🪷 Mahābhārata · Anuśāsana-Parva · Chapter 125

The Book of the Final Teaching · Parva 13 · 38 unique Sanskrit addresses · pinned Critical Edition-derived witness

The Devanāgarī Yathārtha · 38 Shlokas

MBh 13.125.1
युधिष्ठिर उवाच साम्ना वापि प्रदाने वा ज्यायः किं भवतो मतम् प्रब्रूहि भरतश्रेष्ठ यदत्र व्यतिरिच्यते
MBh 13.125.2
भीष्म उवाच साम्ना प्रसाद्यते कश्चिद्दानेन च तथापरः पुरुषः प्रकृतिं ज्ञात्वा तयोरेकतरं भजेत्
MBh 13.125.3
गुणांस्तु शृणु मे राजन्सान्त्वस्य भरतर्षभ दारुणान्यपि भूतानि सान्त्वेनाराधयेद्यथा
MBh 13.125.4
अत्राप्युदाहरन्तीममितिहासं पुरातनम् गृहीत्वा रक्षसा मुक्तो द्विजातिः कानने यथा
MBh 13.125.5
कश्चित्तु बुद्धिसंपन्नो ब्राह्मणो विजने वने गृहीतः कृच्छ्रमापन्नो रक्षसा भक्षयिष्यता
MBh 13.125.6
स बुद्धिश्रुतसंपन्नस्तं दृष्ट्वातीव भीषणम् सामैवास्मिन्प्रयुयुजे न मुमोह न विव्यथे
MBh 13.125.7
रक्षस्तु वाचा संपूज्य प्रश्नं पप्रच्छ तं द्विजम् मोक्ष्यसे ब्रूहि मे प्रश्नं केनास्मि हरिणः कृशः
MBh 13.125.8
मुहूर्तमथ संचिन्त्य ब्राह्मणस्तस्य रक्षसः आभिर्गाथाभिरव्यग्रः प्रश्नं प्रतिजगाद ह
MBh 13.125.9
विदेशस्थो विलोकस्थो विना नूनं सुहृज्जनैः विषयानतुलान्भुङ्क्षे तेनासि हरिणः कृशः
MBh 13.125.10
नूनं मित्राणि ते रक्षः साधूपचरितान्यपि स्वदोषादपरज्यन्ते तेनासि हरिणः कृशः
MBh 13.125.11
धनैश्वर्याधिकाः स्तब्धास्त्वद्गुणैः परमावराः अवजानन्ति नूनं त्वां तेनासि हरिणः कृशः
MBh 13.125.12
गुणवान्विगुणानन्यान्नूनं पश्यसि सत्कृतान् प्राज्ञोऽप्राज्ञान्विनीतात्मा तेनासि हरिणः कृशः
MBh 13.125.13
अवृत्त्या क्लिश्यमानोऽपि वृत्त्युपायान्विगर्हयन् माहात्म्याद्व्यथसे नूनं तेनासि हरिणः कृशः
MBh 13.125.14
संपीड्यात्मानमार्यत्वात्त्वया कश्चिदुपस्कृतः जितं त्वां मन्यते साधो तेनासि हरिणः कृशः
MBh 13.125.15
क्लिश्यमानान्विमार्गेषु कामक्रोधावृतात्मनः मन्ये नु ध्यायसि जनांस्तेनासि हरिणः कृशः
MBh 13.125.16
प्राज्ञैः संभावितो नूनं नप्राज्ञैरुपसंहितः ह्रीमानमर्षी दुर्वृत्तैस्तेनासि हरिणः कृशः
MBh 13.125.17
नूनं मित्रमुखः शत्रुः कश्चिदार्यवदाचरन् वञ्चयित्वा गतस्त्वां वै तेनासि हरिणः कृशः
MBh 13.125.18
प्रकाशार्थगतिर्नूनं रहस्यकुशलः कृती तज्ज्ञैर्न पूज्यसे नूनं तेनासि हरिणः कृशः
MBh 13.125.19
असत्स्वभिनिविष्टेषु ब्रुवतो मुक्तसंशयम् गुणास्ते न विराजन्ते तेनासि हरिणः कृशः
MBh 13.125.20
धनबुद्धिश्रुतैर्हीनः केवलं तेजसान्वितः महत्प्रार्थयसे नूनं तेनासि हरिणः कृशः
MBh 13.125.21
तपःप्रणिहितात्मानं मन्ये त्वारण्यकाङ्क्षिणम् बन्धुवर्गो न गृह्णाति तेनासि हरिणः कृशः
MBh 13.125.22
नूनमर्थवतां मध्ये तव वाक्यमनुत्तमम् न भाति कालेऽभिहितं तेनासि हरिणः कृशः
MBh 13.125.23
दृढपूर्वश्रुतं मूर्खं कुपितं हृदयप्रियम् अनुनेतुं न शक्नोषि तेनासि हरिणः कृशः
MBh 13.125.24
नूनमासंजयित्वा ते कृत्ये कस्मिंश्चिदीप्सिते कश्चिदर्थयतेऽत्यर्थं तेनासि हरिणः कृशः
MBh 13.125.25
नूनं त्वा स्वगुणापेक्षं पूजयानं सुहृद्ध्रुवम् मयार्थ इति जानाति तेनासि हरिणः कृशः
MBh 13.125.26
अन्तर्गतमभिप्रायं न नूनं लज्जयेच्छसि विवक्तुं प्राप्तिशैथिल्यात्तेनासि हरिणः कृशः
MBh 13.125.27
नानाबुद्धिरुचीँल्लोके मनुष्यान्नूनमिच्छसि ग्रहीतुं स्वगुणैः सर्वांस्तेनासि हरिणः कृशः
MBh 13.125.28
अविद्वान्भीरुरल्पार्थो विद्याविक्रमदानजम् यशः प्रार्थयसे नूनं तेनासि हरिणः कृशः
MBh 13.125.29
चिराभिलषितं किंचित्फलमप्राप्तमेव ते कृतमन्यैरपहृतं तेनासि हरिणः कृशः
MBh 13.125.30
नूनमात्मकृतं दोषमपश्यन्किंचिदात्मनि अकारणेऽभिशस्तोऽसि तेनासि हरिणः कृशः
MBh 13.125.31
सुहृदामप्रमत्तानामप्रमोक्ष्यार्थहानिजम् दुःखमर्थगुणैर्हीनं तेनासि हरिणः कृशः
MBh 13.125.32
साधून्गृहस्थान्दृष्ट्वा च तथासाधून्वनेचरान् मुक्तांश्चावसथे सक्तांस्तेनासि हरिणः कृशः
MBh 13.125.33
धर्म्यमर्थं च काले च देशे चाभिहितं वचः न प्रतिष्ठति ते नूनं तेनासि हरिणः कृशः
MBh 13.125.34
दत्तानकुशलैरर्थान्मनीषी संजिजीविषुः प्राप्य वर्तयसे नूनं तेनासि हरिणः कृशः
MBh 13.125.35
पापान्विवर्धतो दृष्ट्वा कल्याणांश्चावसीदतः ध्रुवं मृगयसे योग्यं तेनासि हरिणः कृशः
MBh 13.125.36
परस्परविरुद्धानां प्रियं नूनं चिकीर्षसि सुहृदामविरोधेन तेनासि हरिणः कृशः
MBh 13.125.37
श्रोत्रियांश्च विकर्मस्थान्प्राज्ञांश्चाप्यजितेन्द्रियान् मन्येऽनुध्यायसि जनांस्तेनासि हरिणः कृशः
MBh 13.125.38
एवं संपूजितं रक्षो विप्रं तं प्रत्यपूजयत् सखायमकरोच्चैनं संयोज्यार्थैर्मुमोच ह

🪷 The Honest Framing

This chapter belongs to the source-pinned BORI Critical Edition-derived digital witness. Its unique addresses are publicly readable and indexable; this remains a digital-witness claim, not a claim that every Mahābhārata recension agrees word-for-word or that the traditional 100,000-verse extent is represented here.

Navigation

Sources and Connected Readings

Continue from these 38 source-pinned Devanāgarī addresses to Anuśāsana-Parva, the Mahābhārata reading map, and any exact Bhagavad-Gītā correspondence.

MBh 13.125local chapter route · Anuśāsana-ParvaAnuśāsana-Parvaparent Parva chapter index/mahabharata18-parva Sanskrit reading index with edition and address notesBhīṣma-ParvaMahābhārata Parva 6 · the Gītā lives in chapters 23-40MBh 6.23Bhagavad-Gītā chapter 1 in its Itihāsa homeMBh 6.40Bhagavad-Gītā chapter 18 in its Itihāsa homeRāmopākhyānaVana-Parva 258 · Vyāsa narrates the Rāma-kathā inside Krishna's epicNārāyaṇīyamŚānti-Parva 335 · Nārāyaṇa/Krishna/Viṣṇu/Vāsudeva unity witness/bhagavad-gitadeep Gītā corpus with translations, commentaries, and verse-level anchorsBG 1.1Dharma-kṣetra opening cross-anchored to MBh 6.23.1BG 18.66Carama-Śloka surrender seal inside the Bhīṣma-Parva arcVyāsa vibhūtiBG 10.37 · Krishna names Vyāsa among munisBG 10.37Vyāsa and Dhanañjaya as Krishna-vibhūti source routeŚB 1.2.11Brahman · Paramātmā · Bhagavān as one advaya-tattvaŚB 1.3.28kṛṣṇas tu bhagavān svayam · Vyāsa corpus source seal/binduDiamond of Darśanas · Itihāsa as one Bindu aperture/philosophyKrishna = Paramaatma = Parabrahman constitutional foundation

🪷 जय व्यास भगवान् 🪷