🪷 Mahābhārata · Anuśāsana-Parva · Chapter 134
The Book of the Final Teaching · Parva 13 · 57 unique Sanskrit addresses · pinned Critical Edition-derived witness
The Devanāgarī Yathārtha · 57 Shlokas
MBh 13.134.1
महेश्वर उवाच
परावरज्ञे धर्मज्ञे तपोवननिवासिनि
साध्वि सुभ्रु सुकेशान्ते हिमवत्पर्वतात्मजे
MBh 13.134.2
दक्षे शमदमोपेते निर्ममे धर्मचारिणि
पृच्छामि त्वां वरारोहे पृष्टा वद ममेप्सितम्
MBh 13.134.3
सावित्री ब्रह्मणः साध्वी कौशिकस्य शची सती
मार्तण्डजस्य धूमोर्णा ऋद्धिर्वैश्रवणस्य च
MBh 13.134.4
वरुणस्य ततो गौरी सूर्यस्य च सुवर्चला
रोहिणी शशिनः साध्वी स्वाहा चैव विभावसोः
MBh 13.134.5
अदितिः कश्यपस्याथ सर्वास्ताः पतिदेवताः
पृष्टाश्चोपासिताश्चैव तास्त्वया देवि नित्यशः
MBh 13.134.6
तेन त्वां परिपृच्छामि धर्मज्ञे धर्मवादिनि
स्त्रीधर्मं श्रोतुमिच्छामि त्वयोदाहृतमादितः
MBh 13.134.7
सहधर्मचरी मे त्वं समशीला समव्रता
समानसारवीर्या च तपस्तीव्रं कृतं च ते
त्वया ह्युक्तो विशेषेण प्रमाणत्वमुपैष्यति
MBh 13.134.8
स्त्रियश्चैव विशेषेण स्त्रीजनस्य गतिः सदा
गौर्गां गच्छति सुश्रोणि लोकेष्वेषा स्थितिः सदा
MBh 13.134.9
मम चार्धं शरीरस्य मम चार्धाद्विनिःसृता
सुरकार्यकरी च त्वं लोकसंतानकारिणी
MBh 13.134.10
तव सर्वः सुविदितः स्त्रीधर्मः शाश्वतः शुभे
तस्मादशेषतो ब्रूहि स्त्रीधर्मं विस्तरेण मे
MBh 13.134.11
उमोवाच
भगवन्सर्वभूतेश भूतभव्यभवोद्भव
त्वत्प्रभावादियं देव वाक्चैव प्रतिभाति मे
MBh 13.134.12
इमास्तु नद्यो देवेश सर्वतीर्थोदकैर्युताः
उपस्पर्शनहेतोस्त्वा समीपस्था उपासते
MBh 13.134.13
एताभिः सह संमन्त्र्य प्रवक्ष्याम्यनुपूर्वशः
प्रभवन्योऽनहंवादी स वै पुरुष उच्यते
MBh 13.134.14
स्त्री च भूतेश सततं स्त्रियमेवानुधावति
मया संमानिताश्चैव भविष्यन्ति सरिद्वराः
MBh 13.134.15
एषा सरस्वती पुण्या नदीनामुत्तमा नदी
प्रथमा सर्वसरितां नदी सागरगामिनी
MBh 13.134.16
विपाशा च वितस्ता च चन्द्रभागा इरावती
शतद्रुर्देविका सिन्धुः कौशिकी गोमती तथा
MBh 13.134.17
तथा देवनदी चेयं सर्वतीर्थाभिसंवृता
गगनाद्गां गता देवी गङ्गा सर्वसरिद्वरा
MBh 13.134.18
इत्युक्त्वा देवदेवस्य पत्नी धर्मभृतां वरा
स्मितपूर्वमिवाभाष्य सर्वास्ताः सरितस्तदा
MBh 13.134.19
अपृच्छद्देवमहिषी स्त्रीधर्मं धर्मवत्सला
स्त्रीधर्मकुशलास्ता वै गङ्गाद्याः सरितां वराः
MBh 13.134.20
अयं भगवता दत्तः प्रश्नः स्त्रीधर्मसंश्रितः
तं तु संमन्त्र्य युष्माभिर्वक्तुमिच्छामि शंकरे
MBh 13.134.21
न चैकसाध्यं पश्यामि विज्ञानं भुवि कस्यचित्
दिवि वा सागरगमास्तेन वो मानयाम्यहम्
MBh 13.134.22
भीष्म उवाच
एवं सर्वाः सरिच्छ्रेष्ठाः पृष्टाः पुण्यतमाः शिवाः
ततो देवनदी गङ्गा नियुक्ता प्रतिपूज्य ताम्
MBh 13.134.23
बह्वीभिर्बुद्धिभिः स्फीता स्त्रीधर्मज्ञा शुचिस्मिता
शैलराजसुतां देवीं पुण्या पापापहां शिवाम्
MBh 13.134.24
बुद्ध्या विनयसंपन्ना सर्वज्ञानविशारदा
सस्मितं बहुबुद्ध्याढ्या गङ्गा वचनमब्रवीत्
MBh 13.134.25
धन्याः स्मोऽनुगृहीताः स्मो देवि धर्मपरायणा
या त्वं सर्वजगन्मान्या नदीर्मानयसेऽनघे
MBh 13.134.26
प्रभवन्पृच्छते यो हि संमानयति वा पुनः
नूनं जनमदुष्टात्मा पण्डिताख्यां स गच्छति
MBh 13.134.27
ज्ञानविज्ञानसंपन्नानूहापोहविशारदान्
प्रवक्तॄन्पृच्छते योऽन्यान्स वै ना पदमर्च्छति
MBh 13.134.28
अन्यथा बहुबुद्ध्याढ्यो वाक्यं वदति संसदि
अन्यथैव ह्यहंमानी दुर्बलं वदते वचः
MBh 13.134.29
दिव्यज्ञाने दिवि श्रेष्ठे दिव्यपुण्ये सदोत्थिते
त्वमेवार्हसि नो देवि स्त्रीधर्ममनुशासितुम्
MBh 13.134.30
भीष्म उवाच
ततः साराधिता देवी गङ्गया बहुभिर्गुणैः
प्राह सर्वमशेषेण स्त्रीधर्मं सुरसुन्दरी
MBh 13.134.31
स्त्रीधर्मो मां प्रति यथा प्रतिभाति यथाविधि
तमहं कीर्तयिष्यामि तथैव प्रथितो भवेत्
MBh 13.134.32
स्त्रीधर्मः पूर्व एवायं विवाहे बन्धुभिः कृतः
सहधर्मचरी भर्तुर्भवत्यग्निसमीपतः
MBh 13.134.33
सुस्वभावा सुवचना सुवृत्ता सुखदर्शना
अनन्यचित्ता सुमुखी भर्तुः सा धर्मचारिणी
MBh 13.134.34
सा भवेद्धर्मपरमा सा भवेद्धर्मभागिनी
देववत्सततं साध्वी या भर्तारं प्रपश्यति
MBh 13.134.35
शुश्रूषां परिचारं च देववद्या करोति च
नान्यभावा ह्यविमनाः सुव्रता सुखदर्शना
MBh 13.134.36
पुत्रवक्त्रमिवाभीक्ष्णं भर्तुर्वदनमीक्षते
या साध्वी नियताचारा सा भवेद्धर्मचारिणी
MBh 13.134.37
श्रुत्वा दंपतिधर्मं वै सहधर्मकृतं शुभम्
अनन्यचित्ता सुमुखी भर्तुः सा धर्मचारिणी
MBh 13.134.38
परुषाण्यपि चोक्ता या दृष्टा वा क्रूरचक्षुषा
सुप्रसन्नमुखी भर्तुर्या नारी सा पतिव्रता
MBh 13.134.39
न चन्द्रसूर्यौ न तरुं पुंनाम्नो या निरीक्षते
भर्तृवर्जं वरारोहा सा भवेद्धर्मचारिणी
MBh 13.134.40
दरिद्रं व्याधितं दीनमध्वना परिकर्शितम्
पतिं पुत्रमिवोपास्ते सा नारी धर्मभागिनी
MBh 13.134.41
या नारी प्रयता दक्षा या नारी पुत्रिणी भवेत्
पतिप्रिया पतिप्राणा सा नारी धर्मभागिनी
MBh 13.134.42
शुश्रूषां परिचर्यां च करोत्यविमनाः सदा
सुप्रतीता विनीता च सा नारी धर्मभागिनी
MBh 13.134.43
न कामेषु न भोगेषु नैश्वर्ये न सुखे तथा
स्पृहा यस्या यथा पत्यौ सा नारी धर्मभागिनी
MBh 13.134.44
कल्योत्थानरता नित्यं गुरुशुश्रूषणे रता
सुसंमृष्टक्षया चैव गोशकृत्कृतलेपना
MBh 13.134.45
अग्निकार्यपरा नित्यं सदा पुष्पबलिप्रदा
देवतातिथिभृत्यानां निरुप्य पतिना सह
MBh 13.134.46
शेषान्नमुपभुञ्जाना यथान्यायं यथाविधि
तुष्टपुष्टजना नित्यं नारी धर्मेण युज्यते
MBh 13.134.47
श्वश्रूश्वशुरयोः पादौ तोषयन्ती गुणान्विता
मातापितृपरा नित्यं या नारी सा तपोधना
MBh 13.134.48
ब्राह्मणान्दुर्बलानाथान्दीनान्धकृपणांस्तथा
बिभर्त्यन्नेन या नारी सा पतिव्रतभागिनी
MBh 13.134.49
व्रतं चरति या नित्यं दुश्चरं लघुसत्त्वया
पतिचित्ता पतिहिता सा पतिव्रतभागिनी
MBh 13.134.50
पुण्यमेतत्तपश्चैव स्वर्गश्चैष सनातनः
या नारी भर्तृपरमा भवेद्भर्तृव्रता शिवा
MBh 13.134.51
पतिर्हि देवो नारीणां पतिर्बन्धुः पतिर्गतिः
पत्या समा गतिर्नास्ति दैवतं वा यथा पतिः
MBh 13.134.52
पतिप्रसादः स्वर्गो वा तुल्यो नार्या न वा भवेत्
अहं स्वर्गं न हीच्छेयं त्वय्यप्रीते महेश्वर
MBh 13.134.53
यद्यकार्यमधर्मं वा यदि वा प्राणनाशनम्
पतिर्ब्रूयाद्दरिद्रो वा व्याधितो वा कथंचन
MBh 13.134.54
आपन्नो रिपुसंस्थो वा ब्रह्मशापार्दितोऽपि वा
आपद्धर्माननुप्रेक्ष्य तत्कार्यमविशङ्कया
MBh 13.134.55
एष देव मया प्रोक्तः स्त्रीधर्मो वचनात्तव
या त्वेवंभाविनी नारी सा भवेद्धर्मभागिनी
MBh 13.134.56
भीष्म उवाच
इत्युक्तः स तु देवेशः प्रतिपूज्य गिरेः सुताम्
लोकान्विसर्जयामास सर्वैरनुचरैः सह
MBh 13.134.57
ततो ययुर्भूतगणाः सरितश्च यथागतम्
गन्धर्वाप्सरसश्चैव प्रणम्य शिरसा भवम्
🪷 The Honest Framing
This chapter belongs to the source-pinned BORI Critical Edition-derived digital witness. Its unique addresses are publicly readable and indexable; this remains a digital-witness claim, not a claim that every Mahābhārata recension agrees word-for-word or that the traditional 100,000-verse extent is represented here.
Navigation
- ← Anuśāsana-Parva chapter-index (154 chapters)
- ← Mahābhārata master-index (all 18 Parvas)
- ← Previous chapter · Anuśāsana-Parva Ch 133
- Next chapter · Anuśāsana-Parva Ch 135 →
Sources and Connected Readings
Continue from these 57 source-pinned Devanāgarī addresses to Anuśāsana-Parva, the Mahābhārata reading map, and any exact Bhagavad-Gītā correspondence.
MBh 13.134local chapter route · Anuśāsana-ParvaAnuśāsana-Parvaparent Parva chapter index/mahabharata18-parva Sanskrit reading index with edition and address notesBhīṣma-ParvaMahābhārata Parva 6 · the Gītā lives in chapters 23-40MBh 6.23Bhagavad-Gītā chapter 1 in its Itihāsa homeMBh 6.40Bhagavad-Gītā chapter 18 in its Itihāsa homeRāmopākhyānaVana-Parva 258 · Vyāsa narrates the Rāma-kathā inside Krishna's epicNārāyaṇīyamŚānti-Parva 335 · Nārāyaṇa/Krishna/Viṣṇu/Vāsudeva unity witness/bhagavad-gitadeep Gītā corpus with translations, commentaries, and verse-level anchorsBG 1.1Dharma-kṣetra opening cross-anchored to MBh 6.23.1BG 18.66Carama-Śloka surrender seal inside the Bhīṣma-Parva arcVyāsa vibhūtiBG 10.37 · Krishna names Vyāsa among munisBG 10.37Vyāsa and Dhanañjaya as Krishna-vibhūti source routeŚB 1.2.11Brahman · Paramātmā · Bhagavān as one advaya-tattvaŚB 1.3.28kṛṣṇas tu bhagavān svayam · Vyāsa corpus source seal/binduDiamond of Darśanas · Itihāsa as one Bindu aperture/philosophyKrishna = Paramaatma = Parabrahman constitutional foundation
🪷 जय व्यास भगवान् 🪷