🪷 Mahābhārata · Anuśāsana-Parva · Chapter 132
The Book of the Final Teaching · Parva 13 · 58 unique Sanskrit addresses · pinned Critical Edition-derived witness
The Devanāgarī Yathārtha · 58 Shlokas
MBh 13.132.1
उमोवाच
भगवन्सर्वभूतेश सुरासुरनमस्कृत
धर्माधर्मे नृणां देव ब्रूहि मे संशयं विभो
MBh 13.132.2
कर्मणा मनसा वाचा त्रिविधं हि नरः सदा
बध्यते बन्धनैः पाशैर्मुच्यतेऽप्यथ वा पुनः
MBh 13.132.3
केन शीलेन वा देव कर्मणा कीदृशेन वा
समाचारैर्गुणैर्वाक्यैः स्वर्गं यान्तीह मानवाः
MBh 13.132.4
महेश्वर उवाच
देवि धर्मार्थतत्त्वज्ञे सत्यनित्ये दमे रते
सर्वप्राणिहितः प्रश्नः श्रूयतां बुद्धिवर्धनः
MBh 13.132.5
सत्यधर्मरताः सन्तः सर्वलिप्साविवर्जिताः
नाधर्मेण न धर्मेण बध्यन्ते छिन्नसंशयाः
MBh 13.132.6
प्रलयोत्पत्तितत्त्वज्ञाः सर्वज्ञाः समदर्शिनः
वीतरागा विमुच्यन्ते पुरुषाः सर्वबन्धनैः
MBh 13.132.7
कर्मणा मनसा वाचा ये न हिंसन्ति किंचन
ये न सज्जन्ति कस्मिंश्चिद्बध्यन्ते ते न कर्मभिः
MBh 13.132.8
प्राणातिपाताद्विरताः शीलवन्तो दयान्विताः
तुल्यद्वेष्यप्रिया दान्ता मुच्यन्ते कर्मबन्धनैः
MBh 13.132.9
सर्वभूतदयावन्तो विश्वास्याः सर्वजन्तुषु
त्यक्तहिंसासमाचारास्ते नराः स्वर्गगामिनः
MBh 13.132.10
परस्वे निर्ममा नित्यं परदारविवर्जकाः
धर्मलब्धार्थभोक्तारस्ते नराः स्वर्गगामिनः
MBh 13.132.11
मातृवत्स्वसृवच्चैव नित्यं दुहितृवच्च ये
परदारेषु वर्तन्ते ते नराः स्वर्गगामिनः
MBh 13.132.12
स्तैन्यान्निवृत्ताः सततं संतुष्टाः स्वधनेन च
स्वभाग्यान्युपजीवन्ति ते नराः स्वर्गगामिनः
MBh 13.132.13
स्वदारनिरता ये च ऋतुकालाभिगामिनः
अग्राम्यसुखभोगाश्च ते नराः स्वर्गगामिनः
MBh 13.132.14
परदारेषु ये नित्यं चारित्रावृतलोचनाः
यतेन्द्रियाः शीलपरास्ते नराः स्वर्गगामिनः
MBh 13.132.15
एष देवकृतो मार्गः सेवितव्यः सदा नरैः
अकषायकृतश्चैव मार्गः सेव्यः सदा बुधैः
MBh 13.132.16
दानधर्मतपोयुक्तः शीलशौचदयात्मकः
वृत्त्यर्थं धर्महेतोर्वा सेवितव्यः सदा नरैः
स्वर्गवासमभीप्सद्भिर्न सेव्यस्त्वत उत्तरः
MBh 13.132.17
उमोवाच
वाचाथ बध्यते येन मुच्यतेऽप्यथ वा पुनः
तानि कर्माणि मे देव वद भूतपतेऽनघ
MBh 13.132.18
महेश्वर उवाच
आत्महेतोः परार्थे वा नर्महास्याश्रयात्तथा
ये मृषा न वदन्तीह ते नराः स्वर्गगामिनः
MBh 13.132.19
वृत्त्यर्थं धर्महेतोर्वा कामकारात्तथैव च
अनृतं ये न भाषन्ते ते नराः स्वर्गगामिनः
MBh 13.132.20
श्लक्ष्णां वाणीं निराबाधां मधुरां पापवर्जिताम्
स्वागतेनाभिभाषन्ते ते नराः स्वर्गगामिनः
MBh 13.132.21
कटुकां ये न भाषन्ते परुषां निष्ठुरां गिरम्
अपैशुन्यरताः सन्तस्ते नराः स्वर्गगामिनः
MBh 13.132.22
पिशुनां ये न भाषन्ते मित्रभेदकरीं गिरम्
ऋतां मैत्रीं प्रभाषन्ते ते नराः स्वर्गगामिनः
MBh 13.132.23
वर्जयन्ति सदा सूच्यं परद्रोहं च मानवाः
सर्वभूतसमा दान्तास्ते नराः स्वर्गगामिनः
MBh 13.132.24
शठप्रलापाद्विरता विरुद्धपरिवर्जकाः
सौम्यप्रलापिनो नित्यं ते नराः स्वर्गगामिनः
MBh 13.132.25
न कोपाद्व्याहरन्ते ये वाचं हृदयदारणीम्
सान्त्वं वदन्ति क्रुद्धापि ते नराः स्वर्गगामिनः
MBh 13.132.26
एष वाणीकृतो देवि धर्मः सेव्यः सदा नरैः
शुभः सत्यगुणो नित्यं वर्जनीया मृषा बुधैः
MBh 13.132.27
उमोवाच
मनसा बध्यते येन कर्मणा पुरुषः सदा
तन्मे ब्रूहि महाभाग देवदेव पिनाकधृक्
MBh 13.132.28
महेश्वर उवाच
मानसेनेह धर्मेण संयुक्ताः पुरुषाः सदा
स्वर्गं गच्छन्ति कल्याणि तन्मे कीर्तयतः शृणु
MBh 13.132.29
दुष्प्रणीतेन मनसा दुष्प्रणीततराकृतिः
बध्यते मानवो येन शृणु चान्यच्छुभानने
MBh 13.132.30
अरण्ये विजने न्यस्तं परस्वं वीक्ष्य ये नराः
मनसापि न हिंसन्ति ते नराः स्वर्गगामिनः
MBh 13.132.31
ग्रामे गृहे वा यद्द्रव्यं पारक्यं विजने स्थितम्
नाभिनन्दन्ति वै नित्यं ते नराः स्वर्गगामिनः
MBh 13.132.32
तथैव परदारान्ये कामवृत्तान्रहोगतान्
मनसापि न हिंसन्ति ते नराः स्वर्गगामिनः
MBh 13.132.33
शत्रुं मित्रं च ये नित्यं तुल्येन मनसा नराः
भजन्ति मैत्राः संगम्य ते नराः स्वर्गगामिनः
MBh 13.132.34
श्रुतवन्तो दयावन्तः शुचयः सत्यसंगराः
स्वैरर्थैः परिसंतुष्टास्ते नराः स्वर्गगामिनः
MBh 13.132.35
अवैरा ये त्वनायासा मैत्रचित्तपराः सदा
सर्वभूतदयावन्तस्ते नराः स्वर्गगामिनः
MBh 13.132.36
श्रद्धावन्तो दयावन्तश्चोक्षाश्चोक्षजनप्रियाः
धर्माधर्मविदो नित्यं ते नराः स्वर्गगामिनः
MBh 13.132.37
शुभानामशुभानां च कर्मणां फलसंचये
विपाकज्ञाश्च ये देवि ते नराः स्वर्गगामिनः
MBh 13.132.38
न्यायोपेता गुणोपेता देवद्विजपराः सदा
समतां समनुप्राप्तास्ते नराः स्वर्गगामिनः
MBh 13.132.39
शुभैः कर्मफलैर्देवि मयैते परिकीर्तिताः
स्वर्गमार्गोपगा भूयः किमन्यच्छ्रोतुमिच्छसि
MBh 13.132.40
उमोवाच
महान्मे संशयः कश्चिन्मर्त्यान्प्रति महेश्वर
तस्मात्तं नैपुणेनाद्य ममाख्यातुं त्वमर्हसि
MBh 13.132.41
केनायुर्लभते दीर्घं कर्मणा पुरुषः प्रभो
तपसा वापि देवेश केनायुर्लभते महत्
MBh 13.132.42
क्षीणायुः केन भवति कर्मणा भुवि मानवः
विपाकं कर्मणां देव वक्तुमर्हस्यनिन्दित
MBh 13.132.43
अपरे च महाभोगा मन्दभोगास्तथापरे
अकुलीनास्तथा चान्ये कुलीनाश्च तथापरे
MBh 13.132.44
दुर्दर्शाः केचिदाभान्ति नराः काष्ठमया इव
प्रियदर्शास्तथा चान्ये दर्शनादेव मानवाः
MBh 13.132.45
दुष्प्रज्ञाः केचिदाभान्ति केचिदाभान्ति पण्डिताः
महाप्रज्ञास्तथैवान्ये ज्ञानविज्ञानदर्शिनः
MBh 13.132.46
अल्पाबाधास्तथा केचिन्महाबाधास्तथापरे
दृश्यन्ते पुरुषा देव तन्मे शंसितुमर्हसि
MBh 13.132.47
महेश्वर उवाच
हन्त तेऽहं प्रवक्ष्यामि देवि कर्मफलोदयम्
मर्त्यलोके नराः सर्वे येन स्वं भुञ्जते फलम्
MBh 13.132.48
प्राणातिपाती यो रौद्रो दण्डहस्तोद्यतस्तथा
नित्यमुद्यतदण्डश्च हन्ति भूतगणान्नरः
MBh 13.132.49
निर्दयः सर्वभूतानां नित्यमुद्वेगकारकः
अपि कीटपिपीलानामशरण्यः सुनिर्घृणः
MBh 13.132.50
एवंभूतो नरो देवि निरयं प्रतिपद्यते
विपरीतस्तु धर्मात्मा रूपवानभिजायते
MBh 13.132.51
निरयं याति हिंसात्मा याति स्वर्गमहिंसकः
यातनां निरये रौद्रां स कृच्छ्रां लभते नरः
MBh 13.132.52
अथ चेन्निरयात्तस्मात्समुत्तरति कर्हिचित्
मानुष्यं लभते चापि हीनायुस्तत्र जायते
MBh 13.132.53
पापेन कर्मणा देवि बद्धो हिंसारतिर्नरः
अप्रियः सर्वभूतानां हीनायुरुपजायते
MBh 13.132.54
यस्तु शुक्लाभिजातीयः प्राणिघातविवर्जकः
निक्षिप्तदण्डो निर्दण्डो न हिनस्ति कदाचन
MBh 13.132.55
न घातयति नो हन्ति घ्नन्तं नैवानुमोदते
सर्वभूतेषु सस्नेहो यथात्मनि तथापरे
MBh 13.132.56
ईदृशः पुरुषोत्कर्षो देवि देवत्वमश्नुते
उपपन्नान्सुखान्भोगानुपाश्नाति मुदा युतः
MBh 13.132.57
अथ चेन्मानुषे लोके कदाचिदुपपद्यते
तत्र दीर्घायुरुत्पन्नः स नरः सुखमेधते
MBh 13.132.58
एवं दीर्घायुषां मार्गः सुवृत्तानां सुकर्मणाम्
प्राणिहिंसाविमोक्षेण ब्रह्मणा समुदीरितः
🪷 The Honest Framing
This chapter belongs to the source-pinned BORI Critical Edition-derived digital witness. Its unique addresses are publicly readable and indexable; this remains a digital-witness claim, not a claim that every Mahābhārata recension agrees word-for-word or that the traditional 100,000-verse extent is represented here.
Navigation
- ← Anuśāsana-Parva chapter-index (154 chapters)
- ← Mahābhārata master-index (all 18 Parvas)
- ← Previous chapter · Anuśāsana-Parva Ch 131
- Next chapter · Anuśāsana-Parva Ch 133 →
Sources and Connected Readings
Continue from these 58 source-pinned Devanāgarī addresses to Anuśāsana-Parva, the Mahābhārata reading map, and any exact Bhagavad-Gītā correspondence.
MBh 13.132local chapter route · Anuśāsana-ParvaAnuśāsana-Parvaparent Parva chapter index/mahabharata18-parva Sanskrit reading index with edition and address notesBhīṣma-ParvaMahābhārata Parva 6 · the Gītā lives in chapters 23-40MBh 6.23Bhagavad-Gītā chapter 1 in its Itihāsa homeMBh 6.40Bhagavad-Gītā chapter 18 in its Itihāsa homeRāmopākhyānaVana-Parva 258 · Vyāsa narrates the Rāma-kathā inside Krishna's epicNārāyaṇīyamŚānti-Parva 335 · Nārāyaṇa/Krishna/Viṣṇu/Vāsudeva unity witness/bhagavad-gitadeep Gītā corpus with translations, commentaries, and verse-level anchorsBG 1.1Dharma-kṣetra opening cross-anchored to MBh 6.23.1BG 18.66Carama-Śloka surrender seal inside the Bhīṣma-Parva arcVyāsa vibhūtiBG 10.37 · Krishna names Vyāsa among munisBG 10.37Vyāsa and Dhanañjaya as Krishna-vibhūti source routeŚB 1.2.11Brahman · Paramātmā · Bhagavān as one advaya-tattvaŚB 1.3.28kṛṣṇas tu bhagavān svayam · Vyāsa corpus source seal/binduDiamond of Darśanas · Itihāsa as one Bindu aperture/philosophyKrishna = Paramaatma = Parabrahman constitutional foundation
🪷 जय व्यास भगवान् 🪷