🪷 Mahābhārata · Anuśāsana-Parva · Chapter 136
The Book of the Final Teaching · Parva 13 · 23 unique Sanskrit addresses · pinned Critical Edition-derived witness
The Devanāgarī Yathārtha · 23 Shlokas
MBh 13.136.1
युधिष्ठिर उवाच
के पूज्याः के नमस्कार्याः कथं वर्तेत केषु च
किमाचारः कीदृशेषु पितामह न रिष्यते
MBh 13.136.2
भीष्म उवाच
ब्राह्मणानां परिभवः सादयेदपि देवताः
ब्राह्मणानां नमस्कर्ता युधिष्ठिर न रिष्यते
MBh 13.136.3
ते पूज्यास्ते नमस्कार्या वर्तेथास्तेषु पुत्रवत्
ते हि लोकानिमान्सर्वान्धारयन्ति मनीषिणः
MBh 13.136.4
ब्राह्मणाः सर्वलोकानां महान्तो धर्मसेतवः
धनत्यागाभिरामाश्च वाक्संयमरताश्च ये
MBh 13.136.5
रमणीयाश्च भूतानां निधानं च धृतव्रताः
प्रणेतारश्च लोकानां शास्त्राणां च यशस्विनः
MBh 13.136.6
तपो येषां धनं नित्यं वाक्चैव विपुलं बलम्
प्रभवश्चापि धर्माणां धर्मज्ञाः सूक्ष्मदर्शिनः
MBh 13.136.7
धर्मकामाः स्थिता धर्मे सुकृतैर्धर्मसेतवः
यानुपाश्रित्य जीवन्ति प्रजाः सर्वाश्चतुर्विधाः
MBh 13.136.8
पन्थानः सर्वनेतारो यज्ञवाहाः सनातनाः
पितृपैतामहीं गुर्वीमुद्वहन्ति धुरं सदा
MBh 13.136.9
धुरि ये नावसीदन्ति विषमे सद्गवा इव
पितृदेवातिथिमुखा हव्यकव्याग्रभोजिनः
MBh 13.136.10
भोजनादेव ये लोकांस्त्रायन्ते महतो भयात्
दीपाः सर्वस्य लोकस्य चक्षुश्चक्षुष्मतामपि
MBh 13.136.11
सर्वशिल्पादिनिधयो निपुणाः सूक्ष्मदर्शिनः
गतिज्ञाः सर्वभूतानामध्यात्मगतिचिन्तकाः
MBh 13.136.12
आदिमध्यावसानानां ज्ञातारश्छिन्नसंशयाः
परावरविशेषज्ञा गन्तारः परमां गतिम्
MBh 13.136.13
विमुक्ता धुतपाप्मानो निर्द्वंद्वा निष्परिग्रहाः
मानार्हा मानिता नित्यं ज्ञानविद्भिर्महात्मभिः
MBh 13.136.14
चन्दने मलपङ्के च भोजनेऽभोजने समाः
समं येषां दुकूलं च शाणक्षौमाजिनानि च
MBh 13.136.15
तिष्ठेयुरप्यभुञ्जाना बहूनि दिवसान्यपि
शोषयेयुश्च गात्राणि स्वाध्यायैः संयतेन्द्रियाः
MBh 13.136.16
अदैवं दैवतं कुर्युर्दैवतं चाप्यदैवतम्
लोकानन्यान्सृजेयुश्च लोकपालांश्च कोपिताः
MBh 13.136.17
अपेयः सागरो येषामभिशापान्महात्मनाम्
येषां कोपाग्निरद्यापि दण्डके नोपशाम्यति
MBh 13.136.18
देवानामपि ये देवाः कारणं कारणस्य च
प्रमाणस्य प्रमाणं च कस्तानभिभवेद्बुधः
MBh 13.136.19
येषां वृद्धश्च बालश्च सर्वः संमानमर्हति
तपोविद्याविशेषात्तु मानयन्ति परस्परम्
MBh 13.136.20
अविद्वान्ब्राह्मणो देवः पात्रं वै पावनं महत्
विद्वान्भूयस्तरो देवः पूर्णसागरसंनिभः
MBh 13.136.21
अविद्वांश्चैव विद्वांश्च ब्राह्मणो दैवतं महत्
प्रणीतश्चाप्रणीतश्च यथाग्निर्दैवतं महत्
MBh 13.136.22
श्मशाने ह्यपि तेजस्वी पावको नैव दुष्यति
हविर्यज्ञेषु च वहन्भूय एवाभिशोभते
MBh 13.136.23
एवं यद्यप्यनिष्टेषु वर्तते सर्वकर्मसु
सर्वथा ब्राह्मणो मान्यो दैवतं विद्धि तत्परम्
🪷 The Honest Framing
This chapter belongs to the source-pinned BORI Critical Edition-derived digital witness. Its unique addresses are publicly readable and indexable; this remains a digital-witness claim, not a claim that every Mahābhārata recension agrees word-for-word or that the traditional 100,000-verse extent is represented here.
Navigation
- ← Anuśāsana-Parva chapter-index (154 chapters)
- ← Mahābhārata master-index (all 18 Parvas)
- ← Previous chapter · Anuśāsana-Parva Ch 135
- Next chapter · Anuśāsana-Parva Ch 137 →
Sources and Connected Readings
Continue from these 23 source-pinned Devanāgarī addresses to Anuśāsana-Parva, the Mahābhārata reading map, and any exact Bhagavad-Gītā correspondence.
MBh 13.136local chapter route · Anuśāsana-ParvaAnuśāsana-Parvaparent Parva chapter index/mahabharata18-parva Sanskrit reading index with edition and address notesBhīṣma-ParvaMahābhārata Parva 6 · the Gītā lives in chapters 23-40MBh 6.23Bhagavad-Gītā chapter 1 in its Itihāsa homeMBh 6.40Bhagavad-Gītā chapter 18 in its Itihāsa homeRāmopākhyānaVana-Parva 258 · Vyāsa narrates the Rāma-kathā inside Krishna's epicNārāyaṇīyamŚānti-Parva 335 · Nārāyaṇa/Krishna/Viṣṇu/Vāsudeva unity witness/bhagavad-gitadeep Gītā corpus with translations, commentaries, and verse-level anchorsBG 1.1Dharma-kṣetra opening cross-anchored to MBh 6.23.1BG 18.66Carama-Śloka surrender seal inside the Bhīṣma-Parva arcVyāsa vibhūtiBG 10.37 · Krishna names Vyāsa among munisBG 10.37Vyāsa and Dhanañjaya as Krishna-vibhūti source routeŚB 1.2.11Brahman · Paramātmā · Bhagavān as one advaya-tattvaŚB 1.3.28kṛṣṇas tu bhagavān svayam · Vyāsa corpus source seal/binduDiamond of Darśanas · Itihāsa as one Bindu aperture/philosophyKrishna = Paramaatma = Parabrahman constitutional foundation
🪷 जय व्यास भगवान् 🪷