🪷 Mahābhārata · Anuśāsana-Parva · Chapter 135
The Book of the Final Teaching · Parva 13 · 142 unique Sanskrit addresses · pinned Critical Edition-derived witness
The Devanāgarī Yathārtha · 142 Shlokas
MBh 13.135.1
वैशंपायन उवाच
श्रुत्वा धर्मानशेषेण पावनानि च सर्वशः
युधिष्ठिरः शांतनवं पुनरेवाभ्यभाषत
MBh 13.135.2
किमेकं दैवतं लोके किं वाप्येकं परायणम्
स्तुवन्तः कं कमर्चन्तः प्राप्नुयुर्मानवाः शुभम्
MBh 13.135.3
को धर्मः सर्वधर्माणां भवतः परमो मतः
किं जपन्मुच्यते जन्तुर्जन्मसंसारबन्धनात्
MBh 13.135.4
भीष्म उवाच
जगत्प्रभुं देवदेवमनन्तं पुरुषोत्तमम्
स्तुवन्नामसहस्रेण पुरुषः सततोत्थितः
MBh 13.135.5
तमेव चार्चयन्नित्यं भक्त्या पुरुषमव्ययम्
ध्यायन्स्तुवन्नमस्यंश्च यजमानस्तमेव च
MBh 13.135.6
अनादिनिधनं विष्णुं सर्वलोकमहेश्वरम्
लोकाध्यक्षं स्तुवन्नित्यं सर्वदुःखातिगो भवेत्
MBh 13.135.7
ब्रह्मण्यं सर्वधर्मज्ञं लोकानां कीर्तिवर्धनम्
लोकनाथं महद्भूतं सर्वभूतभवोद्भवम्
MBh 13.135.8
एष मे सर्वधर्माणां धर्मोऽधिकतमो मतः
यद्भक्त्या पुण्डरीकाक्षं स्तवैरर्चेन्नरः सदा
MBh 13.135.9
परमं यो महत्तेजः परमं यो महत्तपः
परमं यो महद्ब्रह्म परमं यः परायणम्
MBh 13.135.10
पवित्राणां पवित्रं यो मङ्गलानां च मङ्गलम्
दैवतं देवतानां च भूतानां योऽव्ययः पिता
MBh 13.135.11
यतः सर्वाणि भूतानि भवन्त्यादियुगागमे
यस्मिंश्च प्रलयं यान्ति पुनरेव युगक्षये
MBh 13.135.12
तस्य लोकप्रधानस्य जगन्नाथस्य भूपते
विष्णोर्नामसहस्रं मे शृणु पापभयापहम्
MBh 13.135.13
यानि नामानि गौणानि विख्यातानि महात्मनः
ऋषिभिः परिगीतानि तानि वक्ष्यामि भूतये
MBh 13.135.14
विश्वं विष्णुर्वषट्कारो भूतभव्यभवत्प्रभुः
भूतकृद्भूतभृद्भावो भूतात्मा भूतभावनः
MBh 13.135.15
पूतात्मा परमात्मा च मुक्तानां परमा गतिः
अव्ययः पुरुषः साक्षी क्षेत्रज्ञोऽक्षर एव च
MBh 13.135.16
योगो योगविदां नेता प्रधानपुरुषेश्वरः
नारसिंहवपुः श्रीमान्केशवः पुरुषोत्तमः
MBh 13.135.17
सर्वः शर्वः शिवः स्थाणुर्भूतादिर्निधिरव्ययः
संभवो भावनो भर्ता प्रभवः प्रभुरीश्वरः
MBh 13.135.18
स्वयंभूः शंभुरादित्यः पुष्कराक्षो महास्वनः
अनादिनिधनो धाता विधाता धातुरुत्तमः
MBh 13.135.19
अप्रमेयो हृषीकेशः पद्मनाभोऽमरप्रभुः
विश्वकर्मा मनुस्त्वष्टा स्थविष्ठः स्थविरो ध्रुवः
MBh 13.135.20
अग्राह्यः शाश्वतः कृष्णो लोहिताक्षः प्रतर्दनः
प्रभूतस्त्रिककुब्धाम पवित्रं मङ्गलं परम्
MBh 13.135.21
ईशानः प्राणदः प्राणो ज्येष्ठः श्रेष्ठः प्रजापतिः
हिरण्यगर्भो भूगर्भो माधवो मधुसूदनः
MBh 13.135.22
ईश्वरो विक्रमी धन्वी मेधावी विक्रमः क्रमः
अनुत्तमो दुराधर्षः कृतज्ञः कृतिरात्मवान्
MBh 13.135.23
सुरेशः शरणं शर्म विश्वरेताः प्रजाभवः
अहः संवत्सरो व्यालः प्रत्ययः सर्वदर्शनः
MBh 13.135.24
अजः सर्वेश्वरः सिद्धः सिद्धिः सर्वादिरच्युतः
वृषाकपिरमेयात्मा सर्वयोगविनिःसृतः
MBh 13.135.25
वसुर्वसुमनाः सत्यः समात्मा संमितः समः
अमोघः पुण्डरीकाक्षो वृषकर्मा वृषाकृतिः
MBh 13.135.26
रुद्रो बहुशिरा बभ्रुर्विश्वयोनिः शुचिश्रवाः
अमृतः शाश्वतः स्थाणुर्वरारोहो महातपाः
MBh 13.135.27
सर्वगः सर्वविद्भानुर्विष्वक्सेनो जनार्दनः
वेदो वेदविदव्यङ्गो वेदाङ्गो वेदवित्कविः
MBh 13.135.28
लोकाध्यक्षः सुराध्यक्षो धर्माध्यक्षः कृताकृतः
चतुरात्मा चतुर्व्यूहश्चतुर्दंष्ट्रश्चतुर्भुजः
MBh 13.135.29
भ्राजिष्णुर्भोजनं भोक्ता सहिष्णुर्जगदादिजः
अनघो विजयो जेता विश्वयोनिः पुनर्वसुः
MBh 13.135.30
उपेन्द्रो वामनः प्रांशुरमोघः शुचिरूर्जितः
अतीन्द्रः संग्रहः सर्गो धृतात्मा नियमो यमः
MBh 13.135.31
वेद्यो वैद्यः सदायोगी वीरहा माधवो मधुः
अतीन्द्रियो महामायो महोत्साहो महाबलः
MBh 13.135.32
महाबुद्धिर्महावीर्यो महाशक्तिर्महाद्युतिः
अनिर्देश्यवपुः श्रीमानमेयात्मा महाद्रिधृक्
MBh 13.135.33
महेष्वासो महीभर्ता श्रीनिवासः सतां गतिः
अनिरुद्धः सुरानन्दो गोविन्दो गोविदां पतिः
MBh 13.135.34
मरीचिर्दमनो हंसः सुपर्णो भुजगोत्तमः
हिरण्यनाभः सुतपाः पद्मनाभः प्रजापतिः
MBh 13.135.35
अमृत्युः सर्वदृक्सिंहः संधाता संधिमान्स्थिरः
अजो दुर्मर्षणः शास्ता विश्रुतात्मा सुरारिहा
MBh 13.135.36
गुरुर्गुरुतमो धाम सत्यः सत्यपराक्रमः
निमिषोऽनिमिषः स्रग्वी वाचस्पतिरुदारधीः
MBh 13.135.37
अग्रणीर्ग्रामणीः श्रीमान्न्यायो नेता समीरणः
सहस्रमूर्धा विश्वात्मा सहस्राक्षः सहस्रपात्
MBh 13.135.38
आवर्तनो निवृत्तात्मा संवृतः संप्रमर्दनः
अहः संवर्तको वह्निरनिलो धरणीधरः
MBh 13.135.39
सुप्रसादः प्रसन्नात्मा विश्वधृग्विश्वभुग्विभुः
सत्कर्ता सत्कृतः साधुर्जह्नुर्नारायणो नरः
MBh 13.135.40
असंख्येयोऽप्रमेयात्मा विशिष्टः शिष्टकृच्छुचिः
सिद्धार्थः सिद्धसंकल्पः सिद्धिदः सिद्धिसाधनः
MBh 13.135.41
वृषाही वृषभो विष्णुर्वृषपर्वा वृषोदरः
वर्धनो वर्धमानश्च विविक्तः श्रुतिसागरः
MBh 13.135.42
सुभुजो दुर्धरो वाग्मी महेन्द्रो वसुदो वसुः
नैकरूपो बृहद्रूपः शिपिविष्टः प्रकाशनः
MBh 13.135.43
ओजस्तेजो द्युतिधरः प्रकाशात्मा प्रतापनः
ऋद्धः स्पष्टाक्षरो मन्त्रश्चन्द्रांशुर्भास्करद्युतिः
MBh 13.135.44
अमृतांशूद्भवो भानुः शशबिन्दुः सुरेश्वरः
औषधं जगतः सेतुः सत्यधर्मपराक्रमः
MBh 13.135.45
भूतभव्यभवन्नाथः पवनः पावनोऽनिलः
कामहा कामकृत्कान्तः कामः कामप्रदः प्रभुः
MBh 13.135.46
युगादिकृद्युगावर्तो नैकमायो महाशनः
अदृश्यो व्यक्तरूपश्च सहस्रजिदनन्तजित्
MBh 13.135.47
इष्टो विशिष्टः शिष्टेष्टः शिखण्डी नहुषो वृषः
क्रोधहा क्रोधकृत्कर्ता विश्वबाहुर्महीधरः
MBh 13.135.48
अच्युतः प्रथितः प्राणः प्राणदो वासवानुजः
अपां निधिरधिष्ठानमप्रमत्तः प्रतिष्ठितः
MBh 13.135.49
स्कन्दः स्कन्दधरो धुर्यो वरदो वायुवाहनः
वासुदेवो बृहद्भानुरादिदेवः पुरंदरः
MBh 13.135.50
अशोकस्तारणस्तारः शूरः शौरिर्जनेश्वरः
अनुकूलः शतावर्तः पद्मी पद्मनिभेक्षणः
MBh 13.135.51
पद्मनाभोऽरविन्दाक्षः पद्मगर्भः शरीरभृत्
महर्द्धिरृद्धो वृद्धात्मा महाक्षो गरुडध्वजः
MBh 13.135.52
अतुलः शरभो भीमः समयज्ञो हविर्हरिः
सर्वलक्षणलक्षण्यो लक्ष्मीवान्समितिंजयः
MBh 13.135.53
विक्षरो रोहितो मार्गो हेतुर्दामोदरः सहः
महीधरो महाभागो वेगवानमिताशनः
MBh 13.135.54
उद्भवः क्षोभणो देवः श्रीगर्भः परमेश्वरः
करणं कारणं कर्ता विकर्ता गहनो गुहः
MBh 13.135.55
व्यवसायो व्यवस्थानः संस्थानः स्थानदो ध्रुवः
परर्द्धिः परमः स्पष्टस्तुष्टः पुष्टः शुभेक्षणः
MBh 13.135.56
रामो विरामो विरतो मार्गो नेयो नयोऽनयः
वीरः शक्तिमतां श्रेष्ठो धर्मो धर्मविदुत्तमः
MBh 13.135.57
वैकुण्ठः पुरुषः प्राणः प्राणदः प्रणवः पृथुः
हिरण्यगर्भः शत्रुघ्नो व्याप्तो वायुरधोक्षजः
MBh 13.135.58
ऋतुः सुदर्शनः कालः परमेष्ठी परिग्रहः
उग्रः संवत्सरो दक्षो विश्रामो विश्वदक्षिणः
MBh 13.135.59
विस्तारः स्थावरः स्थाणुः प्रमाणं बीजमव्ययम्
अर्थोऽनर्थो महाकोशो महाभोगो महाधनः
MBh 13.135.60
अनिर्विण्णः स्थविष्ठो भूर्धर्मयूपो महामखः
नक्षत्रनेमिर्नक्षत्री क्षमः क्षामः समीहनः
MBh 13.135.61
यज्ञ इज्यो महेज्यश्च क्रतुः सत्रं सतां गतिः
सर्वदर्शी विमुक्तात्मा सर्वज्ञो ज्ञानमुत्तमम्
MBh 13.135.62
सुव्रतः सुमुखः सूक्ष्मः सुघोषः सुखदः सुहृत्
मनोहरो जितक्रोधो वीरबाहुर्विदारणः
MBh 13.135.63
स्वापनः स्ववशो व्यापी नैकात्मा नैककर्मकृत्
वत्सरो वत्सलो वत्सी रत्नगर्भो धनेश्वरः
MBh 13.135.64
धर्मगुब्धर्मकृद्धर्मी सदसत्क्षरमक्षरम्
अविज्ञाता सहस्रांशुर्विधाता कृतलक्षणः
MBh 13.135.65
गभस्तिनेमिः सत्त्वस्थः सिंहो भूतमहेश्वरः
आदिदेवो महादेवो देवेशो देवभृद्गुरुः
MBh 13.135.66
उत्तरो गोपतिर्गोप्ता ज्ञानगम्यः पुरातनः
शरीरभूतभृद्भोक्ता कपीन्द्रो भूरिदक्षिणः
MBh 13.135.67
सोमपोऽमृतपः सोमः पुरुजित्पुरुसत्तमः
विनयो जयः सत्यसंधो दाशार्हः सात्वतां पतिः
MBh 13.135.68
जीवो विनयिता साक्षी मुकुन्दोऽमितविक्रमः
अम्भोनिधिरनन्तात्मा महोदधिशयोऽन्तकः
MBh 13.135.69
अजो महार्हः स्वाभाव्यो जितामित्रः प्रमोदनः
आनन्दो नन्दनो नन्दः सत्यधर्मा त्रिविक्रमः
MBh 13.135.70
महर्षिः कपिलाचार्यः कृतज्ञो मेदिनीपतिः
त्रिपदस्त्रिदशाध्यक्षो महाशृङ्गः कृतान्तकृत्
MBh 13.135.71
महावराहो गोविन्दः सुषेणः कनकाङ्गदी
गुह्यो गभीरो गहनो गुप्तश्चक्रगदाधरः
MBh 13.135.72
वेधाः स्वाङ्गोऽजितः कृष्णो दृढः संकर्षणोऽच्युतः
वरुणो वारुणो वृक्षः पुष्कराक्षो महामनाः
MBh 13.135.73
भगवान्भगहा नन्दी वनमाली हलायुधः
आदित्यो ज्योतिरादित्यः सहिष्णुर्गतिसत्तमः
MBh 13.135.74
सुधन्वा खण्डपरशुर्दारुणो द्रविणप्रदः
दिवःस्पृक्सर्वदृग्व्यासो वाचस्पतिरयोनिजः
MBh 13.135.75
त्रिसामा सामगः साम निर्वाणं भेषजं भिषक्
संन्यासकृच्छमः शान्तो निष्ठा शान्तिः परायणम्
MBh 13.135.76
शुभाङ्गः शान्तिदः स्रष्टा कुमुदः कुवलेशयः
गोहितो गोपतिर्गोप्ता वृषभाक्षो वृषप्रियः
MBh 13.135.77
अनिवर्ती निवृत्तात्मा संक्षेप्ता क्षेमकृच्छिवः
श्रीवत्सवक्षाः श्रीवासः श्रीपतिः श्रीमतां वरः
MBh 13.135.78
श्रीदः श्रीशः श्रीनिवासः श्रीनिधिः श्रीविभावनः
श्रीधरः श्रीकरः श्रेयः श्रीमाँल्लोकत्रयाश्रयः
MBh 13.135.79
स्वक्षः स्वङ्गः शतानन्दो नन्दिर्ज्योतिर्गणेश्वरः
विजितात्मा विधेयात्मा सत्कीर्तिश्छिन्नसंशयः
MBh 13.135.80
उदीर्णः सर्वतश्चक्षुरनीशः शाश्वतः स्थिरः
भूशयो भूषणो भूतिर्विशोकः शोकनाशनः
MBh 13.135.81
अर्चिष्मानर्चितः कुम्भो विशुद्धात्मा विशोधनः
अनिरुद्धोऽप्रतिरथः प्रद्युम्नोऽमितविक्रमः
MBh 13.135.82
कालनेमिनिहा वीरः शूरः शौरिर्जनेश्वरः
त्रिलोकात्मा त्रिलोकेशः केशवः केशिहा हरिः
MBh 13.135.83
कामदेवः कामपालः कामी कान्तः कृतागमः
अनिर्देश्यवपुर्विष्णुर्वीरोऽनन्तो धनंजयः
MBh 13.135.84
ब्रह्मण्यो ब्रह्मकृद्ब्रह्मा ब्रह्म ब्रह्मविवर्धनः
ब्रह्मविद्ब्राह्मणो ब्रह्मी ब्रह्मज्ञो ब्राह्मणप्रियः
MBh 13.135.85
महाक्रमो महाकर्मा महातेजा महोरगः
महाक्रतुर्महायज्वा महायज्ञो महाहविः
MBh 13.135.86
स्तव्यः स्तवप्रियः स्तोत्रं स्तुतिः स्तोता रणप्रियः
पूर्णः पूरयिता पुण्यः पुण्यकीर्तिरनामयः
MBh 13.135.87
मनोजवस्तीर्थकरो वसुरेता वसुप्रदः
वसुप्रदो वासुदेवो वसुर्वसुमना हविः
MBh 13.135.88
सद्गतिः सत्कृतिः सत्ता सद्भूतिः सत्परायणः
शूरसेनो यदुश्रेष्ठः सन्निवासः सुयामुनः
MBh 13.135.89
भूतावासो वासुदेवो सर्वासुनिलयोऽनलः
दर्पहा दर्पदो दृप्तो दुर्धरोऽथापराजितः
MBh 13.135.90
विश्वमूर्तिर्महामूर्तिर्दीप्तमूर्तिरमूर्तिमान्
अनेकमूर्तिरव्यक्तः शतमूर्तिः शताननः
MBh 13.135.91
एको नैकः सवः कः किं यत्तत्पदमनुत्तमम्
लोकबन्धुर्लोकनाथो माधवो भक्तवत्सलः
MBh 13.135.92
सुवर्णवर्णो हेमाङ्गो वराङ्गश्चन्दनाङ्गदी
वीरहा विषमः शून्यो घृताशीरचलश्चलः
MBh 13.135.93
अमानी मानदो मान्यो लोकस्वामी त्रिलोकधृक्
सुमेधा मेधजो धन्यः सत्यमेधा धराधरः
MBh 13.135.94
तेजो वृषो द्युतिधरः सर्वशस्त्रभृतां वरः
प्रग्रहो निग्रहोऽव्यग्रो नैकशृङ्गो गदाग्रजः
MBh 13.135.95
चतुर्मूर्तिश्चतुर्बाहुश्चतुर्व्यूहश्चतुर्गतिः
चतुरात्मा चतुर्भावश्चतुर्वेदविदेकपात्
MBh 13.135.96
समावर्तो निवृत्तात्मा दुर्जयो दुरतिक्रमः
दुर्लभो दुर्गमो दुर्गो दुरावासो दुरारिहा
MBh 13.135.97
शुभाङ्गो लोकसारङ्गः सुतन्तुस्तन्तुवर्धनः
इन्द्रकर्मा महाकर्मा कृतकर्मा कृतागमः
MBh 13.135.98
उद्भवः सुन्दरः सुन्दो रत्ननाभः सुलोचनः
अर्को वाजसनः शृङ्गी जयन्तः सर्वविज्जयी
MBh 13.135.99
सुवर्णबिन्दुरक्षोभ्यः सर्ववागीश्वरेश्वरः
महाह्रदो महागर्तो महाभूतो महानिधिः
MBh 13.135.100
कुमुदः कुंदरः कुन्दः पर्जन्यः पवनोऽनिलः
अमृतांशोऽमृतवपुः सर्वज्ञः सर्वतोमुखः
MBh 13.135.101
सुलभः सुव्रतः सिद्धः शत्रुजिच्छत्रुतापनः
न्यग्रोधोदुम्बरोऽश्वत्थश्चाणूरान्ध्रनिषूदनः
MBh 13.135.102
सहस्रार्चिः सप्तजिह्वः सप्तैधाः सप्तवाहनः
अमूर्तिरनघोऽचिन्त्यो भयकृद्भयनाशनः
MBh 13.135.103
अणुर्बृहत्कृशः स्थूलो गुणभृन्निर्गुणो महान्
अधृतः स्वधृतः स्वास्यः प्राग्वंशो वंशवर्धनः
MBh 13.135.104
भारभृत्कथितो योगी योगीशः सर्वकामदः
आश्रमः श्रमणः क्षामः सुपर्णो वायुवाहनः
MBh 13.135.105
धनुर्धरो धनुर्वेदो दण्डो दमयिता दमः
अपराजितः सर्वसहो नियन्ता नियमो यमः
MBh 13.135.106
सत्त्ववान्सात्त्विकः सत्यः सत्यधर्मपरायणः
अभिप्रायः प्रियार्होऽर्हः प्रियकृत्प्रीतिवर्धनः
MBh 13.135.107
विहायसगतिर्ज्योतिः सुरुचिर्हुतभुग्विभुः
रविर्विरोचनः सूर्यः सविता रविलोचनः
MBh 13.135.108
अनन्तो हुतभुग्भोक्ता सुखदो नैकदोऽग्रजः
अनिर्विण्णः सदामर्षी लोकाधिष्ठानमद्भुतम्
MBh 13.135.109
सनात्सनातनतमः कपिलः कपिरव्ययः
स्वस्तिदः स्वस्तिकृत्स्वस्ति स्वस्तिभुक्स्वस्तिदक्षिणः
MBh 13.135.110
अरौद्रः कुण्डली चक्री विक्रम्यूर्जितशासनः
शब्दातिगः शब्दसहः शिशिरः शर्वरीकरः
MBh 13.135.111
अक्रूरः पेशलो दक्षो दक्षिणः क्षमिणां वरः
विद्वत्तमो वीतभयः पुण्यश्रवणकीर्तनः
MBh 13.135.112
उत्तारणो दुष्कृतिहा पुण्यो दुःस्वप्ननाशनः
वीरहा रक्षणः सन्तो जीवनः पर्यवस्थितः
MBh 13.135.113
अनन्तरूपोऽनन्तश्रीर्जितमन्युर्भयापहः
चतुरस्रो गभीरात्मा विदिशो व्यादिशो दिशः
MBh 13.135.114
अनादिर्भूर्भुवो लक्ष्मीः सुवीरो रुचिराङ्गदः
जननो जनजन्मादिर्भीमो भीमपराक्रमः
MBh 13.135.115
आधारनिलयो धाता पुष्पहासः प्रजागरः
ऊर्ध्वगः सत्पथाचारः प्राणदः प्रणवः पणः
MBh 13.135.116
प्रमाणं प्राणनिलयः प्राणकृत्प्राणजीवनः
तत्त्वं तत्त्वविदेकात्मा जन्ममृत्युजरातिगः
MBh 13.135.117
भूर्भुवः स्वस्तरुस्तारः सविता प्रपितामहः
यज्ञो यज्ञपतिर्यज्वा यज्ञाङ्गो यज्ञवाहनः
MBh 13.135.118
यज्ञभृद्यज्ञकृद्यज्ञी यज्ञभुग्यज्ञसाधनः
यज्ञान्तकृद्यज्ञगुह्यमन्नमन्नाद एव च
MBh 13.135.119
आत्मयोनिः स्वयंजातो वैखानः सामगायनः
देवकीनन्दनः स्रष्टा क्षितीशः पापनाशनः
MBh 13.135.120
शङ्खभृन्नन्दकी चक्री शार्ङ्गधन्वा गदाधरः
रथाङ्गपाणिरक्षोभ्यः सर्वप्रहरणायुधः
MBh 13.135.121
इतीदं कीर्तनीयस्य केशवस्य महात्मनः
नाम्नां सहस्रं दिव्यानामशेषेण प्रकीर्तितम्
MBh 13.135.122
य इदं शृणुयान्नित्यं यश्चापि परिकीर्तयेत्
नाशुभं प्राप्नुयात्किंचित्सोऽमुत्रेह च मानवः
MBh 13.135.123
वेदान्तगो ब्राह्मणः स्यात्क्षत्रियो विजयी भवेत्
वैश्यो धनसमृद्धः स्याच्छूद्रः सुखमवाप्नुयात्
MBh 13.135.124
धर्मार्थी प्राप्नुयाद्धर्ममर्थार्थी चार्थमाप्नुयात्
कामानवाप्नुयात्कामी प्रजार्थी चाप्नुयात्प्रजाः
MBh 13.135.125
भक्तिमान्यः सदोत्थाय शुचिस्तद्गतमानसः
सहस्रं वासुदेवस्य नाम्नामेतत्प्रकीर्तयेत्
MBh 13.135.126
यशः प्राप्नोति विपुलं ज्ञातिप्राधान्यमेव च
अचलां श्रियमाप्नोति श्रेयश्चाप्नोत्यनुत्तमम्
MBh 13.135.127
न भयं क्वचिदाप्नोति वीर्यं तेजश्च विन्दति
भवत्यरोगो द्युतिमान्बलरूपगुणान्वितः
MBh 13.135.128
रोगार्तो मुच्यते रोगाद्बद्धो मुच्येत बन्धनात्
भयान्मुच्येत भीतश्च मुच्येतापन्न आपदः
MBh 13.135.129
दुर्गाण्यतितरत्याशु पुरुषः पुरुषोत्तमम्
स्तुवन्नामसहस्रेण नित्यं भक्तिसमन्वितः
MBh 13.135.130
वासुदेवाश्रयो मर्त्यो वासुदेवपरायणः
सर्वपापविशुद्धात्मा याति ब्रह्म सनातनम्
MBh 13.135.131
न वासुदेवभक्तानामशुभं विद्यते क्वचित्
जन्ममृत्युजराव्याधिभयं वाप्युपजायते
MBh 13.135.132
इमं स्तवमधीयानः श्रद्धाभक्तिसमन्वितः
युज्येतात्मसुखक्षान्तिश्रीधृतिस्मृतिकीर्तिभिः
MBh 13.135.133
न क्रोधो न च मात्सर्यं न लोभो नाशुभा मतिः
भवन्ति कृतपुण्यानां भक्तानां पुरुषोत्तमे
MBh 13.135.134
द्यौः सचन्द्रार्कनक्षत्रा खं दिशो भूर्महोदधिः
वासुदेवस्य वीर्येण विधृतानि महात्मनः
MBh 13.135.135
ससुरासुरगन्धर्वं सयक्षोरगराक्षसम्
जगद्वशे वर्ततेदं कृष्णस्य सचराचरम्
MBh 13.135.136
इन्द्रियाणि मनो बुद्धिः सत्त्वं तेजो बलं धृतिः
वासुदेवात्मकान्याहुः क्षेत्रं क्षेत्रज्ञ एव च
MBh 13.135.137
सर्वागमानामाचारः प्रथमं परिकल्प्यते
आचारप्रभवो धर्मो धर्मस्य प्रभुरच्युतः
MBh 13.135.138
ऋषयः पितरो देवा महाभूतानि धातवः
जङ्गमाजङ्गमं चेदं जगन्नारायणोद्भवम्
MBh 13.135.139
योगो ज्ञानं तथा सांख्यं विद्याः शिल्पानि कर्म च
वेदाः शास्त्राणि विज्ञानमेतत्सर्वं जनार्दनात्
MBh 13.135.140
एको विष्णुर्महद्भूतं पृथग्भूतान्यनेकशः
त्रीँल्लोकान्व्याप्य भूतात्मा भुङ्क्ते विश्वभुगव्ययः
MBh 13.135.141
इमं स्तवं भगवतो विष्णोर्व्यासेन कीर्तितम्
पठेद्य इच्छेत्पुरुषः श्रेयः प्राप्तुं सुखानि च
MBh 13.135.142
विश्वेश्वरमजं देवं जगतः प्रभवाप्ययम्
भजन्ति ये पुष्कराक्षं न ते यान्ति पराभवम्
🪷 The Honest Framing
This chapter belongs to the source-pinned BORI Critical Edition-derived digital witness. Its unique addresses are publicly readable and indexable; this remains a digital-witness claim, not a claim that every Mahābhārata recension agrees word-for-word or that the traditional 100,000-verse extent is represented here.
Navigation
- ← Anuśāsana-Parva chapter-index (154 chapters)
- ← Mahābhārata master-index (all 18 Parvas)
- ← Previous chapter · Anuśāsana-Parva Ch 134
- Next chapter · Anuśāsana-Parva Ch 136 →
Sources and Connected Readings
Continue from these 142 source-pinned Devanāgarī addresses to Anuśāsana-Parva, the Mahābhārata reading map, and any exact Bhagavad-Gītā correspondence.
MBh 13.135local chapter route · Anuśāsana-ParvaAnuśāsana-Parvaparent Parva chapter index/mahabharata18-parva Sanskrit reading index with edition and address notesBhīṣma-ParvaMahābhārata Parva 6 · the Gītā lives in chapters 23-40MBh 6.23Bhagavad-Gītā chapter 1 in its Itihāsa homeMBh 6.40Bhagavad-Gītā chapter 18 in its Itihāsa homeRāmopākhyānaVana-Parva 258 · Vyāsa narrates the Rāma-kathā inside Krishna's epicNārāyaṇīyamŚānti-Parva 335 · Nārāyaṇa/Krishna/Viṣṇu/Vāsudeva unity witness/bhagavad-gitadeep Gītā corpus with translations, commentaries, and verse-level anchorsBG 1.1Dharma-kṣetra opening cross-anchored to MBh 6.23.1BG 18.66Carama-Śloka surrender seal inside the Bhīṣma-Parva arcVyāsa vibhūtiBG 10.37 · Krishna names Vyāsa among munisBG 10.37Vyāsa and Dhanañjaya as Krishna-vibhūti source routeŚB 1.2.11Brahman · Paramātmā · Bhagavān as one advaya-tattvaŚB 1.3.28kṛṣṇas tu bhagavān svayam · Vyāsa corpus source seal/binduDiamond of Darśanas · Itihāsa as one Bindu aperture/philosophyKrishna = Paramaatma = Parabrahman constitutional foundation
🪷 जय व्यास भगवान् 🪷