sanskrit reading index with edition and address notesBhīṣma-ParvaMahābhārata Parva 6 · the Gītā lives in chapters 23-40MBh 6.23Bhagavad-Gītā chapter 1 in its Itihāsa homeMBh 6.40Bhagavad-Gītā chapter 18 in its Itihāsa homeRāmopākhyānaVana-Parva 258 · Vyāsa narrates the Rāma-kathā inside Krishna's epicNārāyaṇīyamŚānti-Parva 335 · Nārāyaṇa/Krishna/Viṣṇu/Vāsudeva unity witness/bhagavad-gitadeep Gītā corpus with translations, commentaries, and verse-level anchorsBG 1.1Dharma-kṣetra opening cross-anchored to MBh 6.23.1BG 18.66Carama-Śloka surrender seal inside the Bhīṣma-Parva arcVyāsa vibhūtiBG 10.37 · Krishna names Vyāsa among munisBG 10.37Vyāsa and Dhanañjaya as Krishna-vibhūti source routeŚB 1.2.11Brahman · Paramātmā · Bhagavān as one advaya-tattvaŚB 1.3.28kṛṣṇas tu bhagavān svayam · Vyāsa corpus source seal/binduDiamond of Darśanas · Itihāsa as one Bindu aperture/philosophyKrishna = Paramaatma = Parabrahman constitutional foundation
🪷 जय व्यास भगवान् 🪷