🪷 Mahābhārata · Anuśāsana-Parva · Chapter 126

The Book of the Final Teaching · Parva 13 · 50 unique Sanskrit addresses · pinned Critical Edition-derived witness

The Devanāgarī Yathārtha · 50 Shlokas

MBh 13.126.1
युधिष्ठिर उवाच पितामह महाप्राज्ञ सर्वशास्त्रविशारद आगमैर्बहुभिः स्फीतो भवान्नः प्रथितः कुले
MBh 13.126.2
त्वत्तो धर्मार्थसंयुक्तमायत्यां च सुखोदयम् आश्चर्यभूतं लोकस्य श्रोतुमिच्छाम्यरिंदम
MBh 13.126.3
अयं च कालः संप्राप्तो दुर्लभज्ञातिबान्धवः शास्ता च न हि नः कश्चित्त्वामृते भरतर्षभ
MBh 13.126.4
यदि तेऽहमनुग्राह्यो भ्रातृभिः सहितोऽनघ वक्तुमर्हसि नः प्रश्नं यत्त्वां पृच्छामि पार्थिव
MBh 13.126.5
अयं नारायणः श्रीमान्सर्वपार्थिवसंमतः भवन्तं बहुमानेन प्रश्रयेण च सेवते
MBh 13.126.6
अस्य चैव समक्षं त्वं पार्थिवानां च सर्वशः भ्रातॄणां च प्रियार्थं मे स्नेहाद्भाषितुमर्हसि
MBh 13.126.7
वैशंपायन उवाच तस्य तद्वचनं श्रुत्वा स्नेहादागतसंभ्रमः भीष्मो भागीरथीपुत्र इदं वचनमब्रवीत्
MBh 13.126.8
हन्त ते कथयिष्यामि कथामतिमनोरमाम् अस्य विष्णोः पुरा राजन्प्रभावोऽयं मया श्रुतः
MBh 13.126.9
यश्च गोवृषभाङ्कस्य प्रभावस्तं च मे शृणु रुद्राण्याः संशयो यश्च दंपत्योस्तं च मे शृणु
MBh 13.126.10
व्रतं चचार धर्मात्मा कृष्णो द्वादशवार्षिकम् दीक्षितं चागतौ द्रष्टुमुभौ नारदपर्वतौ
MBh 13.126.11
कृष्णद्वैपायनश्चैव धौम्यश्च जपतां वरः देवलः काश्यपश्चैव हस्तिकाश्यप एव च
MBh 13.126.12
अपरे ऋषयः सन्तो दीक्षादमसमन्विताः शिष्यैरनुगताः सर्वे देवकल्पैस्तपोधनैः
MBh 13.126.13
तेषामतिथिसत्कारमर्चनीयं कुलोचितम् देवकीतनयः प्रीतो देवकल्पमकल्पयत्
MBh 13.126.14
हरितेषु सुवर्णेषु बर्हिष्केषु नवेषु च उपोपविविशुः प्रीता विष्टरेषु महर्षयः
MBh 13.126.15
कथाश्चक्रुस्ततस्ते तु मधुरा धर्मसंहिताः राजर्षीणां सुराणां च ये वसन्ति तपोधनाः
MBh 13.126.16
ततो नारायणं तेजो व्रतचर्येन्धनोत्थितम् वक्त्रान्निःसृत्य कृष्णस्य वह्निरद्भुतकर्मणः
MBh 13.126.17
सोऽग्निर्ददाह तं शैलं सद्रुमं सलताक्षुपम् सपक्षिमृगसंघातं सश्वापदसरीसृपम्
MBh 13.126.18
मृगैश्च विविधाकारैर्हाहाभूतमचेतनम् शिखरं तस्य शैलस्य मथितं दीप्तदर्शनम्
MBh 13.126.19
स तु वह्निर्महाज्वालो दग्ध्वा सर्वमशेषतः विष्णोः समीपमागम्य पादौ शिष्यवदस्पृशत्
MBh 13.126.20
ततो विष्णुर्वनं दृष्ट्वा निर्दग्धमरिकर्शनः सौम्यैर्दृष्टिनिपातैस्तत्पुनः प्रकृतिमानयत्
MBh 13.126.21
तथैव स गिरिर्भूयः प्रपुष्पितलताद्रुमः सपक्षिगणसंघुष्टः सश्वापदसरीसृपः
MBh 13.126.22
तदद्भुतमचिन्त्यं च दृष्ट्वा मुनिगणस्तदा विस्मितो हृष्टलोमा च बभूवास्राविलेक्षणः
MBh 13.126.23
ततो नारायणो दृष्ट्वा तानृषीन्विस्मयान्वितान् प्रश्रितं मधुरं स्निग्धं पप्रच्छ वदतां वरः
MBh 13.126.24
किमस्य ऋषिपूगस्य त्यक्तसङ्गस्य नित्यशः निर्ममस्यागमवतो विस्मयः समुपागतः
MBh 13.126.25
एतं मे संशयं सर्वं याथातथ्यमनिन्दिताः ऋषयो वक्तुमर्हन्ति निश्चितार्थं तपोधनाः
MBh 13.126.26
ऋषय ऊचुः भवान्विसृजते लोकान्भवान्संहरते पुनः भवाञ्शीतं भवानुष्णं भवानेव प्रवर्षति
MBh 13.126.27
पृथिव्यां यानि भूतानि स्थावराणि चराणि च तेषां पिता त्वं माता च प्रभुः प्रभव एव च
MBh 13.126.28
एतन्नो विस्मयकरं प्रशंस मधुसूदन त्वमेवार्हसि कल्याण वक्तुं वह्नेर्विनिर्गमम्
MBh 13.126.29
ततो विगतसंत्रासा वयमप्यरिकर्शन यच्छ्रुतं यच्च दृष्टं नस्तत्प्रवक्ष्यामहे हरे
MBh 13.126.30
वासुदेव उवाच एतत्तद्वैष्णवं तेजो मम वक्त्राद्विनिःसृतम् कृष्णवर्त्मा युगान्ताभो येनायं मथितो गिरिः
MBh 13.126.31
ऋषयश्चार्तिमापन्ना जितक्रोधा जितेन्द्रियाः भवन्तो व्यथिताश्चासन्देवकल्पास्तपोधनाः
MBh 13.126.32
व्रतचर्यापरीतस्य तपस्विव्रतसेवया मम वह्निः समुद्भूतो न वै व्यथितुमर्हथ
MBh 13.126.33
व्रतं चर्तुमिहायातस्त्वहं गिरिमिमं शुभम् पुत्रं चात्मसमं वीर्ये तपसा स्रष्टुमागतः
MBh 13.126.34
ततो ममात्मा यो देहे सोऽग्निर्भूत्वा विनिःसृतः गतश्च वरदं द्रष्टुं सर्वलोकपितामहम्
MBh 13.126.35
तेन चात्मानुशिष्टो मे पुत्रत्वे मुनिसत्तमाः तेजसोऽर्धेन पुत्रस्ते भवितेति वृषध्वजः
MBh 13.126.36
सोऽयं वह्निरुपागम्य पादमूले ममान्तिकम् शिष्यवत्परिचर्याथ शान्तः प्रकृतिमागतः
MBh 13.126.37
एतदस्य रहस्यं वः पद्मनाभस्य धीमतः मया प्रेम्णा समाख्यातं न भीः कार्या तपोधनाः
MBh 13.126.38
सर्वत्र गतिरव्यग्रा भवतां दीर्घदर्शनाः तपस्विव्रतसंदीप्ता ज्ञानविज्ञानशोभिताः
MBh 13.126.39
यच्छ्रुतं यच्च वो दृष्टं दिवि वा यदि वा भुवि आश्चर्यं परमं किंचित्तद्भवन्तो ब्रुवन्तु मे
MBh 13.126.40
तस्यामृतनिकाशस्य वाङ्मधोरस्ति मे स्पृहा भवद्भिः कथितस्येह तपोवननिवासिभिः
MBh 13.126.41
यद्यप्यहमदृष्टं वा दिव्यमद्भुतदर्शनम् दिवि वा भुवि वा किंचित्पश्याम्यमलदर्शनाः
MBh 13.126.42
प्रकृतिः सा मम परा न क्वचित्प्रतिहन्यते न चात्मगतमैश्वर्यमाश्चर्यं प्रतिभाति मे
MBh 13.126.43
श्रद्धेयः कथितो ह्यर्थः सज्जनश्रवणं गतः चिरं तिष्ठति मेदिन्यां शैले लेख्यमिवार्पितम्
MBh 13.126.44
तदहं सज्जनमुखान्निःसृतं तत्समागमे कथयिष्याम्यहरहर्बुद्धिदीपकरं नृणाम्
MBh 13.126.45
ततो मुनिगणाः सर्वे प्रश्रिताः कृष्णसंनिधौ नेत्रैः पद्मदलप्रख्यैरपश्यन्त जनार्दनम्
MBh 13.126.46
वर्धयन्तस्तथैवान्ये पूजयन्तस्तथापरे वाग्भिरृग्भूषितार्थाभिः स्तुवन्तो मधुसूदनम्
MBh 13.126.47
ततो मुनिगणाः सर्वे नारदं देवदर्शनम् तदा नियोजयामासुर्वचने वाक्यकोविदम्
MBh 13.126.48
यदाश्चर्यमचिन्त्यं च गिरौ हिमवति प्रभो अनुभूतं मुनिगणैस्तीर्थयात्रापरायणैः
MBh 13.126.49
तद्भवानृषिसंघस्य हितार्थं सर्वचोदितः यथादृष्टं हृषीकेशे सर्वमाख्यातुमर्हति
MBh 13.126.50
एवमुक्तः स मुनिभिर्नारदो भगवानृषिः कथयामास देवर्षिः पूर्ववृत्तां कथां शुभाम्

🪷 The Honest Framing

This chapter belongs to the source-pinned BORI Critical Edition-derived digital witness. Its unique addresses are publicly readable and indexable; this remains a digital-witness claim, not a claim that every Mahābhārata recension agrees word-for-word or that the traditional 100,000-verse extent is represented here.

Navigation

Sources and Connected Readings

Continue from these 50 source-pinned Devanāgarī addresses to Anuśāsana-Parva, the Mahābhārata reading map, and any exact Bhagavad-Gītā correspondence.

MBh 13.126local chapter route · Anuśāsana-ParvaAnuśāsana-Parvaparent Parva chapter index/mahabharata18-parva Sanskrit reading index with edition and address notesBhīṣma-ParvaMahābhārata Parva 6 · the Gītā lives in chapters 23-40MBh 6.23Bhagavad-Gītā chapter 1 in its Itihāsa homeMBh 6.40Bhagavad-Gītā chapter 18 in its Itihāsa homeRāmopākhyānaVana-Parva 258 · Vyāsa narrates the Rāma-kathā inside Krishna's epicNārāyaṇīyamŚānti-Parva 335 · Nārāyaṇa/Krishna/Viṣṇu/Vāsudeva unity witness/bhagavad-gitadeep Gītā corpus with translations, commentaries, and verse-level anchorsBG 1.1Dharma-kṣetra opening cross-anchored to MBh 6.23.1BG 18.66Carama-Śloka surrender seal inside the Bhīṣma-Parva arcVyāsa vibhūtiBG 10.37 · Krishna names Vyāsa among munisBG 10.37Vyāsa and Dhanañjaya as Krishna-vibhūti source routeŚB 1.2.11Brahman · Paramātmā · Bhagavān as one advaya-tattvaŚB 1.3.28kṛṣṇas tu bhagavān svayam · Vyāsa corpus source seal/binduDiamond of Darśanas · Itihāsa as one Bindu aperture/philosophyKrishna = Paramaatma = Parabrahman constitutional foundation

🪷 जय व्यास भगवान् 🪷