🪷 Mahābhārata · Anuśāsana-Parva · Chapter 137

The Book of the Final Teaching · Parva 13 · 26 shlokas in canonical Devanāgarī Sanskrit

Mahābhārata Detail Source-Anchor Spine

This chapter page keeps the local Devanāgarī chapter tied to its Parva, the Mahābhārata master route, any exact Gītā cross-anchor, and the wider Vyāsa source spine.

MBh 13.137local chapter route · Anuśāsana-ParvaAnuśāsana-Parvaparent Parva chapter index/mahabharatamaster index for all 18 Parvas and 73,821 ślokasBhīṣma-ParvaMahābhārata Parva 6 · the Gītā lives in chapters 23-40MBh 6.23Bhagavad-Gītā chapter 1 in its Itihāsa homeMBh 6.40Bhagavad-Gītā chapter 18 in its Itihāsa homeRāmopākhyānaVana-Parva 258 · Vyāsa narrates the Rāma-kathā inside Krishna's epicNārāyaṇīyamŚānti-Parva 335 · Nārāyaṇa/Krishna/Viṣṇu/Vāsudeva unity witness/bhagavad-gitadeep Gītā corpus with translations, commentaries, and verse-level anchorsBG 1.1Dharma-kṣetra opening cross-anchored to MBh 6.23.1BG 18.66Carama-Śloka surrender seal inside the Bhīṣma-Parva arcVyāsa vibhūtiBG 10.37 · Krishna names Vyāsa among munisBG 10.37Vyāsa and Dhanañjaya as Krishna-vibhūti source routeŚB 1.2.11Brahman · Paramātmā · Bhagavān as one advaya-tattvaŚB 1.3.28kṛṣṇas tu bhagavān svayam · Vyāsa corpus source seal/binduDiamond of Darśanas · Itihāsa as one Bindu aperture/philosophyKrishna = Paramaatma = Parabrahman constitutional foundation

The Devanāgarī Yathārtha · 26 Shlokas

MBh 13.137.1
[य] कां तु बराह्मण पूजायां वयुष्टिं दृष्ट्वा जनाधिप कं वा कर्मॊदयं मत्वा तान अर्चसि महामते
MBh 13.137.2
[भ] अत्राप्य उदाहरन्तीमम इतिहासं पुरातनम पवनस्य च संवादम अर्जुनस्य च भारत
MBh 13.137.3
सहस्रभुज भृच छरीमान कार्तवीर्यॊ ऽभवत परभुः अस्य लॊकस्य सर्वस्य माहिष्मत्यां महाबलः
MBh 13.137.4
स तु रत्नाकरवतीं स दवीपां सागराम्बराम शशास सर्वां पृथिवीं हैहयः सत्यविक्रमः
MBh 13.137.5
सववित्तं तेन दत्तं तु दत्तात्रेयाय कारणे कषत्रधर्मं पुरस्कृत्य विनयं शरुतम एव च
MBh 13.137.6
आराधयाम आस च तं कृतवीर्यात्मजॊ मुनिम नयमन्त्रयत संहृष्टः स दविजश च वरैस तरिभिः
MBh 13.137.7
स वरैश छन्दितस तेन नृपॊ वचनम अब्रवीत सहस्रबाहुर भूयां वै चमूमध्ये गृहे ऽनयथा
MBh 13.137.8
मम बाहुसहस्रं तु पश्यन्तां सैनिका रणे विक्रमेण महीं कृत्स्नां जयेयं विपुलव्रत तां च धर्मेण संप्राप्य पालयेयम अतन्द्रितः
MBh 13.137.9
चतुर्थं तु वरं याचे तवाम अहं दविजसत्तम तं ममानुग्रह कृते दातुम अर्हस्य अनिन्दित अनुशासन्तु मां सन्तॊ मिथ्यावृत्तं तदाश्रयम
MBh 13.137.10
इत्य उक्तः स दविजः पराह तथास्त्व इति नराधिपम एवं समभवंस तस्य वरास ते दीप्ततेजसः
MBh 13.137.11
ततः स रथम आस्थाय जवलनार्कसमद्युतिः अब्रवीद वीर्यसंमॊहात कॊ नव अस्ति सदृशॊ मया वीर्यधैर्य यशः शौचैर विक्रमेणौजसापि वा
MBh 13.137.12
तद वाक्यान्ते चान्तरिक्षे वाग उवाचाशरीरिणी न तवं मूढ विजानीषे बराह्मणं कषत्रियाद वरम सहितॊ बराह्मणेनेह कषत्रियॊ रक्षति परजाः
MBh 13.137.13
[अर्जुन] कुर्यां भूतानि तुष्टॊ ऽहं करुद्धॊ नाशं तथा नये कर्मणा मनसा वाचा न मत्तॊ ऽसति वरॊ दविजः
MBh 13.137.14
पूर्वॊ बरह्मॊत्तरॊ वादॊ दवितीयः कषत्रियॊत्तरः तवयॊक्तौ यौ तु तौ हेतू विशेषस तव अत्र दृश्यते
MBh 13.137.15
बराह्मणाः संश्रिताः कषत्रं न कषत्रं बराह्मणाश्रितम शरितान बरह्मॊपधा विप्राः खादन्ति कषत्रियान भुवि
MBh 13.137.16
कषत्रियेष्व आश्रितॊ धर्मः परजानां परिपालनम कषत्राद वृत्तिर बराह्मणानां तैः कथं बराह्मणॊ वरः
MBh 13.137.17
सर्वभूतप्रधानांस तान भैक्ष वृत्तीन अहं सदा आत्मसंभावितान विप्रान सथापयाम्य आत्मनॊ वशे
MBh 13.137.18
कथितं हय अनया सत्यं गायत्र्या कन्यया दिवि विजेष्याम्य अवशान सर्वान बराह्मणांश चर्म वाससः
MBh 13.137.19
न च मां चयावयेद राष्ट्रात तरिषु लॊकेषु कश चन देवॊ वा मानुषॊ वापि तस्माज जयेष्ठॊ दविजाद अहम
MBh 13.137.20
अद्य बरह्मॊत्तरं लॊकं करिष्ये कषत्रियॊत्तरम न हि मे संयुगे कश चित सॊढुम उत्सहते बलम
MBh 13.137.21
अर्जुनस्य वचः शरुत्वा वित्रस्ताभून निशाचरी अथैनम अन्तरिक्षस्थस ततॊ वायुर अभाषत
MBh 13.137.22
तयजैनं कलुषं भावं बराह्मणेभ्यॊ नमस्कुरु एतेषां कुर्वतः पापं राष्ट्रक्षॊभॊ हि ते भवेत
MBh 13.137.23
अथ वा तवां महीपाल शमयिष्यन्ति वै दविजाः निरसिष्यन्ति वा राष्ट्राद धतॊत्साहं महाबलाः
MBh 13.137.24
तं राजा कस तवम इत्य आह ततस तं पराह मारुतः वायुर वै देवदूतॊ ऽसमि हितं तवां परब्रवीम्य अहम
MBh 13.137.25
[अ] अहॊ तवयाद्य विप्रेषु भक्तिरागः परदर्शितः यादृशं पृथिवी भूतं तादृशं बरूहि वै दविजम
MBh 13.137.26
वायॊर वा सदृशं किं चिद बरूहि तवं बराह्मणॊत्तमम अपां वै सदृशं बरूहि सूर्यस्य नभसॊ ऽपि वा

🪷 The Honest Framing

This is the canonical Devanāgarī Sanskrit yathārtha. English + Hindi translations + classical commentaries arrive in future yajñas. To see the substrate's target-depth (5 English translations + Rāmsukhdās ji Hindi + 5 English commentaries + Sādhaka-Sañjīvanī Hindi vyākhyā per verse), visit any /bhagavad-gita/X/Y page. The Mahābhārata journey starts with the śloka.

Navigation

🪷 जय व्यास भगवान् 🪷