🪷 Mahābhārata · Anuśāsana-Parva · Chapter 130
The Book of the Final Teaching · Parva 13 · 57 unique Sanskrit addresses · pinned Critical Edition-derived witness
The Devanāgarī Yathārtha · 57 Shlokas
MBh 13.130.1
उमोवाच
देशेषु रमणीयेषु गिरीणां निर्झरेषु च
स्रवन्तीनां च कुञ्जेषु पर्वतोपवनेषु च
MBh 13.130.2
देशेषु च विचित्रेषु फलवत्सु समाहिताः
मूलवत्सु च देशेषु वसन्ति नियतव्रताः
MBh 13.130.3
तेषामपि विधिं पुण्यं श्रोतुमिच्छामि शंकर
वानप्रस्थेषु देवेश स्वशरीरोपजीविषु
MBh 13.130.4
महेश्वर उवाच
वानप्रस्थेषु यो धर्मस्तं मे शृणु समाहिता
श्रुत्वा चैकमना देवि धर्मबुद्धिपरा भव
MBh 13.130.5
संसिद्धैर्नियतैः सद्भिर्वनवासमुपागतैः
वानप्रस्थैरिदं कर्म कर्तव्यं शृणु यादृशम्
MBh 13.130.6
त्रिकालमभिषेकार्थः पितृदेवार्चनं क्रिया
अग्निहोत्रपरिस्पन्द इष्टिहोमविधिस्तथा
MBh 13.130.7
नीवारग्रहणं चैव फलमूलनिषेवणम्
इङ्गुदैरण्डतैलानां स्नेहार्थं च निषेवणम्
MBh 13.130.8
योगचर्याकृतैः सिद्धैः कामक्रोधविवर्जनम्
वीरशय्यामुपासद्भिर्वीरस्थानोपसेविभिः
MBh 13.130.9
युक्तैर्योगवहैः सद्भिर्ग्रीष्मे पञ्चतपैस्तथा
मण्डूकयोगनियतैर्यथान्यायनिषेविभिः
MBh 13.130.10
वीरासनगतैर्नित्यं स्थण्डिले शयनैस्तथा
शीतयोगोऽग्नियोगश्च चर्तव्यो धर्मबुद्धिभिः
MBh 13.130.11
अब्भक्षैर्वायुभक्षैश्च शैवालोत्तरभोजनैः
अश्मकुट्टैस्तथा दान्तैः संप्रक्षालैस्तथापरैः
MBh 13.130.12
चीरवल्कलसंवीतैर्मृगचर्मनिवासिभिः
कार्या यात्रा यथाकालं यथाधर्मं यथाविधि
MBh 13.130.13
वननित्यैर्वनचरैर्वनपैर्वनगोचरैः
वनं गुरुमिवासाद्य वस्तव्यं वनजीविभिः
MBh 13.130.14
तेषां होमक्रिया धर्मः पञ्चयज्ञनिषेवणम्
नागपञ्चमयज्ञस्य वेदोक्तस्यानुपालनम्
MBh 13.130.15
अष्टमीयज्ञपरता चातुर्मास्यनिषेवणम्
पौर्णमास्यां तु यो यज्ञो नित्ययज्ञस्तथैव च
MBh 13.130.16
विमुक्ता दारसंयोगैर्विमुक्ताः सर्वसंकरैः
विमुक्ताः सर्वपापैश्च चरन्ति मुनयो वने
MBh 13.130.17
स्रुग्भाण्डपरमा नित्यं त्रेताग्निशरणाः सदा
सन्तः सत्पथनित्या ये ते यान्ति परमां गतिम्
MBh 13.130.18
ब्रह्मलोकं महापुण्यं सोमलोकं च शाश्वतम्
गच्छन्ति मुनयः सिद्धा ऋषिधर्मव्यपाश्रयात्
MBh 13.130.19
एष धर्मो मया देवि वानप्रस्थाश्रितः शुभः
विस्तरेणार्थसंपन्नो यथास्थूलमुदाहृतः
MBh 13.130.20
उमोवाच
भगवन्देवदेवेश सर्वभूतनमस्कृत
यो धर्मो मुनिसंघस्य सिद्धिवादेषु तं वद
MBh 13.130.21
सिद्धिवादेषु संसिद्धास्तथा वननिवासिनः
स्वैरिणो दारसंयुक्तास्तेषां धर्मः कथं स्मृतः
MBh 13.130.22
महेश्वर उवाच
स्वैरिणस्तापसा देवि सर्वे दारविहारिणः
तेषां मौण्ड्यं कषायश्च वासरात्रिश्च कारणम्
MBh 13.130.23
त्रिकालमभिषेकश्च होत्रं त्वृषिकृतं महत्
समाधिः सत्पथस्थानं यथोदितनिषेवणम्
MBh 13.130.24
ये च ते पूर्वकथिता धर्मा वननिवासिनाम्
यदि सेवन्ति धर्मांस्तानाप्नुवन्ति तपःफलम्
MBh 13.130.25
ये च दंपतिधर्माणः स्वदारनियतेन्द्रियाः
चरन्ति विधिदृष्टं तदृतुकालाभिगामिनः
MBh 13.130.26
तेषामृषिकृतो धर्मो धर्मिणामुपपद्यते
न कामकारात्कामोऽन्यः संसेव्यो धर्मदर्शिभिः
MBh 13.130.27
सर्वभूतेषु यः सम्यग्ददात्यभयदक्षिणाम्
हिंसारोषविमुक्तात्मा स वै धर्मेण युज्यते
MBh 13.130.28
सर्वभूतानुकम्पी यः सर्वभूतार्जवव्रतः
सर्वभूतात्मभूतश्च स वै धर्मेण युज्यते
MBh 13.130.29
सर्ववेदेषु वा स्नानं सर्वभूतेषु चार्जवम्
उभे एते समे स्यातामार्जवं वा विशिष्यते
MBh 13.130.30
आर्जवं धर्म इत्याहुरधर्मो जिह्म उच्यते
आर्जवेनेह संयुक्तो नरो धर्मेण युज्यते
MBh 13.130.31
आर्जवो भुवने नित्यं वसत्यमरसंनिधौ
तस्मादार्जवनित्यः स्याद्य इच्छेद्धर्ममात्मनः
MBh 13.130.32
क्षान्तो दान्तो जितक्रोधो धर्मभूतोऽविहिंसकः
धर्मे रतमना नित्यं नरो धर्मेण युज्यते
MBh 13.130.33
व्यपेततन्द्रो धर्मात्मा शक्या सत्पथमाश्रितः
चारित्रपरमो बुद्धो ब्रह्मभूयाय कल्पते
MBh 13.130.34
उमोवाच
आश्रमाभिरता देव तापसा ये तपोधनाः
दीप्तिमन्तः कया चैव चर्ययाथ भवन्ति ते
MBh 13.130.35
राजानो राजपुत्राश्च निर्धना वा महाधनाः
कर्मणा केन भगवन्प्राप्नुवन्ति महाफलम्
MBh 13.130.36
नित्यं स्थानमुपागम्य दिव्यचन्दनरूषिताः
केन वा कर्मणा देव भवन्ति वनगोचराः
MBh 13.130.37
एतं मे संशयं देव तपश्चर्यागतं शुभम्
शंस सर्वमशेषेण त्र्यक्ष त्रिपुरनाशन
MBh 13.130.38
महेश्वर उवाच
उपवासव्रतैर्दान्ता अहिंस्राः सत्यवादिनः
संसिद्धाः प्रेत्य गन्धर्वैः सह मोदन्त्यनामयाः
MBh 13.130.39
मण्डूकयोगशयनो यथास्थानं यथाविधि
दीक्षां चरति धर्मात्मा स नागैः सह मोदते
MBh 13.130.40
शष्पं मृगमुखोत्सृष्टं यो मृगैः सह सेवते
दीक्षितो वै मुदा युक्तः स गच्छत्यमरावतीम्
MBh 13.130.41
शैवालं शीर्णपर्णं वा तद्व्रतो यो निषेवते
शीतयोगवहो नित्यं स गच्छेत्परमां गतिम्
MBh 13.130.42
वायुभक्षोऽम्बुभक्षो वा फलमूलाशनोऽपि वा
यक्षेष्वैश्वर्यमाधाय मोदतेऽप्सरसां गणैः
MBh 13.130.43
अग्नियोगवहो ग्रीष्मे विधिदृष्टेन कर्मणा
चीर्त्वा द्वादश वर्षाणि राजा भवति पार्थिवः
MBh 13.130.44
आहारनियमं कृत्वा मुनिर्द्वादशवार्षिकम्
मरुं संसाध्य यत्नेन राजा भवति पार्थिवः
MBh 13.130.45
स्थण्डिले शुद्धमाकाशं परिगृह्य समन्ततः
प्रविश्य च मुदा युक्तो दीक्षां द्वादशवार्षिकीम्
MBh 13.130.46
स्थण्डिलस्य फलान्याहुर्यानानि शयनानि च
गृहाणि च महार्हाणि चन्द्रशुभ्राणि भामिनि
MBh 13.130.47
आत्मानमुपजीवन्यो नियतो नियताशनः
देहं वानशने त्यक्त्वा स स्वर्गं समुपाश्नुते
MBh 13.130.48
आत्मानमुपजीवन्यो दीक्षां द्वादशवार्षिकीम्
त्यक्त्वा महार्णवे देहं वारुणं लोकमश्नुते
MBh 13.130.49
आत्मानमुपजीवन्यो दीक्षां द्वादशवार्षिकीम्
अश्मना चरणौ भित्त्वा गुह्यकेषु स मोदते
MBh 13.130.50
साधयित्वात्मनात्मानं निर्द्वंद्वो निष्परिग्रहः
चीर्त्वा द्वादश वर्षाणि दीक्षामेकां मनोगताम्
स्वर्गलोकमवाप्नोति देवैश्च सह मोदते
MBh 13.130.51
आत्मानमुपजीवन्यो दीक्षां द्वादशवार्षिकीम्
हुत्वाग्नौ देहमुत्सृज्य वह्निलोके महीयते
MBh 13.130.52
यस्तु देवि यथान्यायं दीक्षितो नियतो द्विजः
आत्मन्यात्मानमाधाय निर्द्वंद्वो निष्परिग्रहः
MBh 13.130.53
चीर्त्वा द्वादश वर्षाणि दीक्षामेकां मनोगताम्
अरणीसहितं स्कन्धे बद्ध्वा गच्छत्यनावृतः
MBh 13.130.54
वीराध्वानमना नित्यं वीरासनरतस्तथा
वीरस्थायी च सततं स वीरगतिमाप्नुयात्
MBh 13.130.55
स शक्रलोकगो नित्यं सर्वकामपुरस्कृतः
दिव्यपुष्पसमाकीर्णो दिव्यचन्दनभूषितः
सुखं वसति धर्मात्मा दिवि देवगणैः सह
MBh 13.130.56
वीरलोकगतो वीरो वीरयोगवहः सदा
सत्त्वस्थः सर्वमुत्सृज्य दीक्षितो नियतः शुचिः
वीराध्वानं प्रपद्येद्यस्तस्य लोकाः सनातनाः
MBh 13.130.57
कामगेन विमानेन स वै चरति च्छन्दतः
शक्रलोकगतः श्रीमान्मोदते च निरामयः
🪷 The Honest Framing
This chapter belongs to the source-pinned BORI Critical Edition-derived digital witness. Its unique addresses are publicly readable and indexable; this remains a digital-witness claim, not a claim that every Mahābhārata recension agrees word-for-word or that the traditional 100,000-verse extent is represented here.
Navigation
- ← Anuśāsana-Parva chapter-index (154 chapters)
- ← Mahābhārata master-index (all 18 Parvas)
- ← Previous chapter · Anuśāsana-Parva Ch 129
- Next chapter · Anuśāsana-Parva Ch 131 →
Sources and Connected Readings
Continue from these 57 source-pinned Devanāgarī addresses to Anuśāsana-Parva, the Mahābhārata reading map, and any exact Bhagavad-Gītā correspondence.
MBh 13.130local chapter route · Anuśāsana-ParvaAnuśāsana-Parvaparent Parva chapter index/mahabharata18-parva Sanskrit reading index with edition and address notesBhīṣma-ParvaMahābhārata Parva 6 · the Gītā lives in chapters 23-40MBh 6.23Bhagavad-Gītā chapter 1 in its Itihāsa homeMBh 6.40Bhagavad-Gītā chapter 18 in its Itihāsa homeRāmopākhyānaVana-Parva 258 · Vyāsa narrates the Rāma-kathā inside Krishna's epicNārāyaṇīyamŚānti-Parva 335 · Nārāyaṇa/Krishna/Viṣṇu/Vāsudeva unity witness/bhagavad-gitadeep Gītā corpus with translations, commentaries, and verse-level anchorsBG 1.1Dharma-kṣetra opening cross-anchored to MBh 6.23.1BG 18.66Carama-Śloka surrender seal inside the Bhīṣma-Parva arcVyāsa vibhūtiBG 10.37 · Krishna names Vyāsa among munisBG 10.37Vyāsa and Dhanañjaya as Krishna-vibhūti source routeŚB 1.2.11Brahman · Paramātmā · Bhagavān as one advaya-tattvaŚB 1.3.28kṛṣṇas tu bhagavān svayam · Vyāsa corpus source seal/binduDiamond of Darśanas · Itihāsa as one Bindu aperture/philosophyKrishna = Paramaatma = Parabrahman constitutional foundation
🪷 जय व्यास भगवान् 🪷