🪷 Mahābhārata · Anuśāsana-Parva · Chapter 128

The Book of the Final Teaching · Parva 13 · 59 unique Sanskrit addresses · pinned Critical Edition-derived witness

The Devanāgarī Yathārtha · 59 Shlokas

MBh 13.128.1
महेश्वर उवाच तिलोत्तमा नाम पुरा ब्रह्मणा योषिदुत्तमा तिलं तिलं समुद्धृत्य रत्नानां निर्मिता शुभा
MBh 13.128.2
साभ्यगच्छत मां देवि रूपेणाप्रतिमा भुवि प्रदक्षिणं लोभयन्ती मां शुभे रुचिरानना
MBh 13.128.3
यतो यतः सा सुदती मामुपाधावदन्तिके ततस्ततो मुखं चारु मम देवि विनिर्गतम्
MBh 13.128.4
तां दिदृक्षुरहं योगाच्चतुर्मूर्तित्वमागतः चतुर्मुखश्च संवृत्तो दर्शयन्योगमात्मनः
MBh 13.128.5
पूर्वेण वदनेनाहमिन्द्रत्वमनुशास्मि ह उत्तरेण त्वया सार्धं रमाम्यहमनिन्दिते
MBh 13.128.6
पश्चिमं मे मुखं सौम्यं सर्वप्राणिसुखावहम् दक्षिणं भीमसंकाशं रौद्रं संहरति प्रजाः
MBh 13.128.7
जटिलो ब्रह्मचारी च लोकानां हितकाम्यया देवकार्यार्थसिद्ध्यर्थं पिनाकं मे करे स्थितम्
MBh 13.128.8
इन्द्रेण च पुरा वज्रं क्षिप्तं श्रीकाङ्क्षिणा मम दग्ध्वा कण्ठं तु तद्यातं तेन श्रीकण्ठता मम
MBh 13.128.9
उमोवाच वाहनेषु प्रभूतेषु श्रीमत्स्वन्येषु सत्सु ते कथं गोवृषभो देव वाहनत्वमुपागतः
MBh 13.128.10
महेश्वर उवाच सुरभीं ससृजे ब्रह्मामृतधेनुं पयोमुचम् सा सृष्टा बहुधा जाता क्षरमाणा पयोऽमृतम्
MBh 13.128.11
तस्या वत्समुखोत्सृष्टः फेनो मद्गात्रमागतः ततो दग्धा मया गावो नानावर्णत्वमागताः
MBh 13.128.12
ततोऽहं लोकगुरुणा शमं नीतोऽर्थवेदिना वृषं चेमं ध्वजार्थं मे ददौ वाहनमेव च
MBh 13.128.13
उमोवाच निवासा बहुरूपास्ते विश्वरूपगुणान्विताः तांश्च संत्यज्य भगवञ्श्मशाने रमसे कथम्
MBh 13.128.14
केशास्थिकलिले भीमे कपालघटसंकुले गृध्रगोमायुकलिले चिताग्निशतसंकुले
MBh 13.128.15
अशुचौ मांसकलिले वसाशोणितकर्दमे विनिकीर्णामिषचये शिवानादविनादिते
MBh 13.128.16
महेश्वर उवाच मेध्यान्वेषी महीं कृत्स्नां विचरामि निशास्वहम् न च मेध्यतरं किंचिच्छ्मशानादिह विद्यते
MBh 13.128.17
तेन मे सर्ववासानां श्मशाने रमते मनः न्यग्रोधशाखासंछन्ने निर्भुक्तस्रग्विभूषिते
MBh 13.128.18
तत्र चैव रमन्ते मे भूतसंघाः शुभानने न च भूतगणैर्देवि विनाहं वस्तुमुत्सहे
MBh 13.128.19
एष वासो हि मे मेध्यः स्वर्गीयश्च मतो हि मे पुण्यः परमकश्चैव मेध्यकामैरुपास्यते
MBh 13.128.20
उमोवाच भगवन्सर्वभूतेश सर्वधर्मभृतां वर पिनाकपाणे वरद संशयो मे महानयम्
MBh 13.128.21
अयं मुनिगणः सर्वस्तपस्तप इति प्रभो तपोन्वेषकरो लोके भ्रमते विविधाकृतिः
MBh 13.128.22
अस्य चैवर्षिसंघस्य मम च प्रियकाम्यया एतं ममेह संदेहं वक्तुमर्हस्यरिंदम
MBh 13.128.23
धर्मः किंलक्षणः प्रोक्तः कथं वाचरितुं नरैः शक्यो धर्ममविन्दद्भिर्धर्मज्ञ वद मे प्रभो
MBh 13.128.24
नारद उवाच ततो मुनिगणः सर्वस्तां देवीं प्रत्यपूजयत् वाग्भिरृग्भूषितार्थाभिः स्तवैश्चार्थविदां वर
MBh 13.128.25
महेश्वर उवाच अहिंसा सत्यवचनं सर्वभूतानुकम्पनम् शमो दानं यथाशक्ति गार्हस्थ्यो धर्म उत्तमः
MBh 13.128.26
परदारेष्वसंकल्पो न्यासस्त्रीपरिरक्षणम् अदत्तादानविरमो मधुमांसस्य वर्जनम्
MBh 13.128.27
एष पञ्चविधो धर्मो बहुशाखः सुखोदयः देहिभिर्धर्मपरमैः कर्तव्यो धर्मसंचयः
MBh 13.128.28
उमोवाच भगवन्संशयं पृष्टस्तं मे व्याख्यातुमर्हसि चातुर्वर्ण्यस्य यो धर्मः स्वे स्वे वर्णे गुणावहः
MBh 13.128.29
ब्राह्मणे कीदृशो धर्मः क्षत्रिये कीदृशो भवेत् वैश्ये किंलक्षणो धर्मः शूद्रे किंलक्षणो भवेत्
MBh 13.128.30
महेश्वर उवाच न्यायतस्ते महाभागे संशयः समुदीरितः भूमिदेवा महाभागाः सदा लोके द्विजातयः
MBh 13.128.31
उपवासः सदा धर्मो ब्राह्मणस्य न संशयः स हि धर्मार्थमुत्पन्नो ब्रह्मभूयाय कल्पते
MBh 13.128.32
तस्य धर्मक्रिया देवि व्रतचर्या च न्यायतः तथोपनयनं चैव द्विजायैवोपपद्यते
MBh 13.128.33
गुरुदैवतपूजार्थं स्वाध्यायाभ्यसनात्मकः देहिभिर्धर्मपरमैश्चर्तव्यो धर्मसंभवः
MBh 13.128.34
उमोवाच भगवन्संशयो मेऽत्र तं मे व्याख्यातुमर्हसि चातुर्वर्ण्यस्य धर्मं हि नैपुण्येन प्रकीर्तय
MBh 13.128.35
महेश्वर उवाच रहस्यश्रवणं धर्मो वेदव्रतनिषेवणम् व्रतचर्यापरो धर्मो गुरुपादप्रसादनम्
MBh 13.128.36
भैक्षचर्यापरो धर्मो धर्मो नित्योपवासिता नित्यस्वाध्यायिता धर्मो ब्रह्मचर्याश्रमस्तथा
MBh 13.128.37
गुरुणा त्वभ्यनुज्ञातः समावर्तेत वै द्विजः विन्देतानन्तरं भार्यामनुरूपां यथाविधि
MBh 13.128.38
शूद्रान्नवर्जनं धर्मस्तथा सत्पथसेवनम् धर्मो नित्योपवासित्वं ब्रह्मचर्यं तथैव च
MBh 13.128.39
आहिताग्निरधीयानो जुह्वानः संयतेन्द्रियः विघसाशी यताहारो गृहस्थः सत्यवाक्शुचिः
MBh 13.128.40
अतिथिव्रतता धर्मो धर्मस्त्रेताग्निधारणम् इष्टीश्च पशुबन्धांश्च विधिपूर्वं समाचरेत्
MBh 13.128.41
यज्ञश्च परमो धर्मस्तथाहिंसा च देहिषु अपूर्वभोजनं धर्मो विघसाशित्वमेव च
MBh 13.128.42
भुक्ते परिजने पश्चाद्भोजनं धर्म उच्यते ब्राह्मणस्य गृहस्थस्य श्रोत्रियस्य विशेषतः
MBh 13.128.43
दंपत्योः समशीलत्वं धर्मश्च गृहमेधिनाम् गृह्याणां चैव देवानां नित्यं पुष्पबलिक्रिया
MBh 13.128.44
नित्योपलेपनं धर्मस्तथा नित्योपवासिता सुसंमृष्टोपलिप्ते च साज्यधूमोद्गमे गृहे
MBh 13.128.45
एष द्विजजने धर्मो गार्हस्थ्यो लोकधारणः द्विजातीनां सतां नित्यं सदैवैष प्रवर्तते
MBh 13.128.46
यस्तु क्षत्रगतो देवि त्वया धर्म उदीरितः तमहं ते प्रवक्ष्यामि तं मे शृणु समाहिता
MBh 13.128.47
क्षत्रियस्य स्मृतो धर्मः प्रजापालनमादितः निर्दिष्टफलभोक्ता हि राजा धर्मेण युज्यते
MBh 13.128.48
प्रजाः पालयते यो हि धर्मेण मनुजाधिपः तस्य धर्मार्जिता लोकाः प्रजापालनसंचिताः
MBh 13.128.49
तत्र राज्ञः परो धर्मो दमः स्वाध्याय एव च अग्निहोत्रपरिस्पन्दो दानाध्ययनमेव च
MBh 13.128.50
यज्ञोपवीतधारणं यज्ञो धर्मक्रियास्तथा भृत्यानां भरणं धर्मः कृते कर्मण्यमोघता
MBh 13.128.51
सम्यग्दण्डे स्थितिर्धर्मो धर्मो वेदक्रतुक्रियाः व्यवहारस्थितिर्धर्मः सत्यवाक्यरतिस्तथा
MBh 13.128.52
आर्तहस्तप्रदो राजा प्रेत्य चेह महीयते गोब्राह्मणार्थे विक्रान्तः संग्रामे निधनं गतः अश्वमेधजिताँल्लोकान्प्राप्नोति त्रिदिवालये
MBh 13.128.53
वैश्यस्य सततं धर्मः पाशुपाल्यं कृषिस्तथा अग्निहोत्रपरिस्पन्दो दानाध्ययनमेव च
MBh 13.128.54
वाणिज्यं सत्पथस्थानमातिथ्यं प्रशमो दमः विप्राणां स्वागतं त्यागो वैश्यधर्मः सनातनः
MBh 13.128.55
तिलान्गन्धान्रसांश्चैव न विक्रीणीत वै क्वचित् वणिक्पथमुपासीनो वैश्यः सत्पथमाश्रितः
MBh 13.128.56
सर्वातिथ्यं त्रिवर्गस्य यथाशक्ति यथार्हतः शूद्रधर्मः परो नित्यं शुश्रूषा च द्विजातिषु
MBh 13.128.57
स शूद्रः संशिततपाः सत्यसंधो जितेन्द्रियः शुश्रूषन्नतिथिं प्राप्तं तपः संचिनुते महत्
MBh 13.128.58
त्यक्तहिंसः शुभाचारो देवताद्विजपूजकः शूद्रो धर्मफलैरिष्टैः संप्रयुज्येत बुद्धिमान्
MBh 13.128.59
एतत्ते सर्वमाख्यातं चातुर्वर्ण्यस्य शोभने एकैकस्येह सुभगे किमन्यच्छ्रोतुमिच्छसि

🪷 The Honest Framing

This chapter belongs to the source-pinned BORI Critical Edition-derived digital witness. Its unique addresses are publicly readable and indexable; this remains a digital-witness claim, not a claim that every Mahābhārata recension agrees word-for-word or that the traditional 100,000-verse extent is represented here.

Navigation

Sources and Connected Readings

Continue from these 59 source-pinned Devanāgarī addresses to Anuśāsana-Parva, the Mahābhārata reading map, and any exact Bhagavad-Gītā correspondence.

MBh 13.128local chapter route · Anuśāsana-ParvaAnuśāsana-Parvaparent Parva chapter index/mahabharata18-parva Sanskrit reading index with edition and address notesBhīṣma-ParvaMahābhārata Parva 6 · the Gītā lives in chapters 23-40MBh 6.23Bhagavad-Gītā chapter 1 in its Itihāsa homeMBh 6.40Bhagavad-Gītā chapter 18 in its Itihāsa homeRāmopākhyānaVana-Parva 258 · Vyāsa narrates the Rāma-kathā inside Krishna's epicNārāyaṇīyamŚānti-Parva 335 · Nārāyaṇa/Krishna/Viṣṇu/Vāsudeva unity witness/bhagavad-gitadeep Gītā corpus with translations, commentaries, and verse-level anchorsBG 1.1Dharma-kṣetra opening cross-anchored to MBh 6.23.1BG 18.66Carama-Śloka surrender seal inside the Bhīṣma-Parva arcVyāsa vibhūtiBG 10.37 · Krishna names Vyāsa among munisBG 10.37Vyāsa and Dhanañjaya as Krishna-vibhūti source routeŚB 1.2.11Brahman · Paramātmā · Bhagavān as one advaya-tattvaŚB 1.3.28kṛṣṇas tu bhagavān svayam · Vyāsa corpus source seal/binduDiamond of Darśanas · Itihāsa as one Bindu aperture/philosophyKrishna = Paramaatma = Parabrahman constitutional foundation

🪷 जय व्यास भगवान् 🪷