🪷 Mahābhārata · Anuśāsana-Parva · Chapter 129
The Book of the Final Teaching · Parva 13 · 55 unique Sanskrit addresses · pinned Critical Edition-derived witness
The Devanāgarī Yathārtha · 55 Shlokas
MBh 13.129.1
उमोवाच
उक्तास्त्वया पृथग्धर्माश्चातुर्वर्ण्यहिताः शुभाः
सर्वव्यापी तु यो धर्मो भगवंस्तं ब्रवीहि मे
MBh 13.129.2
महेश्वर उवाच
ब्राह्मणा लोकसारेण सृष्टा धात्रा गुणार्थिना
लोकांस्तारयितुं कृत्स्नान्मर्त्येषु क्षितिदेवताः
MBh 13.129.3
तेषामिमं प्रवक्ष्यामि धर्मकर्मफलोदयम्
ब्राह्मणेषु हि यो धर्मः स धर्मः परमो मतः
MBh 13.129.4
इमे तु लोकधर्मार्थं त्रयः सृष्टाः स्वयंभुवा
पृथिव्याः सर्जने नित्यं सृष्टास्तानपि मे शृणु
MBh 13.129.5
वेदोक्तः परमो धर्मः स्मृतिशास्त्रगतोऽपरः
शिष्टाचीर्णः परः प्रोक्तस्त्रयो धर्माः सनातनाः
MBh 13.129.6
त्रैविद्यो ब्राह्मणो विद्वान्न चाध्ययनजीवनः
त्रिकर्मा त्रिपरिक्रान्तो मैत्र एष स्मृतो द्विजः
MBh 13.129.7
षडिमानि तु कर्माणि प्रोवाच भुवनेश्वरः
वृत्त्यर्थं ब्राह्मणानां वै शृणु तानि समाहिता
MBh 13.129.8
यजनं याजनं चैव तथा दानप्रतिग्रहौ
अध्यापनमधीतं च षट्कर्मा धर्मभाग्द्विजः
MBh 13.129.9
नित्यस्वाध्यायता धर्मो धर्मो यज्ञः सनातनः
दानं प्रशस्यते चास्य यथाशक्ति यथाविधि
MBh 13.129.10
अयं तु परमो धर्मः प्रवृत्तः सत्सु नित्यशः
गृहस्थता विशुद्धानां धर्मस्य निचयो महान्
MBh 13.129.11
पञ्चयज्ञविशुद्धात्मा सत्यवागनसूयकः
दाता ब्राह्मणसत्कर्ता सुसंमृष्टनिवेशनः
MBh 13.129.12
अमानी च सदाजिह्मः स्निग्धवाणीप्रदस्तथा
अतिथ्यभ्यागतरतिः शेषान्नकृतभोजनः
MBh 13.129.13
पाद्यमर्घ्यं यथान्यायमासनं शयनं तथा
दीपं प्रतिश्रयं चापि यो ददाति स धार्मिकः
MBh 13.129.14
प्रातरुत्थाय चाचम्य भोजनेनोपमन्त्र्य च
सत्कृत्यानुव्रजेद्यश्च तस्य धर्मः सनातनः
MBh 13.129.15
सर्वातिथ्यं त्रिवर्गस्य यथाशक्ति दिवानिशम्
शूद्रधर्मः समाख्यातस्त्रिवर्णपरिचारणम्
MBh 13.129.16
प्रवृत्तिलक्षणो धर्मो गृहस्थेषु विधीयते
तमहं कीर्तयिष्यामि सर्वभूतहितं शुभम्
MBh 13.129.17
दातव्यमसकृच्छक्त्या यष्टव्यमसकृत्तथा
पुष्टिकर्मविधानं च कर्तव्यं भूतिमिच्छता
MBh 13.129.18
धर्मेणार्थः समाहार्यो धर्मलब्धं त्रिधा धनम्
कर्तव्यं धर्मपरमं मानवेन प्रयत्नतः
MBh 13.129.19
एकेनांशेन धर्मार्थश्चर्तव्यो भूतिमिच्छता
एकेनांशेन कामार्थ एकमंशं विवर्धयेत्
MBh 13.129.20
निवृत्तिलक्षणस्त्वन्यो धर्मो मोक्ष इति स्मृतः
तस्य वृत्तिं प्रवक्ष्यामि शृणु मे देवि तत्त्वतः
MBh 13.129.21
सर्वभूतदया धर्मो न चैकग्रामवासिता
आशापाशविमोक्षश्च शस्यते मोक्षकाङ्क्षिणाम्
MBh 13.129.22
न कुण्ड्यां नोदके सङ्गो न वाससि न चासने
न त्रिदण्डे न शयने नाग्नौ न शरणालये
MBh 13.129.23
अध्यात्मगतचित्तो यस्तन्मनास्तत्परायणः
युक्तो योगं प्रति सदा प्रतिसंख्यानमेव च
MBh 13.129.24
वृक्षमूलशयो नित्यं शून्यागारनिवेशनः
नदीपुलिनशायी च नदीतीररतिश्च यः
MBh 13.129.25
विमुक्तः सर्वसङ्गेषु स्नेहबन्धेषु च द्विजः
आत्मन्येवात्मनो भावं समासज्याटति द्विजः
MBh 13.129.26
स्थाणुभूतो निराहारो मोक्षदृष्टेन कर्मणा
परिव्रजति यो युक्तस्तस्य धर्मः सनातनः
MBh 13.129.27
न चैकत्र चिरासक्तो न चैकग्रामगोचरः
युक्तो ह्यटति निर्मुक्तो न चैकपुलिनेशयः
MBh 13.129.28
एष मोक्षविदां धर्मो वेदोक्तः सत्पथः सताम्
यो मार्गमनुयातीमं पदं तस्य न विद्यते
MBh 13.129.29
चतुर्विधा भिक्षवस्ते कुटीचरकृतोदकः
हंसः परमहंसश्च यो यः पश्चात्स उत्तमः
MBh 13.129.30
अतः परतरं नास्ति नाधरं न तिरोऽग्रतः
अदुःखमसुखं सौम्यमजरामरमव्ययम्
MBh 13.129.31
उमोवाच
गार्हस्थ्यो मोक्षधर्मश्च सज्जनाचरितस्त्वया
भाषितो मर्त्यलोकस्य मार्गः श्रेयस्करो महान्
MBh 13.129.32
ऋषिधर्मं तु धर्मज्ञ श्रोतुमिच्छाम्यनुत्तमम्
स्पृहा भवति मे नित्यं तपोवननिवासिषु
MBh 13.129.33
आज्यधूमोद्भवो गन्धो रुणद्धीव तपोवनम्
तं दृष्ट्वा मे मनः प्रीतं महेश्वर सदा भवेत्
MBh 13.129.34
एतं मे संशयं देव मुनिधर्मकृतं विभो
सर्वधर्मार्थतत्त्वज्ञ देवदेव वदस्व मे
निखिलेन मया पृष्टं महादेव यथातथम्
MBh 13.129.35
महेश्वर उवाच
हन्त तेऽहं प्रवक्ष्यामि मुनिधर्ममनुत्तमम्
यं कृत्वा मुनयो यान्ति सिद्धिं स्वतपसा शुभे
MBh 13.129.36
फेनपानामृषीणां यो धर्मो धर्मविदां सदा
तं मे शृणु महाभागे धर्मज्ञे धर्ममादितः
MBh 13.129.37
उञ्छन्ति सततं तस्मिन्ब्राह्मं फेनोत्करं शुभम्
अमृतं ब्रह्मणा पीतं मधुरं प्रसृतं दिवि
MBh 13.129.38
एष तेषां विशुद्धानां फेनपानां तपोधने
धर्मचर्याकृतो मार्गो वालखिल्यगणे शृणु
MBh 13.129.39
वालखिल्यास्तपःसिद्धा मुनयः सूर्यमण्डले
उञ्छमुञ्छन्ति धर्मज्ञाः शाकुनीं वृत्तिमास्थिताः
MBh 13.129.40
मृगनिर्मोकवसनाश्चीरवल्कलवाससः
निर्द्वंद्वाः सत्पथं प्राप्ता वालखिल्यास्तपोधनाः
MBh 13.129.41
अङ्गुष्ठपर्वमात्रास्ते स्वेष्वङ्गेषु व्यवस्थिताः
तपश्चरणमीहन्ते तेषां धर्मफलं महत्
MBh 13.129.42
ते सुरैः समतां यान्ति सुरकार्यार्थसिद्धये
द्योतयन्तो दिशः सर्वास्तपसा दग्धकिल्बिषाः
MBh 13.129.43
ये त्वन्ये शुद्धमनसो दयाधर्मपरायणाः
सन्तश्चक्रचराः पुण्याः सोमलोकचराश्च ये
MBh 13.129.44
पितृलोकसमीपस्थास्त उञ्छन्ति यथाविधि
संप्रक्षालाश्मकुट्टाश्च दन्तोलूखलिनस्तथा
MBh 13.129.45
सोमपानां च देवानामूष्मपाणां तथैव च
उञ्छन्ति ये समीपस्थाः स्वभावनियतेन्द्रियाः
MBh 13.129.46
तेषामग्निपरिष्यन्दः पितृदेवार्चनं तथा
यज्ञानां चापि पञ्चानां यजनं धर्म उच्यते
MBh 13.129.47
एष चक्रचरैर्देवि देवलोकचरैर्द्विजैः
ऋषिधर्मः सदा चीर्णो योऽन्यस्तमपि मे शृणु
MBh 13.129.48
सर्वेष्वेवर्षिधर्मेषु जेय आत्मा जितेन्द्रियः
कामक्रोधौ ततः पश्चाज्जेतव्याविति मे मतिः
MBh 13.129.49
अग्निहोत्रपरिस्पन्दो धर्मरात्रिसमासनम्
सोमयज्ञाभ्यनुज्ञानं पञ्चमी यज्ञदक्षिणा
MBh 13.129.50
नित्यं यज्ञक्रिया धर्मः पितृदेवार्चने रतिः
सर्वातिथ्यं च कर्तव्यमन्नेनोञ्छार्जितेन वै
MBh 13.129.51
निवृत्तिरुपभोगस्य गोरसानां च वै रतिः
स्थण्डिले शयनं योगः शाकपर्णनिषेवणम्
MBh 13.129.52
फलमूलाशनं वायुरापः शैवलभक्षणम्
ऋषीणां नियमा ह्येते यैर्जयन्त्यजितां गतिम्
MBh 13.129.53
विधूमे न्यस्तमुसले व्यङ्गारे भुक्तवज्जने
अतीतपात्रसंचारे काले विगतभैक्षके
MBh 13.129.54
अतिथिं काङ्क्षमाणो वै शेषान्नकृतभोजनः
सत्यधर्मरतिः क्षान्तो मुनिधर्मेण युज्यते
MBh 13.129.55
न स्तम्भी न च मानी यो न प्रमत्तो न विस्मितः
मित्रामित्रसमो मैत्रो यः स धर्मविदुत्तमः
🪷 The Honest Framing
This chapter belongs to the source-pinned BORI Critical Edition-derived digital witness. Its unique addresses are publicly readable and indexable; this remains a digital-witness claim, not a claim that every Mahābhārata recension agrees word-for-word or that the traditional 100,000-verse extent is represented here.
Navigation
- ← Anuśāsana-Parva chapter-index (154 chapters)
- ← Mahābhārata master-index (all 18 Parvas)
- ← Previous chapter · Anuśāsana-Parva Ch 128
- Next chapter · Anuśāsana-Parva Ch 130 →
Sources and Connected Readings
Continue from these 55 source-pinned Devanāgarī addresses to Anuśāsana-Parva, the Mahābhārata reading map, and any exact Bhagavad-Gītā correspondence.
MBh 13.129local chapter route · Anuśāsana-ParvaAnuśāsana-Parvaparent Parva chapter index/mahabharata18-parva Sanskrit reading index with edition and address notesBhīṣma-ParvaMahābhārata Parva 6 · the Gītā lives in chapters 23-40MBh 6.23Bhagavad-Gītā chapter 1 in its Itihāsa homeMBh 6.40Bhagavad-Gītā chapter 18 in its Itihāsa homeRāmopākhyānaVana-Parva 258 · Vyāsa narrates the Rāma-kathā inside Krishna's epicNārāyaṇīyamŚānti-Parva 335 · Nārāyaṇa/Krishna/Viṣṇu/Vāsudeva unity witness/bhagavad-gitadeep Gītā corpus with translations, commentaries, and verse-level anchorsBG 1.1Dharma-kṣetra opening cross-anchored to MBh 6.23.1BG 18.66Carama-Śloka surrender seal inside the Bhīṣma-Parva arcVyāsa vibhūtiBG 10.37 · Krishna names Vyāsa among munisBG 10.37Vyāsa and Dhanañjaya as Krishna-vibhūti source routeŚB 1.2.11Brahman · Paramātmā · Bhagavān as one advaya-tattvaŚB 1.3.28kṛṣṇas tu bhagavān svayam · Vyāsa corpus source seal/binduDiamond of Darśanas · Itihāsa as one Bindu aperture/philosophyKrishna = Paramaatma = Parabrahman constitutional foundation
🪷 जय व्यास भगवान् 🪷