🪷 Mahābhārata · Anuśāsana-Parva · Chapter 133
The Book of the Final Teaching · Parva 13 · 63 unique Sanskrit addresses · pinned Critical Edition-derived witness
The Devanāgarī Yathārtha · 63 Shlokas
MBh 13.133.1
उमोवाच
किंशीलाः किंसमाचाराः पुरुषाः कैश्च कर्मभिः
स्वर्गं समभिपद्यन्ते संप्रदानेन केन वा
MBh 13.133.2
महेश्वर उवाच
दाता ब्राह्मणसत्कर्ता दीनान्धकृपणादिषु
भक्ष्यभोज्यान्नपानानां वाससां च प्रदायकः
MBh 13.133.3
प्रतिश्रयान्सभाः कूपान्प्रपाः पुष्करिणीस्तथा
नैत्यकानि च सर्वाणि किमिच्छकमतीव च
MBh 13.133.4
आसनं शयनं यानं धनं रत्नं गृहांस्तथा
सस्यजातानि सर्वाणि गाः क्षेत्राण्यथ योषितः
MBh 13.133.5
सुप्रतीतमना नित्यं यः प्रयच्छति मानवः
एवंभूतो मृतो देवि देवलोकेऽभिजायते
MBh 13.133.6
तत्रोष्य सुचिरं कालं भुक्त्वा भोगाननुत्तमान्
सहाप्सरोभिर्मुदितो रमित्वा नन्दनादिषु
MBh 13.133.7
तस्मात्स्वर्गाच्च्युतो लोकान्मानुषेषूपजायते
महाभोगे कुले देवि धनधान्यसमाचिते
MBh 13.133.8
तत्र कामगुणैः सर्वैः समुपेतो मुदा युतः
महाभोगो महाकोशो धनी भवति मानवः
MBh 13.133.9
एते देवि महाभोगाः प्राणिनो दानशीलिनः
ब्रह्मणा वै पुरा प्रोक्ताः सर्वस्य प्रियदर्शनाः
MBh 13.133.10
अपरे मानवा देवि प्रदानकृपणा द्विजैः
याचिता न प्रयच्छन्ति विद्यमानेऽप्यबुद्धयः
MBh 13.133.11
दीनान्धकृपणान्दृष्ट्वा भिक्षुकानतिथीनपि
याच्यमाना निवर्तन्ते जिह्वालोभसमन्विताः
MBh 13.133.12
न धनानि न वासांसि न भोगान्न च काञ्चनम्
न गावो नान्नविकृतिं प्रयच्छन्ति कदाचन
MBh 13.133.13
अप्रवृत्तास्तु ये लुब्धा नास्तिका दानवर्जिताः
एवंभूता नरा देवि निरयं यान्त्यबुद्धयः
MBh 13.133.14
ते चेन्मनुष्यतां यान्ति यदा कालस्य पर्ययात्
धनरिक्ते कुले जन्म लभन्ते स्वल्पबुद्धयः
MBh 13.133.15
क्षुत्पिपासापरीताश्च सर्वभोगबहिष्कृताः
निराशाः सर्वभोगेभ्यो जीवन्त्यधमजीविकाम्
MBh 13.133.16
अल्पभोगकुले जाता अल्पभोगरता नराः
अनेन कर्मणा देवि भवन्त्यधनिनो नराः
MBh 13.133.17
अपरे स्तम्भिनो नित्यं मानिनः पापतो रताः
आसनार्हस्य ये पीठं न प्रयच्छन्त्यचेतसः
MBh 13.133.18
मार्गार्हस्य च ये मार्गं न यच्छन्त्यल्पबुद्धयः
पाद्यार्हस्य च ये पाद्यं न ददत्यल्पबुद्धयः
MBh 13.133.19
अर्घार्हान्न च सत्कारैरर्चयन्ति यथाविधि
अर्घ्यमाचमनीयं वा न यच्छन्त्यल्पबुद्धयः
MBh 13.133.20
गुरुं चाभिगतं प्रेम्णा गुरुवन्न बुभूषते
अभिमानप्रवृत्तेन लोभेन समवस्थिताः
MBh 13.133.21
संमान्यांश्चावमन्यन्ते वृद्धान्परिभवन्ति च
एवंविधा नरा देवि सर्वे निरयगामिनः
MBh 13.133.22
ते वै यदि नरास्तस्मान्निरयादुत्तरन्ति वै
वर्षपूगैस्ततो जन्म लभन्ते कुत्सिते कुले
MBh 13.133.23
श्वपाकपुल्कसादीनां कुत्सितानामचेतसाम्
कुलेषु तेषु जायन्ते गुरुवृद्धापचायिनः
MBh 13.133.24
न स्तम्भी न च मानी यो देवताद्विजपूजकः
लोकपूज्यो नमस्कर्ता प्रश्रितो मधुरं वदन्
MBh 13.133.25
सर्ववर्णप्रियकरः सर्वभूतहितः सदा
अद्वेषी सुमुखः श्लक्ष्णः स्निग्धवाणीप्रदः सदा
MBh 13.133.26
स्वागतेनैव सर्वेषां भूतानामविहिंसकः
यथार्हसत्क्रियापूर्वमर्चयन्नुपतिष्ठति
MBh 13.133.27
मार्गार्हाय ददन्मार्गं गुरुं गुरुवदर्चयन्
अतिथिप्रग्रहरतस्तथाभ्यागतपूजकः
MBh 13.133.28
एवंभूतो नरो देवि स्वर्गतिं प्रतिपद्यते
ततो मानुषतां प्राप्य विशिष्टकुलजो भवेत्
MBh 13.133.29
तत्रासौ विपुलैर्भोगैः सर्वरत्नसमायुतः
यथार्हदाता चार्हेषु धर्मचर्यापरो भवेत्
MBh 13.133.30
संमतः सर्वभूतानां सर्वलोकनमस्कृतः
स्वकर्मफलमाप्नोति स्वयमेव नरः सदा
MBh 13.133.31
उदात्तकुलजातीय उदात्ताभिजनः सदा
एष धर्मो मया प्रोक्तो विधात्रा स्वयमीरितः
MBh 13.133.32
यस्तु रौद्रसमाचारः सर्वसत्त्वभयंकरः
हस्ताभ्यां यदि वा पद्भ्यां रज्ज्वा दण्डेन वा पुनः
MBh 13.133.33
लोष्टैः स्तम्भैरुपायैर्वा जन्तून्बाधति शोभने
हिंसार्थं निकृतिप्रज्ञः प्रोद्वेजयति चैव ह
MBh 13.133.34
उपक्रामति जन्तूंश्च उद्वेगजननः सदा
एवंशीलसमाचारो निरयं प्रतिपद्यते
MBh 13.133.35
स चेन्मानुषतां गच्छेद्यदि कालस्य पर्ययात्
बह्वाबाधपरिक्लिष्टे सोऽधमे जायते कुले
MBh 13.133.36
लोकद्वेष्योऽधमः पुंसां स्वयं कर्मकृतैः फलैः
एष देवि मनुष्येषु बोद्धव्यो ज्ञातिबन्धुषु
MBh 13.133.37
अपरः सर्वभूतानि दयावाननुपश्यति
मैत्रदृष्टिः पितृसमो निर्वैरो नियतेन्द्रियः
MBh 13.133.38
नोद्वेजयति भूतानि न विहिंसयते तथा
हस्तपादैः सुनियतैर्विश्वास्यः सर्वजन्तुषु
MBh 13.133.39
न रज्ज्वा न च दण्डेन न लोष्टैर्नायुधेन च
उद्वेजयति भूतानि श्लक्ष्णकर्मा दयापरः
MBh 13.133.40
एवंशीलसमाचारः स्वर्गे समुपजायते
तत्रासौ भवने दिव्ये मुदा वसति देववत्
MBh 13.133.41
स चेत्कर्मक्षयान्मर्त्यो मनुष्येषूपजायते
अल्पाबाधो निरीतीकः स जातः सुखमेधते
MBh 13.133.42
सुखभागी निरायासो निरुद्वेगः सदा नरः
एष देवि सतां मार्गो बाधा यत्र न विद्यते
MBh 13.133.43
उमोवाच
इमे मनुष्या दृश्यन्ते ऊहापोहविशारदाः
ज्ञानविज्ञानसंपन्नाः प्रज्ञावन्तोऽर्थकोविदाः
दुष्प्रज्ञाश्चापरे देव ज्ञानविज्ञानवर्जिताः
MBh 13.133.44
केन कर्मविपाकेन प्रज्ञावान्पुरुषो भवेत्
अल्पप्रज्ञो विरूपाक्ष कथं भवति मानवः
एतं मे संशयं छिन्द्धि सर्वधर्मविदां वर
MBh 13.133.45
जात्यन्धाश्चापरे देव रोगार्ताश्चापरे तथा
नराः क्लीबाश्च दृश्यन्ते कारणं ब्रूहि तत्र वै
MBh 13.133.46
महेश्वर उवाच
ब्राह्मणान्वेदविदुषः सिद्धान्धर्मविदस्तथा
परिपृच्छन्त्यहरहः कुशलाकुशलं तथा
MBh 13.133.47
वर्जयन्त्यशुभं कर्म सेवमानाः शुभं तथा
लभन्ते स्वर्गतिं नित्यमिह लोके सुखं तथा
MBh 13.133.48
स चेन्मानुषतां याति मेधावी तत्र जायते
श्रुतं प्रज्ञानुगं चास्य कल्याणमुपजायते
MBh 13.133.49
परदारेषु ये मूढाश्चक्षुर्दुष्टं प्रयुञ्जते
तेन दुष्टस्वभावेन जात्यन्धास्ते भवन्ति ह
MBh 13.133.50
मनसा तु प्रदुष्टेन नग्नां पश्यन्ति ये स्त्रियम्
रोगार्तास्ते भवन्तीह नरा दुष्कृतकर्मिणः
MBh 13.133.51
ये तु मूढा दुराचारा वियोनौ मैथुने रताः
पुरुषेषु सुदुष्प्रज्ञाः क्लीबत्वमुपयान्ति ते
MBh 13.133.52
पशूंश्च ये बन्धयन्ति ये चैव गुरुतल्पगाः
प्रकीर्णमैथुना ये च क्लीबा जायन्ति ते नराः
MBh 13.133.53
उमोवाच
सावद्यं किं नु वै कर्म निरवद्यं तथैव च
श्रेयः कुर्वन्नवाप्नोति मानवो देवसत्तम
MBh 13.133.54
महेश्वर उवाच
श्रेयांसं मार्गमातिष्ठन्सदा यः पृच्छते द्विजान्
धर्मान्वेषी गुणाकाङ्क्षी स स्वर्गं समुपाश्नुते
MBh 13.133.55
यदि मानुषतां देवि कदाचित्स निगच्छति
मेधावी धारणायुक्तः प्राज्ञस्तत्राभिजायते
MBh 13.133.56
एष देवि सतां धर्मो मन्तव्यो भूतिकारकः
नृणां हितार्थाय तव मया वै समुदाहृतः
MBh 13.133.57
उमोवाच
अपरे स्वल्पविज्ञाना धर्मविद्वेषिणो नराः
ब्राह्मणान्वेदविदुषो नेच्छन्ति परिसर्पितुम्
MBh 13.133.58
व्रतवन्तो नराः केचिच्छ्रद्धादमपरायणाः
अव्रता भ्रष्टनियमास्तथान्ये राक्षसोपमाः
MBh 13.133.59
यज्वानश्च तथैवान्ये निर्होमाश्च तथापरे
केन कर्मविपाकेन भवन्तीह वदस्व मे
MBh 13.133.60
महेश्वर उवाच
आगमाल्लोकधर्माणां मर्यादाः पूर्वनिर्मिताः
प्रामाण्येनानुवर्तन्ते दृश्यन्ते हि दृढव्रताः
MBh 13.133.61
अधर्मं धर्ममित्याहुर्ये च मोहवशं गताः
अव्रता नष्टमर्यादास्ते प्रोक्ता ब्रह्मराक्षसाः
MBh 13.133.62
ते चेत्कालकृतोद्योगात्संभवन्तीह मानुषाः
निर्होमा निर्वषट्कारास्ते भवन्ति नराधमाः
MBh 13.133.63
एष देवि मया सर्वः संशयच्छेदनाय ते
कुशलाकुशलो नॄणां व्याख्यातो धर्मसागरः
🪷 The Honest Framing
This chapter belongs to the source-pinned BORI Critical Edition-derived digital witness. Its unique addresses are publicly readable and indexable; this remains a digital-witness claim, not a claim that every Mahābhārata recension agrees word-for-word or that the traditional 100,000-verse extent is represented here.
Navigation
- ← Anuśāsana-Parva chapter-index (154 chapters)
- ← Mahābhārata master-index (all 18 Parvas)
- ← Previous chapter · Anuśāsana-Parva Ch 132
- Next chapter · Anuśāsana-Parva Ch 134 →
Sources and Connected Readings
Continue from these 63 source-pinned Devanāgarī addresses to Anuśāsana-Parva, the Mahābhārata reading map, and any exact Bhagavad-Gītā correspondence.
MBh 13.133local chapter route · Anuśāsana-ParvaAnuśāsana-Parvaparent Parva chapter index/mahabharata18-parva Sanskrit reading index with edition and address notesBhīṣma-ParvaMahābhārata Parva 6 · the Gītā lives in chapters 23-40MBh 6.23Bhagavad-Gītā chapter 1 in its Itihāsa homeMBh 6.40Bhagavad-Gītā chapter 18 in its Itihāsa homeRāmopākhyānaVana-Parva 258 · Vyāsa narrates the Rāma-kathā inside Krishna's epicNārāyaṇīyamŚānti-Parva 335 · Nārāyaṇa/Krishna/Viṣṇu/Vāsudeva unity witness/bhagavad-gitadeep Gītā corpus with translations, commentaries, and verse-level anchorsBG 1.1Dharma-kṣetra opening cross-anchored to MBh 6.23.1BG 18.66Carama-Śloka surrender seal inside the Bhīṣma-Parva arcVyāsa vibhūtiBG 10.37 · Krishna names Vyāsa among munisBG 10.37Vyāsa and Dhanañjaya as Krishna-vibhūti source routeŚB 1.2.11Brahman · Paramātmā · Bhagavān as one advaya-tattvaŚB 1.3.28kṛṣṇas tu bhagavān svayam · Vyāsa corpus source seal/binduDiamond of Darśanas · Itihāsa as one Bindu aperture/philosophyKrishna = Paramaatma = Parabrahman constitutional foundation
🪷 जय व्यास भगवान् 🪷