🪷 Mahābhārata · Anuśāsana-Parva · Chapter 131

The Book of the Final Teaching · Parva 13 · 58 unique Sanskrit addresses · pinned Critical Edition-derived witness

The Devanāgarī Yathārtha · 58 Shlokas

MBh 13.131.1
उमोवाच भगवन्भगनेत्रघ्न पूष्णो दशनपातन दक्षक्रतुहर त्र्यक्ष संशयो मे महानयम्
MBh 13.131.2
चातुर्वर्ण्यं भगवता पूर्वं सृष्टं स्वयंभुवा केन कर्मविपाकेन वैश्यो गच्छति शूद्रताम्
MBh 13.131.3
वैश्यो वा क्षत्रियः केन द्विजो वा क्षत्रियो भवेत् प्रतिलोमः कथं देव शक्यो धर्मो निषेवितुम्
MBh 13.131.4
केन वा कर्मणा विप्रः शूद्रयोनौ प्रजायते क्षत्रियः शूद्रतामेति केन वा कर्मणा विभो
MBh 13.131.5
एतं मे संशयं देव वद भूतपतेऽनघ त्रयो वर्णाः प्रकृत्येह कथं ब्राह्मण्यमाप्नुयुः
MBh 13.131.6
महेश्वर उवाच ब्राह्मण्यं देवि दुष्प्रापं निसर्गाद्ब्राह्मणः शुभे क्षत्रियो वैश्यशूद्रौ वा निसर्गादिति मे मतिः
MBh 13.131.7
कर्मणा दुष्कृतेनेह स्थानाद्भ्रश्यति वै द्विजः ज्येष्ठं वर्णमनुप्राप्य तस्माद्रक्षेत वै द्विजः
MBh 13.131.8
स्थितो ब्राह्मणधर्मेण ब्राह्मण्यमुपजीवति क्षत्रियो वाथ वैश्यो वा ब्रह्मभूयाय गच्छति
MBh 13.131.9
यस्तु विप्रत्वमुत्सृज्य क्षात्रं धर्मं निषेवते ब्राह्मण्यात्स परिभ्रष्टः क्षत्रयोनौ प्रजायते
MBh 13.131.10
वैश्यकर्म च यो विप्रो लोभमोहव्यपाश्रयः ब्राह्मण्यं दुर्लभं प्राप्य करोत्यल्पमतिः सदा
MBh 13.131.11
स द्विजो वैश्यतामेति वैश्यो वा शूद्रतामियात् स्वधर्मात्प्रच्युतो विप्रस्ततः शूद्रत्वमाप्नुते
MBh 13.131.12
तत्रासौ निरयं प्राप्तो वर्णभ्रष्टो बहिष्कृतः ब्रह्मलोकपरिभ्रष्टः शूद्रः समुपजायते
MBh 13.131.13
क्षत्रियो वा महाभागे वैश्यो वा धर्मचारिणि स्वानि कर्माण्यपाहाय शूद्रकर्माणि सेवते
MBh 13.131.14
स्वस्थानात्स परिभ्रष्टो वर्णसंकरतां गतः ब्राह्मणः क्षत्रियो वैश्यः शूद्रत्वं याति तादृशः
MBh 13.131.15
यस्तु शुद्धः स्वधर्मेण ज्ञानविज्ञानवाञ्शुचिः धर्मज्ञो धर्मनिरतः स धर्मफलमश्नुते
MBh 13.131.16
इदं चैवापरं देवि ब्रह्मणा समुदीरितम् अध्यात्मं नैष्ठिकं सद्भिर्धर्मकामैर्निषेव्यते
MBh 13.131.17
उग्रान्नं गर्हितं देवि गणान्नं श्राद्धसूतकम् घुष्टान्नं नैव भोक्तव्यं शूद्रान्नं नैव कर्हिचित्
MBh 13.131.18
शूद्रान्नं गर्हितं देवि देवदेवैर्महात्मभिः पितामहमुखोत्सृष्टं प्रमाणमिति मे मतिः
MBh 13.131.19
शूद्रान्नेनावशेषेण जठरे यो म्रियेत वै आहिताग्निस्तथा यज्वा स शूद्रगतिभाग्भवेत्
MBh 13.131.20
तेन शूद्रान्नशेषेण ब्रह्मस्थानादपाकृतः ब्राह्मणः शूद्रतामेति नास्ति तत्र विचारणा
MBh 13.131.21
यस्यान्नेनावशेषेण जठरे यो म्रियेत वै तां तां योनिं व्रजेद्विप्रो यस्यान्नमुपजीवति
MBh 13.131.22
ब्राह्मणत्वं शुभं प्राप्य दुर्लभं योऽवमन्यते अभोज्यान्नानि चाश्नाति स द्विजत्वात्पतेत वै
MBh 13.131.23
सुरापो ब्रह्महा क्षुद्रश्चौरो भग्नव्रतोऽशुचिः स्वाध्यायवर्जितः पापो लुब्धो नैकृतिकः शठः
MBh 13.131.24
अव्रती वृषलीभर्ता कुण्डाशी सोमविक्रयी निहीनसेवी विप्रो हि पतति ब्रह्मयोनितः
MBh 13.131.25
गुरुतल्पी गुरुद्वेषी गुरुकुत्सारतिश्च यः ब्रह्मद्विट्चापि पतति ब्राह्मणो ब्रह्मयोनितः
MBh 13.131.26
एभिस्तु कर्मभिर्देवि शुभैराचरितैस्तथा शूद्रो ब्राह्मणतां गच्छेद्वैश्यः क्षत्रियतां व्रजेत्
MBh 13.131.27
शूद्रकर्माणि सर्वाणि यथान्यायं यथाविधि शुश्रूषां परिचर्यां च ज्येष्ठे वर्णे प्रयत्नतः कुर्यादविमनाः शूद्रः सततं सत्पथे स्थितः
MBh 13.131.28
दैवतद्विजसत्कर्ता सर्वातिथ्यकृतव्रतः ऋतुकालाभिगामी च नियतो नियताशनः
MBh 13.131.29
चौक्षश्चौक्षजनान्वेषी शेषान्नकृतभोजनः वृथामांसान्यभुञ्जानः शूद्रो वैश्यत्वमृच्छति
MBh 13.131.30
ऋतवागनहंवादी निर्द्वंद्वः शमकोविदः यजते नित्ययज्ञैश्च स्वाध्यायपरमः शुचिः
MBh 13.131.31
दान्तो ब्राह्मणसत्कर्ता सर्ववर्णबुभूषकः गृहस्थव्रतमातिष्ठन्द्विकालकृतभोजनः
MBh 13.131.32
शेषाशी विजिताहारो निष्कामो निरहंवदः अग्निहोत्रमुपासंश्च जुह्वानश्च यथाविधि
MBh 13.131.33
सर्वातिथ्यमुपातिष्ठञ्शेषान्नकृतभोजनः त्रेताग्निमन्त्रविहितो वैश्यो भवति वै यदि स वैश्यः क्षत्रियकुले शुचौ महति जायते
MBh 13.131.34
स वैश्यः क्षत्रियो जातो जन्मप्रभृति संस्कृतः उपनीतो व्रतपरो द्विजो भवति सत्कृतः
MBh 13.131.35
ददाति यजते यज्ञैः संस्कृतैराप्तदक्षिणैः अधीते स्वर्गमन्विच्छंस्त्रेताग्निशरणः सदा
MBh 13.131.36
आर्तहस्तप्रदो नित्यं प्रजा धर्मेण पालयन् सत्यः सत्यानि कुरुते नित्यं यः सुखदर्शनः
MBh 13.131.37
धर्मदण्डो न निर्दण्डो धर्मकार्यानुशासकः यन्त्रितः कार्यकरणे षड्भागकृतलक्षणः
MBh 13.131.38
ग्राम्यधर्मान्न सेवेत स्वच्छन्देनार्थकोविदः ऋतुकाले तु धर्मात्मा पत्नीं सेवेत नित्यदा
MBh 13.131.39
सर्वोपवासी नियतः स्वाध्यायपरमः शुचिः बर्हिष्कान्तरिते नित्यं शयानोऽग्निगृहे सदा
MBh 13.131.40
सर्वातिथ्यं त्रिवर्गस्य कुर्वाणः सुमनाः सदा शूद्राणां चान्नकामानां नित्यं सिद्धमिति ब्रुवन्
MBh 13.131.41
स्वार्थाद्वा यदि वा कामान्न किंचिदुपलक्षयेत् पितृदेवातिथिकृते साधनं कुरुते च यः
MBh 13.131.42
स्ववेश्मनि यथान्यायमुपास्ते भैक्षमेव च त्रिकालमग्निहोत्रं च जुह्वानो वै यथाविधि
MBh 13.131.43
गोब्राह्मणहितार्थाय रणे चाभिमुखो हतः त्रेताग्निमन्त्रपूतं वा समाविश्य द्विजो भवेत्
MBh 13.131.44
ज्ञानविज्ञानसंपन्नः संस्कृतो वेदपारगः विप्रो भवति धर्मात्मा क्षत्रियः स्वेन कर्मणा
MBh 13.131.45
एतैः कर्मफलैर्देवि न्यूनजातिकुलोद्भवः शूद्रोऽप्यागमसंपन्नो द्विजो भवति संस्कृतः
MBh 13.131.46
ब्राह्मणो वाप्यसद्वृत्तः सर्वसंकरभोजनः ब्राह्मण्यं पुण्यमुत्सृज्य शूद्रो भवति तादृशः
MBh 13.131.47
कर्मभिः शुचिभिर्देवि शुद्धात्मा विजितेन्द्रियः शूद्रोऽपि द्विजवत्सेव्य इति ब्रह्माब्रवीत्स्वयम्
MBh 13.131.48
स्वभावकर्म च शुभं यत्र शूद्रेऽपि तिष्ठति विशुद्धः स द्विजातिर्वै विज्ञेय इति मे मतिः
MBh 13.131.49
न योनिर्नापि संस्कारो न श्रुतं न च संनतिः कारणानि द्विजत्वस्य वृत्तमेव तु कारणम्
MBh 13.131.50
सर्वोऽयं ब्राह्मणो लोके वृत्तेन तु विधीयते वृत्ते स्थितश्च सुश्रोणि ब्राह्मणत्वं निगच्छति
MBh 13.131.51
ब्राह्मः स्वभावः कल्याणि समः सर्वत्र मे मतिः निर्गुणं निर्मलं ब्रह्म यत्र तिष्ठति स द्विजः
MBh 13.131.52
एते योनिफला देवि स्थानभागनिदर्शकाः स्वयं च वरदेनोक्ता ब्रह्मणा सृजता प्रजाः
MBh 13.131.53
ब्राह्मणो हि महत्क्षेत्रं लोके चरति पादवत् यत्तत्र बीजं वपति सा कृषिः पारलौकिकी
MBh 13.131.54
मिताशिना सदा भाव्यं सत्पथालम्बिना सदा ब्राह्ममार्गमतिक्रम्य वर्तितव्यं बुभूषता
MBh 13.131.55
संहिताध्यायिना भाव्यं गृहे वै गृहमेधिना नित्यं स्वाध्याययुक्तेन दानाध्ययनजीविना
MBh 13.131.56
एवंभूतो हि यो विप्रः सततं सत्पथे स्थितः आहिताग्निरधीयानो ब्रह्मभूयाय कल्पते
MBh 13.131.57
ब्राह्मण्यमेव संप्राप्य रक्षितव्यं यतात्मभिः योनिप्रतिग्रहादानैः कर्मभिश्च शुचिस्मिते
MBh 13.131.58
एतत्ते सर्वमाख्यातं यथा शूद्रो भवेद्द्विजः ब्राह्मणो वा च्युतो धर्माद्यथा शूद्रत्वमाप्नुते

🪷 The Honest Framing

This chapter belongs to the source-pinned BORI Critical Edition-derived digital witness. Its unique addresses are publicly readable and indexable; this remains a digital-witness claim, not a claim that every Mahābhārata recension agrees word-for-word or that the traditional 100,000-verse extent is represented here.

Navigation

Sources and Connected Readings

Continue from these 58 source-pinned Devanāgarī addresses to Anuśāsana-Parva, the Mahābhārata reading map, and any exact Bhagavad-Gītā correspondence.

MBh 13.131local chapter route · Anuśāsana-ParvaAnuśāsana-Parvaparent Parva chapter index/mahabharata18-parva Sanskrit reading index with edition and address notesBhīṣma-ParvaMahābhārata Parva 6 · the Gītā lives in chapters 23-40MBh 6.23Bhagavad-Gītā chapter 1 in its Itihāsa homeMBh 6.40Bhagavad-Gītā chapter 18 in its Itihāsa homeRāmopākhyānaVana-Parva 258 · Vyāsa narrates the Rāma-kathā inside Krishna's epicNārāyaṇīyamŚānti-Parva 335 · Nārāyaṇa/Krishna/Viṣṇu/Vāsudeva unity witness/bhagavad-gitadeep Gītā corpus with translations, commentaries, and verse-level anchorsBG 1.1Dharma-kṣetra opening cross-anchored to MBh 6.23.1BG 18.66Carama-Śloka surrender seal inside the Bhīṣma-Parva arcVyāsa vibhūtiBG 10.37 · Krishna names Vyāsa among munisBG 10.37Vyāsa and Dhanañjaya as Krishna-vibhūti source routeŚB 1.2.11Brahman · Paramātmā · Bhagavān as one advaya-tattvaŚB 1.3.28kṛṣṇas tu bhagavān svayam · Vyāsa corpus source seal/binduDiamond of Darśanas · Itihāsa as one Bindu aperture/philosophyKrishna = Paramaatma = Parabrahman constitutional foundation

🪷 जय व्यास भगवान् 🪷