🪷 Mahābhārata · Anuśāsana-Parva · Chapter 127

The Book of the Final Teaching · Parva 13 · 51 unique Sanskrit addresses · pinned Critical Edition-derived witness

The Devanāgarī Yathārtha · 51 Shlokas

MBh 13.127.1
भीष्म उवाच ततो नारायणसुहृन्नारदो भगवानृषिः शंकरस्योमया सार्धं संवादं प्रत्यभाषत
MBh 13.127.2
तपश्चचार धर्मात्मा वृषभाङ्कः सुरेश्वरः पुण्ये गिरौ हिमवति सिद्धचारणसेविते
MBh 13.127.3
नानौषधियुते रम्ये नानापुष्पसमाकुले अप्सरोगणसंकीर्णे भूतसंघनिषेविते
MBh 13.127.4
तत्र देवो मुदा युक्तो भूतसंघशतैर्वृतः नानारूपैर्विरूपैश्च दिव्यैरद्भुतदर्शनैः
MBh 13.127.5
सिंहव्याघ्रगजप्रख्यैः सर्वजातिसमन्वितैः क्रोष्टुकद्वीपिवदनैरृक्षर्षभमुखैस्तथा
MBh 13.127.6
उलूकवदनैर्भीमैः श्येनभासमुखैस्तथा नानावर्णमृगप्रख्यैः सर्वजातिसमन्वयैः किंनरैर्देवगन्धर्वैर्यक्षभूतगणैस्तथा
MBh 13.127.7
दिव्यपुष्पसमाकीर्णं दिव्यमालाविभूषितम् दिव्यचन्दनसंयुक्तं दिव्यधूपेन धूपितम् तत्सदो वृषभाङ्कस्य दिव्यवादित्रनादितम्
MBh 13.127.8
मृदङ्गपणवोद्घुष्टं शङ्खभेरीनिनादितम् नृत्यद्भिर्भूतसंघैश्च बर्हिणैश्च समन्ततः
MBh 13.127.9
प्रनृत्ताप्सरसं दिव्यं दिव्यस्त्रीगणसेवितम् दृष्टिकान्तमनिर्देश्यं दिव्यमद्भुतदर्शनम्
MBh 13.127.10
स गिरिस्तपसा तस्य भूतेशस्य व्यरोचत
MBh 13.127.11
स्वाध्यायपरमैर्विप्रैर्ब्रह्मघोषैर्विनादितः षट्पदैरुपगीतैश्च माधवाप्रतिमो गिरिः
MBh 13.127.12
तं महोत्सवसंकाशं भीमरूपधरं पुनः दृष्ट्वा मुनिगणस्यासीत्परा प्रीतिर्जनार्दन
MBh 13.127.13
मुनयश्च महाभागाः सिद्धाश्चैवोर्ध्वरेतसः मरुतो वसवः साध्या विश्वेदेवाः सनातनाः
MBh 13.127.14
यक्षा नागाः पिशाचाश्च लोकपाला हुताशनाः भावाश्च सर्वे न्यग्भूतास्तत्रैवासन्समागताः
MBh 13.127.15
ऋतवः सर्वपुष्पैश्च व्यकिरन्त महाद्भुतैः ओषध्यो ज्वलमानाश्च द्योतयन्ति स्म तद्वनम्
MBh 13.127.16
विहगाश्च मुदा युक्ताः प्रानृत्यन्व्यनदंश्च ह गिरिपृष्ठेषु रम्येषु व्याहरन्तो जनप्रियाः
MBh 13.127.17
तत्र देवो गिरितटे दिव्यधातुविभूषिते पर्यङ्क इव विभ्राजन्नुपविष्टो महामनाः
MBh 13.127.18
व्याघ्रचर्माम्बरधरः सिंहचर्मोत्तरच्छदः व्यालयज्ञोपवीती च लोहिताङ्गदभूषणः
MBh 13.127.19
हरिश्मश्रुर्जटी भीमो भयकर्ता सुरद्विषाम् अभयः सर्वभूतानां भक्तानां वृषभध्वजः
MBh 13.127.20
दृष्ट्वा तमृषयः सर्वे शिरोभिरवनीं गताः विमुक्ताः सर्वपापेभ्यः क्षान्ता विगतकल्मषाः
MBh 13.127.21
तस्य भूतपतेः स्थानं भीमरूपधरं बभौ अप्रधृष्यतरं चैव महोरगसमाकुलम्
MBh 13.127.22
क्षणेनैवाभवत्सर्वमद्भुतं मधुसूदन तत्सदो वृषभाङ्कस्य भीमरूपधरं बभौ
MBh 13.127.23
तमभ्ययाच्छैलसुता भूतस्त्रीगणसंवृता हरतुल्याम्बरधरा समानव्रतचारिणी
MBh 13.127.24
बिभ्रती कलशं रौक्मं सर्वतीर्थजलोद्भवम् गिरिस्रवाभिः पुण्याभिः सर्वतोऽनुगता शुभा
MBh 13.127.25
पुष्पवृष्ट्याभिवर्षन्ती गन्धैर्बहुविधैस्तथा सेवन्ती हिमवत्पार्श्वं हरपार्श्वमुपागमत्
MBh 13.127.26
ततः स्मयन्ती पाणिभ्यां नर्मार्थं चारुदर्शना हरनेत्रे शुभे देवी सहसा सा समावृणोत्
MBh 13.127.27
संवृताभ्यां तु नेत्राभ्यां तमोभूतमचेतनम् निर्होमं निर्वषट्कारं तत्सदः सहसाभवत्
MBh 13.127.28
जनश्च विमनाः सर्वो भयत्राससमन्वितः निमीलिते भूतपतौ नष्टसूर्य इवाभवत्
MBh 13.127.29
ततो वितिमिरो लोकः क्षणेन समपद्यत ज्वाला च महती दीप्ता ललाटात्तस्य निःसृता
MBh 13.127.30
तृतीयं चास्य संभूतं नेत्रमादित्यसंनिभम् युगान्तसदृशं दीप्तं येनासौ मथितो गिरिः
MBh 13.127.31
ततो गिरिसुता दृष्ट्वा दीप्ताग्निसदृशेक्षणम् हरं प्रणम्य शिरसा ददर्शायतलोचना
MBh 13.127.32
दह्यमाने वने तस्मिन्सशालसरलद्रुमे सचन्दनवने रम्ये दिव्यौषधिविदीपिते
MBh 13.127.33
मृगयूथैर्द्रुतैर्भीतैर्हरपार्श्वमुपागतैः शरणं चाप्यविन्दद्भिस्तत्सदः संकुलं बभौ
MBh 13.127.34
ततो नभःस्पृशज्वालो विद्युल्लोलार्चिरुज्ज्वलः द्वादशादित्यसदृशो युगान्ताग्निरिवापरः
MBh 13.127.35
क्षणेन तेन दग्धः स हिमवानभवन्नगः सधातुशिखराभोगो दीनदग्धवनौषधिः
MBh 13.127.36
तं दृष्ट्वा मथितं शैलं शैलराजसुता ततः भगवन्तं प्रपन्ना सा साञ्जलिप्रग्रहा स्थिता
MBh 13.127.37
उमां शर्वस्तदा दृष्ट्वा स्त्रीभावागतमार्दवाम् पितुर्दैन्यमनिच्छन्तीं प्रीत्यापश्यत्ततो गिरिम्
MBh 13.127.38
ततोऽभवत्पुनः सर्वः प्रकृतिस्थः सुदर्शनः प्रहृष्टविहगश्चैव प्रपुष्पितवनद्रुमः
MBh 13.127.39
प्रकृतिस्थं गिरिं दृष्ट्वा प्रीता देवी महेश्वरम् उवाच सर्वभूतानां पतिं पतिमनिन्दिता
MBh 13.127.40
भगवन्सर्वभूतेश शूलपाणे महाव्रत संशयो मे महाञ्जातस्तं मे व्याख्यातुमर्हसि
MBh 13.127.41
किमर्थं ते ललाटे वै तृतीयं नेत्रमुत्थितम् किमर्थं च गिरिर्दग्धः सपक्षिगणकाननः
MBh 13.127.42
किमर्थं च पुनर्देव प्रकृतिस्थः क्षणात्कृतः तथैव द्रुमसंछन्नः कृतोऽयं ते महेश्वर
MBh 13.127.43
महेश्वर उवाच नेत्रे मे संवृते देवि त्वया बाल्यादनिन्दिते नष्टालोकस्ततो लोकः क्षणेन समपद्यत
MBh 13.127.44
नष्टादित्ये तथा लोके तमोभूते नगात्मजे तृतीयं लोचनं दीप्तं सृष्टं ते रक्षता प्रजाः
MBh 13.127.45
तस्य चाक्ष्णो महत्तेजो येनायं मथितो गिरिः त्वत्प्रियार्थं च मे देवि प्रकृतिस्थः क्षणात्कृतः
MBh 13.127.46
उमोवाच भगवन्केन ते वक्त्रं चन्द्रवत्प्रियदर्शनम् पूर्वं तथैव श्रीकान्तमुत्तरं पश्चिमं तथा
MBh 13.127.47
दक्षिणं च मुखं रौद्रं केनोर्ध्वं कपिला जटाः केन कण्ठश्च ते नीलो बर्हिबर्हनिभः कृतः
MBh 13.127.48
हस्ते चैतत्पिनाकं ते सततं केन तिष्ठति जटिलो ब्रह्मचारी च किमर्थमसि नित्यदा
MBh 13.127.49
एतं मे संशयं सर्वं वद भूतपतेऽनघ सधर्मचारिणी चाहं भक्ता चेति वृषध्वज
MBh 13.127.50
एवमुक्तः स भगवाञ्शैलपुत्र्या पिनाकधृक् तस्या वृत्त्या च बुद्ध्या च प्रीतिमानभवत्प्रभुः
MBh 13.127.51
ततस्तामब्रवीद्देवः सुभगे श्रूयतामिति हेतुभिर्यैर्ममैतानि रूपाणि रुचिरानने

🪷 The Honest Framing

This chapter belongs to the source-pinned BORI Critical Edition-derived digital witness. Its unique addresses are publicly readable and indexable; this remains a digital-witness claim, not a claim that every Mahābhārata recension agrees word-for-word or that the traditional 100,000-verse extent is represented here.

Navigation

Sources and Connected Readings

Continue from these 51 source-pinned Devanāgarī addresses to Anuśāsana-Parva, the Mahābhārata reading map, and any exact Bhagavad-Gītā correspondence.

MBh 13.127local chapter route · Anuśāsana-ParvaAnuśāsana-Parvaparent Parva chapter index/mahabharata18-parva Sanskrit reading index with edition and address notesBhīṣma-ParvaMahābhārata Parva 6 · the Gītā lives in chapters 23-40MBh 6.23Bhagavad-Gītā chapter 1 in its Itihāsa homeMBh 6.40Bhagavad-Gītā chapter 18 in its Itihāsa homeRāmopākhyānaVana-Parva 258 · Vyāsa narrates the Rāma-kathā inside Krishna's epicNārāyaṇīyamŚānti-Parva 335 · Nārāyaṇa/Krishna/Viṣṇu/Vāsudeva unity witness/bhagavad-gitadeep Gītā corpus with translations, commentaries, and verse-level anchorsBG 1.1Dharma-kṣetra opening cross-anchored to MBh 6.23.1BG 18.66Carama-Śloka surrender seal inside the Bhīṣma-Parva arcVyāsa vibhūtiBG 10.37 · Krishna names Vyāsa among munisBG 10.37Vyāsa and Dhanañjaya as Krishna-vibhūti source routeŚB 1.2.11Brahman · Paramātmā · Bhagavān as one advaya-tattvaŚB 1.3.28kṛṣṇas tu bhagavān svayam · Vyāsa corpus source seal/binduDiamond of Darśanas · Itihāsa as one Bindu aperture/philosophyKrishna = Paramaatma = Parabrahman constitutional foundation

🪷 जय व्यास भगवान् 🪷